Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.021
धृतराष्ट्रस्य वनगमनम्
वैशम्पायन उवाच॥
ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः। आहूय पाण्डवान्वीरान्वनवासकृतक्षणः ॥१५-२१-१॥
गान्धारीसहितो धीमानभिनन्द्य यथाविधि। कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः ॥१५-२१-२॥
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः। वधूपरिवृतो राजा निर्ययौ भवनात्ततः ॥१५-२१-३॥
ततः स्त्रियः कौरवपाण्डवानां; याश्चाप्यन्याः कौरवराजवंश्याः। तासां नादः प्रादुरासीत्तदानीं; वैचित्रवीर्ये नृपतौ प्रयाते ॥१५-२१-४॥
ततो लाजैः सुमनोभिश्च राजा; विचित्राभिस्तद्गृहं पूजयित्वा। संयोज्यार्थैर्भृत्यजनं च सर्वं; ततः समुत्सृज्य ययौ नरेन्द्रः ॥१५-२१-५॥
ततो राजा प्राञ्जलिर्वेपमानो; युधिष्ठिरः सस्वनं बाष्पकण्ठः। विलप्योच्चैर्हा महाराज साधो; क्व गन्तासीत्यपतत्तात भूमौ ॥१५-२१-६॥
तथार्जुनस्तीव्रदुःखाभितप्तो; मुहुर्मुहुर्निःश्वसन्भारताग्र्यः। युधिष्ठिरं मैवमित्येवमुक्त्वा; निगृह्याथोदीधरत्सीदमानः ॥१५-२१-७॥
वृकोदरः फल्गुनश्चैव वीरौ; माद्रीपुत्रौ विदुरः सञ्जयश्च। वैश्यापुत्रः सहितो गौतमेन; धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः ॥१५-२१-८॥
कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं; स्कन्धासक्तं हस्तमथोद्वहन्ती। राजा गान्धार्याः स्कन्धदेशेऽवसज्य; पाणिं ययौ धृतराष्ट्रः प्रतीतः ॥१५-२१-९॥
तथा कृष्णा द्रौपदी यादवी च; बालापत्या चोत्तरा कौरवी च। चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः; सार्धं राज्ञा प्रस्थितास्ता वधूभिः ॥१५-२१-१०॥
तासां नादो रुदतीनां तदासी; द्राजन्दुःखात्कुररीणामिवोच्चैः। ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां; विट्शूद्राणां चैव नार्यः समन्तात् ॥१५-२१-११॥
तन्निर्याणे दुःखितः पौरवर्गो; गजाह्वयेऽतीव बभूव राजन्। यथा पूर्वं गच्छतां पाण्डवानां; द्यूते राजन्कौरवाणां सभायाम् ॥१५-२१-१२॥
या नापश्यच्चन्द्रमा नैव सूर्यो; रामाः कदाचिदपि तस्मिन्नरेन्द्रे। महावनं गच्छति कौरवेन्द्रे; शोकेनार्ता राजमार्गं प्रपेदुः ॥१५-२१-१३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.