14.049
ब्रह्मोवाच॥
हन्त वः सम्प्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः। समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् ॥१४-४९-१॥
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम्। एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् ॥१४-४९-२॥
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चयदर्शिनः। तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः ॥१४-४९-३॥
हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः। लोभमोहसमायुक्तास्ते वै निरयगामिनः ॥१४-४९-४॥
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः। तेऽस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः ॥१४-४९-५॥
कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः। अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः ॥१४-४९-६॥
अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा। संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः ॥१४-४९-७॥
विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते। विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः ॥१४-४९-८॥
व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा। भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम् ॥ यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते ॥१४-४९-९॥
अनित्यं द्वंद्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम्। निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ॥१४-४९-१०॥
समः सञ्ज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते। उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत् ॥१४-४९-११॥
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते। जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः ॥ एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः ॥१४-४९-१२॥
द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः। यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा ॥१४-४९-१३॥
यथा प्रदीपमादाय कश्चित्तमसि गच्छति। तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः ॥१४-४९-१४॥
यावद्द्रव्यगुणस्तावत्प्रदीपः सम्प्रकाशते। क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति ॥१४-४९-१५॥
व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते। एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः ॥१४-४९-१६॥
सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति। चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते ॥१४-४९-१७॥
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः। उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते ॥१४-४९-१८॥
यथाध्वानमपाथेयः प्रपन्नो मानवः क्वचित्। क्लेशेन याति महता विनश्यत्यन्तरापि वा ॥१४-४९-१९॥
तथा कर्मसु विज्ञेयं फलं भवति वा न वा। पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम् ॥१४-४९-२०॥
यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते। अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः ॥१४-४९-२१॥
तमेव च यथाध्वानं रथेनेहाशुगामिना। यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः ॥१४-४९-२२॥
उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम्। रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् ॥१४-४९-२३॥
यावद्रथपथस्तावद्रथेन स तु गच्छति। क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति ॥१४-४९-२४॥
एवं गच्छति मेधावी तत्त्वयोगविधानवित्। समाज्ञाय महाबुद्धिरुत्तरादुत्तरोत्तरम् ॥१४-४९-२५॥
यथा महार्णवं घोरमप्लवः सम्प्रगाहते। बाहुभ्यामेव संमोहाद्वधं चर्च्छत्यसंशयम् ॥१४-४९-२६॥
नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रया। अक्लान्तः सलिलं गाहेत्क्षिप्रं सन्तरति ध्रुवम् ॥१४-४९-२७॥
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः। व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ ॥१४-४९-२८॥
स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा। ममत्वेनाभिभूतः स तत्रैव परिवर्तते ॥१४-४९-२९॥
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम्। तथैव रथमारुह्य नाप्सु चर्या विधीयते ॥१४-४९-३०॥
एवं कर्म कृतं चित्रं विषयस्थं पृथक्पृथक्। यथा कर्म कृतं लोके तथा तदुपपद्यते ॥१४-४९-३१॥
यन्नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत्। मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते ॥१४-४९-३२॥
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान्। महतः प्रधानभूतस्य गुणोऽहङ्कार एव च ॥१४-४९-३३॥
अहङ्कारप्रधानस्य महाभूतकृतो गुणः। पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः ॥१४-४९-३४॥
बीजधर्मं यथाव्यक्तं तथैव प्रसवात्मकम्। बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् ॥१४-४९-३५॥
बीजधर्मा त्वहङ्कारः प्रसवश्च पुनः पुनः। बीजप्रसवधर्माणि महाभूतानि पञ्च वै ॥१४-४९-३६॥
बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते। विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् ॥१४-४९-३७॥
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते। त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः ॥१४-४९-३८॥
पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसङ्कुला। सर्वभूतकरी देवी शुभाशुभनिदर्शना ॥१४-४९-३९॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः। एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः ॥१४-४९-४०॥
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः। तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् ॥१४-४९-४१॥
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा। निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ॥ एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत ॥१४-४९-४२॥
शब्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः। रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः ॥१४-४९-४३॥
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा। एवं षड्विधविस्तारो रसो वारिमयः स्मृतः ॥१४-४९-४४॥
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते। ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् ॥१४-४९-४५॥
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा। ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम् ॥१४-४९-४६॥
एवं द्वादशविस्तारं तेजसो रूपमुच्यते। विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः ॥१४-४९-४७॥
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते। वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥१४-४९-४८॥
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च। कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः ॥१४-४९-४९॥
एवं द्वादशविस्तारो वायव्यो गुण उच्यते। विधिवद्ब्रह्मणैः सिद्धैर्धर्मज्ञैस्तत्त्वदर्शिभिः ॥१४-४९-५०॥
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः। तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून्गुणान् ॥१४-४९-५१॥
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा। अतः परं तु विज्ञेयो निषादो धैवतस्तथा ॥१४-४९-५२॥
इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान्। एवं बहुविधो ज्ञेयः शब्द आकाशसम्भवः ॥१४-४९-५३॥
आकाशमुत्तमं भूतमहङ्कारस्ततः परम्। अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः ॥१४-४९-५४॥
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः। परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते ॥१४-४९-५५॥