Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.027
शतयूपप्रश्नः
वैशम्पायन उवाच॥
नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः। शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् ॥१५-२७-१॥
अहो भगवता श्रद्धा कुरुराजस्य वर्धिता। सर्वस्य च जनस्यास्य मम चैव महाद्युते ॥१५-२७-२॥
अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु। धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित ॥१५-२७-३॥
सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा। युक्तः पश्यसि देवर्षे गतीर्वै विविधा नृणाम् ॥१५-२७-४॥
उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम्। न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने ॥१५-२७-५॥
स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो। त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः ॥१५-२७-६॥
इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम्। व्याजहार सतां मध्ये दिव्यदर्शी महातपाः ॥१५-२७-७॥
यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम्। दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् ॥१५-२७-८॥
तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप। तपसो दुश्चरस्यास्य यदयं तप्यते नृपः ॥१५-२७-९॥
तत्राहमिदमश्रौषं शक्रस्य वदतो नृप। वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः ॥१५-२७-१०॥
ततः कुबेरभवनं गान्धारीसहितो नृपः। विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः ॥१५-२७-११॥
कामगेन विमानेन दिव्याभरणभूषितः। ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः ॥१५-२७-१२॥
सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम्। स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि ॥१५-२७-१३॥
देवगुह्यमिदं प्रीत्या मया वः कथितं महत्। भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः ॥१५-२७-१४॥
इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः। सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः ॥१५-२७-१५॥
एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः। विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः ॥१५-२७-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.