14.096
जनमेजय उवाच॥
कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै। प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ॥१४-९६-१॥
वैशम्पायन उवाच॥
एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम्। श्रूयतां नकुलो योऽसौ यथा वागस्य मानुषी ॥१४-९६-२॥
श्राद्धं सङ्कल्पयामास जमदग्निः पुरा किल। होमधेनुस्तमागाच्च स्वयं चापि दुदोह ताम् ॥१४-९६-३॥
तत्क्षीरं स्थापयामास नवे भाण्डे दृढे शुचौ। तच्च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत् ॥१४-९६-४॥
जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते। इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः ॥१४-९६-५॥
तमाज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः। स तु क्रोधस्तमाहेदं प्राञ्जलिर्मूर्तिमान्स्थितः ॥१४-९६-६॥
जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः। लोके मिथ्याप्रवादोऽयं यत्त्वयास्मि पराजितः ॥१४-९६-७॥
सोऽहं त्वयि स्थितो ह्यद्य क्षमावति महात्मनि। बिभेमि तपसः साधो प्रसादं कुरु मे विभो ॥१४-९६-८॥
जनमेजय उवाच॥
साक्षाद्दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः। न ममापकृतं तेऽद्य न मन्युर्विद्यते मम ॥१४-९६-९॥
यानुद्दिश्य तु सङ्कल्पः पयसोऽस्य कृतो मया। पितरस्ते महाभागास्तेभ्यो बुध्यस्व गम्यताम् ॥१४-९६-१०॥
इत्युक्तो जातसन्त्रासः स तत्रान्तरधीयत। पितॄणामभिषङ्गात्तु नकुलत्वमुपागतः ॥१४-९६-११॥
स तान्प्रसादयामास शापस्यान्तो भवेदिति। तैश्चाप्युक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा ॥१४-९६-१२॥
तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यानि चैव ह। जुगुप्सन्परिधावन्स यज्ञं तं समुपासदत् ॥१४-९६-१३॥
धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः। मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ॥१४-९६-१४॥
एवमेतत्तदा वृत्तं तस्य यज्ञे महात्मनः। पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा ॥१४-९६-१५॥