Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.051
कृष्णद्वारकाप्रस्थानाम्
वैशम्पायन उवाच॥
ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम्। मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ॥१४-५१-१॥
तथैव चानुयात्राणि चोदयामास पाण्डवः। सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम् ॥१४-५१-२॥
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते। आचख्युः सज्जमित्येव पार्थायामिततेजसे ॥१४-५१-३॥
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ। विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते ॥१४-५१-४॥
रथस्थं तु महातेजा वासुदेवं धनञ्जयः। पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम ॥१४-५१-५॥
त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह। निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ॥१४-५१-६॥
नाथवन्तश्च भवता पाण्डवा मधुसूदन। भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् ॥१४-५१-७॥
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव। यथाहं त्वा विजानामि यथा चाहं भवन्मनाः ॥१४-५१-८॥
त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन। रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो ॥१४-५१-९॥
त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम्। त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम् ॥१४-५१-१०॥
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम्। हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः ॥१४-५१-११॥
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः। प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते ॥१४-५१-१२॥
रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम्। त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ ॥१४-५१-१३॥
सुदीर्घेणापि कालेन न ते शक्या गुणा मया। आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ॥१४-५१-१४॥
विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा। कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात् ॥१४-५१-१५॥
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः। यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ ॥१४-५१-१६॥
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन। इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया ॥१४-५१-१७॥
यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः। त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे ॥१४-५१-१८॥
भवता तत्कृतं कर्म येनावाप्तो जयो मया। दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः ॥१४-५१-१९॥
कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः। सैन्धवस्य च पापस्य भूरिश्रवस एव च ॥१४-५१-२०॥
अहं च प्रीयमाणेन त्वया देवकिनन्दन। यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ॥१४-५१-२१॥
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम्। चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ ॥१४-५१-२२॥
रुचितं हि ममैतत्ते द्वारकागमनं प्रभो। अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन ॥ बलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुङ्गवान् ॥१४-५१-२३॥
एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम्। तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम् ॥१४-५१-२४॥
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम्। ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ॥१४-५१-२५॥
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम्। भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ ॥ धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् ॥१४-५१-२६॥
गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम्। सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा ॥ ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै ॥१४-५१-२७॥
ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ। निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् ॥१४-५१-२८॥
गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च। भीमस्य च महात्मानौ तथा पादावगृह्णताम् ॥१४-५१-२९॥
क्षत्तारं चापि सम्पूज्य पृष्ट्वा कुशलमव्ययम्। तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम् ॥१४-५१-३०॥
ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान्। जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ॥१४-५१-३१॥
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम्। धनञ्जयगृहानेव ययौ कृष्णस्तु वीर्यवान् ॥१४-५१-३२॥
तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः। कृष्णः सुष्वाप मेधावी धनञ्जयसहायवान् ॥१४-५१-३३॥
प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ। धर्मराजस्य भवनं जग्मतुः परमार्चितौ ॥ यत्रास्ते स सहामात्यो धर्मराजो महामनाः ॥१४-५१-३४॥
ततस्तौ तत्प्रविश्याथ ददृशाते महाबलौ। धर्मराजानमासीनं देवराजमिवाश्विनौ ॥१४-५१-३५॥
तौ समासाद्य राजानं वार्ष्णेयकुरुपुङ्गवौ। निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै ॥१४-५१-३६॥
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ। प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ॥१४-५१-३७॥
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ। ब्रूत कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम् ॥१४-५१-३८॥
इत्युक्ते फल्गुनस्तत्र धर्मराजानमब्रवीत्। विनीतवदुपागम्य वाक्यं वाक्यविशारदः ॥१४-५१-३९॥
अयं चिरोषितो राजन्वासुदेवः प्रतापवान्। भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ॥१४-५१-४०॥
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे। आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ॥१४-५१-४१॥
युधिष्ठिर उवाच॥
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन। पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम् ॥१४-५१-४२॥
रोचते मे महाबाहो गमनं तव केशव। मातुलश्चिरदृष्टो मे त्वया देवी च देवकी ॥१४-५१-४३॥
मातुलं वसुदेवं त्वं बलदेवं च माधव। पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः ॥१४-५१-४४॥
स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम्। फल्गुनं नकुलं चैव सहदेवं च माधव ॥१४-५१-४५॥
आनर्तानवलोक्य त्वं पितरं च महाभुज। वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ ॥१४-५१-४६॥
स गच्छ रत्नान्यादाय विविधानि वसूनि च। यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ॥१४-५१-४७॥
इयं हि वसुधा सर्वा प्रसादात्तव माधव। अस्मानुपगता वीर निहताश्चापि शत्रवः ॥१४-५१-४८॥
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे। वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥१४-५१-४९॥
तवैव रत्नानि धनं च केवल; म्धरा च कृत्स्ना तु महाभुजाद्य वै। यदस्ति चान्यद्द्रविणं गृहेषु मे; त्वमेव तस्येश्वर नित्यमीश्वरः ॥१४-५१-५०॥
तथेत्यथोक्तः प्रतिपूजितस्तदा; गदाग्रजो धर्मसुतेन वीर्यवान्। पितृष्वसामभ्यवदद्यथाविधि; सम्पूजितश्चाप्यगमत्प्रदक्षिणम् ॥१४-५१-५१॥
तया स सम्यक्प्रतिनन्दितस्तदा; तथैव सर्वैर्विदुरादिभिस्ततः। विनिर्ययौ नागपुराद्गदाग्रजो; रथेन दिव्येन चतुर्युजा हरिः ॥१४-५१-५२॥
रथं सुभद्रामधिरोप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः। पितृष्वसायाश्च तथा महाभुजो; विनिर्ययौ पौरजनाभिसंवृतः ॥१४-५१-५३॥
तमन्वगाद्वानरवर्यकेतनः; ससात्यकिर्माद्रवतीसुतावपि। अगाधबुद्धिर्विदुरश्च माधवं; स्वयं च भीमो गजराजविक्रमः ॥१४-५१-५४॥
निवर्तयित्वा कुरुराष्ट्रवर्धनां; स्ततः स सर्वान्विदुरं च वीर्यवान्। जनार्दनो दारुकमाह सत्वरः; प्रचोदयाश्वानिति सात्यकिस्तदा ॥१४-५१-५५॥
ततो ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतो जनार्दनः। यथा निहत्यारिगणाञ्शतक्रतु; र्दिवं तथानर्तपुरीं प्रतापवान् ॥१४-५१-५६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.