14.046
ब्रह्मोवाच॥
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि। अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् ॥१४-४६-१॥
स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः। गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः ॥१४-४६-२॥
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन्। हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान् ॥१४-४६-३॥
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः। धारयीत सदा दण्डं बैल्वं पालाशमेव वा ॥१४-४६-४॥
क्षौमं कार्पासिकं वापि मृगाजिनमथापि वा। सर्वं काषायरक्तं स्याद्वासो वापि द्विजस्य ह ॥१४-४६-५॥
मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा। यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः ॥१४-४६-६॥
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम्। भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते ॥१४-४६-७॥
एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः। न संसरति जातीषु परमं स्थानमाश्रितः ॥१४-४६-८॥
संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान्। ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत् ॥१४-४६-९॥
चर्मवल्कलसंवीतः स्वयं प्रातरुपस्पृशेत्। अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः ॥१४-४६-१०॥
अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम्। फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् ॥१४-४६-११॥
प्रवृत्तमुदकं वायुं सर्वं वानेयमा तृणात्। प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः ॥१४-४६-१२॥
आमूलफलभिक्षाभिरर्चेदतिथिमागतम्। यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः ॥१४-४६-१३॥
देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः। अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः ॥१४-४६-१४॥
दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन्। जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः ॥१४-४६-१५॥
त्यक्तदेहः सदा दक्षो वननित्यः समाहितः। एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः ॥१४-४६-१६॥
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः। य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् ॥१४-४६-१७॥
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्। सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः ॥१४-४६-१८॥
अयाचितमसङ्कॢप्तमुपपन्नं यदृच्छया। जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः ॥१४-४६-१९॥
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम्। धर्मलब्धं तथाश्नीयान्न काममनुवर्तयेत् ॥१४-४६-२०॥
ग्रासादाच्छादनाच्चान्यन्न गृह्णीयात्कथञ्चन। यावदाहारयेत्तावत्प्रतिगृह्णीत नान्यथा ॥१४-४६-२१॥
परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन। दैन्यभावाच्च भूतानां संविभज्य सदा बुधः ॥१४-४६-२२॥
नाददीत परस्वानि न गृह्णीयादयाचितम्। न किञ्चिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः ॥१४-४६-२३॥
मृदमापस्तथाश्मानं पत्रपुष्पफलानि च। असंवृतानि गृह्णीयात्प्रवृत्तानीह कार्यवान् ॥१४-४६-२४॥
न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत्। न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः ॥ श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत् ॥१४-४६-२५॥
मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम्। कृत्वा वह्निं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने ॥१४-४६-२६॥
वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित्। लाभे न च प्रहृष्येत नालाभे विमना भवेत् ॥१४-४६-२७॥
मात्राशी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः। लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ॥ अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः ॥१४-४६-२८॥
शुक्तान्यम्लानि तिक्तानि कषायकटुकानि च। नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा ॥ यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् ॥१४-४६-२९॥
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित्। न चान्यमनुभिक्षेत भिक्षमाणः कथञ्चन ॥१४-४६-३०॥
न संनिकाशयेद्धर्मं विविक्ते विरजाश्चरेत्। शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा ॥ प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् ॥१४-४६-३१॥
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत्। अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम् ॥१४-४६-३२॥
दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत्। सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् ॥१४-४६-३३॥
पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित्। उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा ॥१४-४६-३४॥
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च। अक्रोधश्चानसूया च दमो नित्यमपैशुनम् ॥१४-४६-३५॥
अष्टास्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः। अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् ॥१४-४६-३६॥
आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च। लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत् ॥१४-४६-३७॥
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत्। समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥१४-४६-३८॥
परं नोद्वेजयेत्कञ्चिन्न च कस्यचिदुद्विजेत्। विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ॥१४-४६-३९॥
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत्। वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः ॥१४-४६-४०॥
न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित्। न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत् ॥१४-४६-४१॥
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः। क्षीणेन्द्रियमनोबुद्धिर्निरीक्षेत निरिन्द्रियः ॥१४-४६-४२॥
निर्द्वंद्वो निर्नमस्कारो निःस्वाहाकार एव च। निर्ममो निरहङ्कारो निर्योगक्षेम एव च ॥१४-४६-४३॥
निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः। सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः ॥१४-४६-४४॥
अपाणिपादपृष्ठं तमशिरस्कमनूदरम्। प्रहीणगुणकर्माणं केवलं विमलं स्थिरम् ॥१४-४६-४५॥
अगन्धरसमस्पर्शमरूपाशब्दमेव च। अत्वगस्थ्यथ वामज्जममांसमपि चैव ह ॥१४-४६-४६॥
निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा। सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ॥१४-४६-४७॥
न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः। वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः ॥ यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता ॥१४-४६-४८॥
तस्मादलिङ्गो धर्मज्ञो धर्मव्रतमनुव्रतः। गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् ॥१४-४६-४९॥
अमूढो मूढरूपेण चरेद्धर्ममदूषयन्। यथैनमवमन्येरन्परे सततमेव हि ॥१४-४६-५०॥
तथावृत्तश्चरेद्धर्मं सतां वर्त्माविदूषयन्। यो ह्येवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते ॥१४-४६-५१॥
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च। मनोबुद्धिरथात्मानमव्यक्तं पुरुषं तथा ॥१४-४६-५२॥
सर्वमेतत्प्रसङ्ख्याय सम्यक्सन्त्यज्य निर्मलः। ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः ॥१४-४६-५३॥
एतदेवान्तवेलायां परिसङ्ख्याय तत्त्ववित्। ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः ॥१४-४६-५४॥
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा। क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम् ॥१४-४६-५५॥