Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.042
वैशंपायनवाक्यम्
सूत उवाच॥
एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः। पितामहानां सर्वेषां गमनागमनं तदा ॥१५-४२-१॥
अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति। कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम् ॥१५-४२-२॥
इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान्। प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम् ॥१५-४२-३॥
अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः। कर्मजानि शरीराणि तथैवाकृतयो नृप ॥१५-४२-४॥
महाभूतानि नित्यानि भूताधिपतिसंश्रयात्। तेषां च नित्यसंवासो न विनाशो वियुज्यताम् ॥१५-४२-५॥
अनाशाय कृतं कर्म तस्य चेष्टः फलागमः। आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते ॥१५-४२-६॥
अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः। भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम् ॥१५-४२-७॥
यावन्न क्षीयते कर्म तावदस्य स्वरूपता। सङ्क्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति ॥१५-४२-८॥
नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः। भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् ॥१५-४२-९॥
अश्वमेधे श्रुतिश्चेयमश्वसञ्ज्ञपनं प्रति। लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः ॥१५-४२-१०॥
अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव। देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे ॥१५-४२-११॥
सुकृतो यत्र ते यज्ञस्तत्र देवा हितास्तव। यदा समन्विता देवाः पशूनां गमनेश्वराः ॥ गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते ॥१५-४२-१२॥
नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि यो नरः। अस्य नानासमायोगं यः पश्यति वृथामतिः ॥ वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः ॥१५-४२-१३॥
वियोगे दोषदर्शी यः संयोगमिह वर्जयेत्। असङ्गे सङ्गमो नास्ति दुःखं भुवि वियोगजम् ॥१५-४२-१४॥
परापरज्ञस्तु नरो नाभिमानादुदीरितः। अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते ॥१५-४२-१५॥
अदर्शनादापतितः पुनश्चादर्शनं गतः। नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता ॥१५-४२-१६॥
येन येन शरीरेण करोत्ययमनीश्वरः। तेन तेन शरीरेण तदवश्यमुपाश्नुते ॥ मानसं मनसाप्नोति शारीरं च शरीरवान् ॥१५-४२-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.