15.041
वैशम्पायन उवाच॥
ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम्। विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः ॥१५-४१-१॥
विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम्। सम्प्रीतमनसः सर्वे देवलोक इवामराः ॥१५-४१-२॥
पुत्रः पित्रा च मात्रा च भार्या च पतिना सह। भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः ॥१५-४१-३॥
पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च। सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः ॥१५-४१-४॥
ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः। समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन् ॥१५-४१-५॥
ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः। असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः ॥१५-४१-६॥
एवं समागताः सर्वे गुरुभिर्बान्धवैस्तथा। पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः ॥१५-४१-७॥
तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः। मेनिरे परितोषेण नृपाः स्वर्गसदो यथा ॥१५-४१-८॥
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत्। परस्परं समागम्य योधानां भरतर्षभ ॥१५-४१-९॥
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः। मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ॥१५-४१-१०॥
एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः। आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम् ॥१५-४१-११॥
ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः। क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ॥१५-४१-१२॥
अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम्। सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे ॥१५-४१-१३॥
देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा। केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् ॥१५-४१-१४॥
तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः। राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ॥१५-४१-१५॥
विचित्रगतयः सर्वे या अवाप्यामरैः सह। आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः ॥१५-४१-१६॥
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः। धर्मशीलो महातेजाः कुरूणां हितकृत्सदा ॥ ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः ॥१५-४१-१७॥
या याः पतिकृताँल्लोकानिच्छन्ति परमस्त्रियः। ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः ॥१५-४१-१८॥
ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः। श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् ॥१५-४१-१९॥
विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह। समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते ॥१५-४१-२०॥
एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रियः। प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् ॥१५-४१-२१॥
दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः। दिव्यमाल्याम्बरधरा यथासां पतयस्तथा ॥१५-४१-२२॥
ताः शीलसत्त्वसम्पन्ना वितमस्का गतक्लमाः। सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे ॥१५-४१-२३॥
यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा। तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः ॥१५-४१-२४॥
तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः। जहृषुर्मुदिताश्चासन्नन्यदेहगता अपि ॥१५-४१-२५॥
प्रियैः समागमं तेषां य इमं शृणुयान्नरः। प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह ॥१५-४१-२६॥
इष्टबान्धवसंयोगमनायासमनामयम्। य इमं श्रावयेद्विद्वान्संसिद्धिं प्राप्नुयात्पराम् ॥१५-४१-२७॥
स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश्च भारत। अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः ॥ श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम् ॥१५-४१-२८॥