14.095
जनमेजय उवाच॥
धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत्। एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ॥१४-९५-१॥
ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत्। कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् ॥१४-९५-२॥
कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत्। एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ॥१४-९५-३॥
वैशम्पायन उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ॥१४-९५-४॥
पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम्। प्रविवेश महाराज सर्वभूतहिते रतः ॥१४-९५-५॥
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः। मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः ॥१४-९५-६॥
परिघृष्टिका वैघसिकाः सम्प्रक्षालास्तथैव च। यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ॥१४-९५-७॥
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः। दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः ॥१४-९५-८॥
वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः। उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः ॥१४-९५-९॥
यथाशक्त्या भगवता तदन्नं समुपार्जितम्। तस्मिन्सत्रे तु यत्किञ्चिदयोग्यं तत्र नाभवत् ॥ तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः ॥१४-९५-१०॥
एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे। न ववर्ष सहस्राक्षस्तदा भरतसत्तम ॥१४-९५-११॥
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः। कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ॥१४-९५-१२॥
अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः। न च वर्षति पर्जन्यः कथमन्नं भविष्यति ॥१४-९५-१३॥
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम्। न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ॥१४-९५-१४॥
एतद्भवन्तः सञ्चिन्त्य महर्षेरस्य धीमतः। अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ॥१४-९५-१५॥
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान्। प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् ॥१४-९५-१६॥
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः। चिन्तायज्ञं करिष्यामि विधिरेष सनातनः ॥१४-९५-१७॥
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः। व्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान् ॥१४-९५-१८॥
बीजयज्ञो मयायं वै बहुवर्षसमाचितः। बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति ॥१४-९५-१९॥
नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन। वर्षिष्यतीह वा देवो न वा देवो भविष्यति ॥१४-९५-२०॥
अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः। स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ॥१४-९५-२१॥
यो यदाहारजातश्च स तथैव भविष्यति। विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ॥१४-९५-२२॥
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम्। त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम् ॥१४-९५-२३॥
दिव्याश्चाप्सरसां सङ्घाः सगन्धर्वाः सकिंनराः। विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा ॥१४-९५-२४॥
उत्तरेभ्यः कुरुभ्यश्च यत्किञ्चिद्वसु विद्यते। सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु ॥ स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु ॥१४-९५-२५॥
इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः। ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम् ॥ विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ॥१४-९५-२६॥
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम्। स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम् ॥१४-९५-२७॥
यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे। तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे ॥१४-९५-२८॥
न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम्। वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ॥१४-९५-२९॥
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम्। धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ॥१४-९५-३०॥
भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता। एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो ॥१४-९५-३१॥
प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम। विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ॥१४-९५-३२॥
वैशम्पायन उवाच॥
तथा कथयतामेव देवराजः पुरंदरः। ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ॥१४-९५-३३॥
असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः। निकामवर्षी देवेन्द्रो बभूव जनमेजय ॥१४-९५-३४॥
प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः। स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ॥१४-९५-३५॥
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन्। अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ॥१४-९५-३६॥