Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.002
वैशम्पायन उवाच॥
एवं सम्पूजितो राजा पाण्डवैरम्बिकासुतः। विजहार यथापूर्वमृषिभिः पर्युपासितः ॥१५-२-१॥
ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः। तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत ॥१५-२-२॥
आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः। उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः ॥१५-२-३॥
मया चैव भवद्भिश्च मान्य एष नराधिपः। निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत् ॥ विपरीतश्च मे शत्रुर्निरस्यश्च भवेन्नरः ॥१५-२-४॥
परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि। ददातु राजा सर्वेषां यावदस्य चिकीर्षितम् ॥१५-२-५॥
ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः। ब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्यनेकशः ॥१५-२-६॥
धर्मराजश्च भीमश्च सव्यसाची यमावपि। तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया ॥१५-२-७॥
कथं नु राजा वृद्धः सन्पुत्रशोकसमाहतः। शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते ॥१५-२-८॥
यावद्धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम्। बभूव तदवाप्नोतु भोगांश्चेति व्यवस्थिताः ॥१५-२-९॥
ततस्ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः। तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने ॥१५-२-१०॥
धृतराष्ट्रश्च तान्वीरान्विनीतान्विनये स्थितान्। शिष्यवृत्तौ स्थितान्नित्यं गुरुवत्पर्यपश्यत ॥१५-२-११॥
गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः। आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य वै ॥१५-२-१२॥
एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः। भ्रातृभिः सहितो धीमान्पूजयामास तं नृपम् ॥१५-२-१३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.