Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.001
आश्रमवासपर्व
धृतराष्ट्रशुश्रूषा
जनमेजय उवाच॥
प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः। कथमासन्महाराजे धृतराष्ट्रे महात्मनि ॥१५-१-१॥
स हि राजा हतामात्यो हतपुत्रो निराश्रयः। कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी ॥१५-१-२॥
कियन्तं चैव कालं ते पितरो मम पूर्वकाः। स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ॥१५-१-३॥
वैशम्पायन उवाच॥
प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः। धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् ॥१५-१-४॥
धृतराष्ट्रमुपातिष्ठद्विदुरः सञ्जयस्तथा। युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः ॥१५-१-५॥
पाण्डवाः सर्वकार्याणि सम्पृच्छन्ति स्म तं नृपम्। चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ॥१५-१-६॥
सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम्। पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः ॥ ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे ॥१५-१-७॥
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत। द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः ॥ समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि ॥१५-१-८॥
शयनानि महार्हाणि वासांस्याभरणानि च। राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः ॥ युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् ॥१५-१-९॥
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत। विदुरः सञ्जयश्चैव युयुत्सुश्चैव कौरवः ॥ उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ॥१५-१-१०॥
स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान्। स च तस्मिन्महेष्वासः कृपः समभवत्तदा ॥१५-१-११॥
व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह। कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम् ॥१५-१-१२॥
धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च। धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् ॥१५-१-१३॥
सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरूण्यपि। प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै ॥१५-१-१४॥
अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा। न च धर्मात्मजो राजा कदाचित्किञ्चिदब्रवीत् ॥१५-१-१५॥
विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः। सर्वान्कामान्महातेजाः प्रददावम्बिकासुते ॥१५-१-१६॥
आरालिकाः सूपकारा रागखाण्डविकास्तथा। उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा ॥१५-१-१७॥
वासांसि च महार्हाणि माल्यानि विविधानि च। उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः ॥१५-१-१८॥
मैरेयं मधु मांसानि पानकानि लघूनि च। चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा ॥१५-१-१९॥
ये चापि पृथिवीपालाः समाजग्मुः समन्ततः। उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा ॥१५-१-२०॥
कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी। उलूपी नागकन्या च देवी चित्राङ्गदा तथा ॥१५-१-२१॥
धृष्टकेतोश्च भगिनी जरासन्धस्य चात्मजा। किङ्कराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा ॥१५-१-२२॥
यथा पुत्रवियुक्तोऽयं न किञ्चिद्दुःखमाप्नुयात्। इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः ॥१५-१-२३॥
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत्। सविशेषमवर्तन्त भीममेकं विना तदा ॥१५-१-२४॥
न हि तत्तस्य वीरस्य हृदयादपसर्पति। धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम् ॥१५-१-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.