Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.050
ब्रह्मोवाच॥
भूतानामथ पञ्चानां यथैषामीश्वरं मनः। नियमे च विसर्गे च भूतात्मा मन एव च ॥१४-५०-१॥
अधिष्ठाता मनो नित्यं भूतानां महतां तथा। बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते ॥१४-५०-२॥
इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः। इन्द्रियाणि मनो बुद्धिं क्षेत्रज्ञो युञ्जते सदा ॥१४-५०-३॥
महाभूतसमायुक्तं बुद्धिसंयमनं रथम्। तमारुह्य स भूतात्मा समन्तात्परिधावति ॥१४-५०-४॥
इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च। बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः ॥१४-५०-५॥
एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम्। स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥१४-५०-६॥
अव्यक्तादि विशेषान्तं त्रसस्थावरसङ्कुलम्। चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम् ॥१४-५०-७॥
नदीपर्वतजालैश्च सर्वतः परिभूषितम्। विविधाभिस्तथाद्भिश्च सततं समलङ्कृतम् ॥१४-५०-८॥
आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः। एतद्ब्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित् ॥१४-५०-९॥
लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च। तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः ॥ गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः ॥१४-५०-१०॥
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः। सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ॥१४-५०-११॥
एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः। तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु ॥ प्रलीयन्ते यथाकालमूर्मयः सागरे यथा ॥१४-५०-१२॥
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति। भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्प्रजापतिम् ॥१४-५०-१३॥
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः। तथैव वेदानृषयस्तपसा प्रतिपेदिरे ॥१४-५०-१४॥
तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा। त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ॥१४-५०-१५॥
ओषधान्यगदादीनी नानाविद्याश्च सर्वशः। तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम् ॥१४-५०-१६॥
यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम्। तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥१४-५०-१७॥
सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः। तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ॥१४-५०-१८॥
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः। यानि चान्यानि भूतानि त्रसानि स्थावराणि च ॥१४-५०-१९॥
तपःपरायणा नित्यं सिध्यन्ते तपसा सदा। तथैव तपसा देवा महाभागा दिवं गताः ॥१४-५०-२०॥
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः। अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः ॥१४-५०-२१॥
ध्यानयोगेन शुद्धेन निर्ममा निरहङ्कृताः। प्राप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् ॥१४-५०-२२॥
ध्यानयोगादुपागम्य प्रसन्नमतयः सदा। सुखोपचयमव्यक्तं प्रविशन्त्यात्मवत्तया ॥१४-५०-२३॥
ध्यानयोगादुपागम्य निर्ममा निरहङ्कृताः। अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम् ॥१४-५०-२४॥
अव्यक्तादेव सम्भूतः समयज्ञो गतः पुनः। तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम् ॥१४-५०-२५॥
विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः। क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ॥१४-५०-२६॥
चित्तं चित्तादुपागम्य मुनिरासीत संयतः। यच्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम् ॥१४-५०-२७॥
अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम्। निबोधत यथा हीदं गुणैर्लक्षणमित्युत ॥१४-५०-२८॥
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्। ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ॥१४-५०-२९॥
कर्म केचित्प्रशंसन्ति मन्दबुद्धितरा नराः। ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते ॥१४-५०-३०॥
कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः। पुरुषं सृजतेऽविद्या अग्राह्यममृताशिनम् ॥१४-५०-३१॥
तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः। विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः ॥१४-५०-३२॥
अपूर्वममृतं नित्यं य एनमविचारिणम्। य एनं विन्दतेऽऽत्मानमग्राह्यममृताशिनम् ॥ अग्राह्योऽमृतो भवति य एभिः कारणैर्ध्रुवः ॥१४-५०-३३॥
अपोह्य सर्वसङ्कल्पान्संयम्यात्मानमात्मनि। स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते ॥१४-५०-३४॥
प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात्। लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ॥१४-५०-३५॥
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः। प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः ॥१४-५०-३६॥
एषा गतिरसक्तानामेष धर्मः सनातनः। एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् ॥१४-५०-३७॥
समेन सर्वभूतेषु निःस्पृहेण निराशिषा। शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना ॥१४-५०-३८॥
एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः। एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ ॥१४-५०-३९॥
गुरुरुवाच॥
इत्युक्तास्ते तु मुनयो ब्रह्मणा गुरुणा तथा। कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन् ॥१४-५०-४०॥
त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः। सम्यगाचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि ॥१४-५०-४१॥
वासुदेव उवाच॥
इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम्। चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् ॥१४-५०-४२॥
कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह। तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ॥१४-५०-४३॥
अर्जुन उवाच॥
को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन। श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो ॥१४-५०-४४॥
वासुदेव उवाच॥
अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे। त्वत्प्रीत्या गुह्यमेतच्च कथितं मे धनञ्जय ॥१४-५०-४५॥
मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह। अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ॥१४-५०-४६॥
ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्कुरुनन्दन। सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् ॥१४-५०-४७॥
पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते। मया तव महाबाहो तस्मादत्र मनः कुरु ॥१४-५०-४८॥
मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो। तमहं द्रष्टुमिच्छामि संमते तव फल्गुन ॥१४-५०-४९॥
वैशम्पायन उवाच॥
इत्युक्तवचनं कृष्णं प्रत्युवाच धनञ्जयः। गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै ॥१४-५०-५०॥
समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम्। समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुमर्हसि ॥१४-५०-५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.