Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.020
श्राद्धयज्ञः
वैशम्पायन उवाच॥
विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः। प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च कर्मणा ॥१५-२०-१॥
ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान्। पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः ॥१५-२०-२॥
कारयित्वान्नपानानि यानान्याच्छादनानि च। सुवर्णमणिरत्नानि दासीदासपरिच्छदान् ॥१५-२०-३॥
कम्बलाजिनरत्नानि ग्रामान्क्षेत्रानजाविकम्। अलङ्कारान्गजानश्वान्कन्याश्चैव वरस्त्रियः ॥ आदिश्यादिश्य विप्रेभ्यो ददौ स नृपसत्तमः ॥१५-२०-४॥
द्रोणं सङ्कीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम्। दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक् ॥ जयद्रथपुरोगांश्च सुहृदश्चैव सर्वशः ॥१५-२०-५॥
स श्राद्धयज्ञो ववृधे बहुगोधनदक्षिणः। अनेकधनरत्नौघो युधिष्ठिरमते तदा ॥१५-२०-६॥
अनिशं यत्र पुरुषा गणका लेखकास्तथा। युधिष्ठिरस्य वचनात्तदापृच्छन्ति तं नृपम् ॥१५-२०-७॥
आज्ञापय किमेतेभ्यः प्रदेयं दीयतामिति। तदुपस्थितमेवात्र वचनान्ते प्रदृश्यते ॥१५-२०-८॥
शते देये दशशतं सहस्रे चायुतं तथा। दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः ॥१५-२०-९॥
एवं स वसुधाराभिर्वर्षमाणो नृपाम्बुदः। तर्पयामास विप्रांस्तान्वर्षन्भूमिमिवाम्बुदः ॥१५-२०-१०॥
ततोऽनन्तरमेवात्र सर्ववर्णान्महीपतिः। अन्नपानरसौघेन प्लावयामास पार्थिवः ॥१५-२०-११॥
सवस्त्रफेनरत्नौघो मृदङ्गनिनदस्वनः। गवाश्वमकरावर्तो नारीरत्नमहाकरः ॥१५-२०-१२॥
ग्रामाग्रहारकुल्याढ्यो मणिहेमजलार्णवः। जगत्सम्प्लावयामास धृतराष्ट्रदयाम्बुधिः ॥१५-२०-१३॥
एवं स पुत्रपौत्राणां पितॄणामात्मनस्तथा। गान्धार्याश्च महाराज प्रददावौर्ध्वदेहिकम् ॥१५-२०-१४॥
परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः। ततो निर्वर्तयामास दानयज्ञं कुरूद्वहः ॥१५-२०-१५॥
एवं स राजा कौरव्यश्चक्रे दानमहोत्सवम्। नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् ॥१५-२०-१६॥
दशाहमेवं दानानि दत्त्वा राजाम्बिकासुतः। बभूव पुत्रपौत्राणामनृणो भरतर्षभ ॥१५-२०-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.