Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.026
वैशम्पायन उवाच॥
ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः। नारदः पर्वतश्चैव देवलश्च महातपाः ॥१५-२६-१॥
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः। शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः ॥१५-२६-२॥
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि। ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया ॥१५-२६-३॥
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः। रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् ॥१५-२६-४॥
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा। कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् ॥१५-२६-५॥
पुरा प्रजापतिसमो राजासीदकुतोभयः। सहस्रचित्य इत्युक्तः शतयूपपितामहः ॥१५-२६-६॥
स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके। सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः ॥१५-२६-७॥
स गत्वा तपसः पारं दीप्तस्य स नराधिपः। पुरंदरस्य संस्थानं प्रतिपेदे महामनाः ॥१५-२६-८॥
दृष्टपूर्वः स बहुशो राजन्सम्पतता मया। महेन्द्रसदने राजा तपसा दग्धकिल्बिषः ॥१५-२६-९॥
तथा शैलालयो राजा भगदत्तपितामहः। तपोबलेनैव नृपो महेन्द्रसदनं गतः ॥१५-२६-१०॥
तथा पृषध्रो नामासीद्राजा वज्रधरोपमः। स चापि तपसा लेभे नाकपृष्ठमितो नृपः ॥१५-२६-११॥
अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः। पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् ॥१५-२६-१२॥
भार्या समभवद्यस्य नर्मदा सरितां वरा। सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः ॥१५-२६-१३॥
शशलोमा च नामासीद्राजा परमधार्मिकः। स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान् ॥१५-२६-१४॥
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम्। राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि ॥१५-२६-१५॥
त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः। गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् ॥१५-२६-१६॥
पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः। त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति ॥१५-२६-१७॥
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी। भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव ॥१५-२६-१८॥
युधिष्ठिरस्य जननी स हि धर्मः सनातनः। वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा ॥१५-२६-१९॥
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम्। सञ्जयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति ॥१५-२६-२०॥
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा; सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात्। विद्वान्वाक्यं नारदस्य प्रशस्य; चक्रे पूजां चातुलां नारदाय ॥१५-२६-२१॥
तथा सर्वे नारदं विप्रसङ्घाः; सम्पूजयामासुरतीव राजन्। राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै; पुनः पुनः समहृष्टास्तदानीम् ॥१५-२६-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.