Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.028
पाण्डवशोकः
वैशम्पायन उवाच॥
वनं गते कौरवेन्द्रे दुःखशोकसमाहताः। बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः ॥१५-२८-१॥
तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम्। कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति ॥१५-२८-२॥
कथं नु राजा वृद्धः स वने वसति निर्जने। गान्धारी च महाभागा सा च कुन्ती पृथा कथम् ॥१५-२८-३॥
सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम्। किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः ॥१५-२८-४॥
सुदुष्करं कृतवती कुन्ती पुत्रानपश्यती। राज्यश्रियं परित्यज्य वनवासमरोचयत् ॥१५-२८-५॥
विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान्। स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः ॥१५-२८-६॥
आकुमारं च पौरास्ते चिन्ताशोकसमाहताः। तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम् ॥१५-२८-७॥
पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः। शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे ॥१५-२८-८॥
तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम्। गान्धारीं च महाभागां विदुरं च महामतिम् ॥१५-२८-९॥
नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा। न राज्ये न च नारीषु न वेदाध्ययने तथा ॥१५-२८-१०॥
परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम्। तच्च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः ॥१५-२८-११॥
अभिमन्योश्च बालस्य विनाशं रणमूर्धनि। कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः ॥१५-२८-१२॥
तथैव द्रौपदेयानामन्येषां सुहृदामपि। वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् ॥१५-२८-१३॥
हतप्रवीरां पृथिवीं हतरत्नां च भारत। सदैव चिन्तयन्तस्ते न निद्रामुपलेभिरे ॥१५-२८-१४॥
द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी। नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत् ॥१५-२८-१५॥
वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम्। धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः ॥१५-२८-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.