Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.048
ब्रह्मोवाच॥
केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं महत्। केचित्पुरुषमव्यक्तं केचित्परमनामयम् ॥ मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ॥१४-४८-१॥
उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत्। आत्मानमुपसङ्गम्य सोऽमृतत्वाय कल्पते ॥१४-४८-२॥
निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि। गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥१४-४८-३॥
प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः। दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ॥१४-४८-४॥
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति। अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते ॥१४-४८-५॥
सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः। अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रयम् ॥ न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः ॥१४-४८-६॥
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्। ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते ॥१४-४८-७॥
एतेनैवानुमानेन मन्यन्तेऽथ मनीषिणः। सत्त्वं च पुरुषश्चैकस्तत्र नास्ति विचारणा ॥१४-४८-८॥
आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः। क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते ॥१४-४८-९॥
पृथग्भूतस्ततो नित्यमित्येतदविचारितम्। पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः ॥१४-४८-१०॥
तथैवैकत्वनानात्वमिष्यते विदुषां नयः। मशकोदुम्बरे त्वैक्यं पृथक्त्वमपि दृश्यते ॥१४-४८-११॥
मत्स्यो यथान्यः स्यादप्सु सम्प्रयोगस्तथानयोः। सम्बन्धस्तोयबिन्दूनां पर्णे कोकनदस्य च ॥१४-४८-१२॥
गुरुरुवाच॥
इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम्। पुनः संशयमापन्नाः पप्रच्छुर्द्विजसत्तमाः ॥१४-४८-१३॥
ऋषय ऊचुः॥
किं स्विदेवेह धर्माणामनुष्ठेयतमं स्मृतम्। व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् ॥१४-४८-१४॥
ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे। केचित्संशयितं सर्वं निःसंशयमथापरे ॥१४-४८-१५॥
अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे। एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे ॥ एकमेके पृथक्चान्ये बहुत्वमिति चापरे ॥१४-४८-१६॥
मन्यन्ते ब्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः। जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ॥१४-४८-१७॥
अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे। आहारं केचिदिच्छन्ति केचिच्चानशने रताः ॥१४-४८-१८॥
कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे। देशकालावुभौ केचिन्नैतदस्तीति चापरे ॥ केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् ॥१४-४८-१९॥
धनानि केचिदिच्छन्ति निर्धनत्वं तथापरे। उपास्यसाधनं त्वेके नैतदस्तीति चापरे ॥१४-४८-२०॥
अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः। पुण्येन यशसेत्येके नैतदस्तीति चापरे ॥१४-४८-२१॥
सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः। दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः ॥१४-४८-२२॥
यज्ञमित्यपरे धीराः प्रदानमिति चापरे। सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ॥१४-४८-२३॥
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः। ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः ॥१४-४८-२४॥
एवं व्युत्थापिते धर्मे बहुधा विप्रधावति। निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम ॥१४-४८-२५॥
इदं श्रेय इदं श्रेय इत्येवं प्रस्थितो जनः। यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा ॥१४-४८-२६॥
तत्र नो विहता प्रज्ञा मनश्च बहुलीकृतम्। एतदाख्यातुमिच्छामः श्रेयः किमिति सत्तम ॥१४-४८-२७॥
अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति। सत्त्वक्षेत्रज्ञयोश्चैव सम्बन्धः केन हेतुना ॥१४-४८-२८॥
एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः। तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् ॥१४-४८-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.