Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.043
जनमेजयस्य परिक्षिद् दर्शनम्
वैशम्पायन उवाच॥
अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान्। ऋषिप्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह ॥१५-४३-१॥
स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा। अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च ॥१५-४३-२॥
विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात्। धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम् ॥१५-४३-३॥
जनमेजय उवाच॥
ममापि वरदो व्यासो दर्शयेत्पितरं यदि। तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते ॥१५-४३-४॥
प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः। प्रसादादृषिपुत्रस्य मम कामः समृध्यताम् ॥१५-४३-५॥
सूत उवाच॥
इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान्। प्रसादमकरोद्धीमानानयच्च परिक्षितम् ॥१५-४३-६॥
ततस्तद्रूपवयसमागतं नृपतिं दिवः। श्रीमन्तं पितरं राजा ददर्श जनमेजयः ॥१५-४३-७॥
शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम्। अमात्या ये बभूवुश्च राज्ञस्तांश्च ददर्श ह ॥१५-४३-८॥
ततः सोऽवभृथे राजा मुदितो जनमेजयः। पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः ॥१५-४३-९॥
स्नात्वा च भरतश्रेष्ठः सोऽऽस्तीकमिदमब्रवीत्। यायावरकुलोत्पन्नं जरत्कारुसुतं तदा ॥१५-४३-१०॥
आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः। यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः ॥१५-४३-११॥
आस्तीक उवाच॥
ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः। यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ ॥१५-४३-१२॥
श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन। सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः ॥१५-४३-१३॥
कथञ्चित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव। ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः ॥१५-४३-१४॥
प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम्। विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात् ॥१५-४३-१५॥
ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये। यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रियाः ॥१५-४३-१६॥
सूत उवाच॥
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः। पूजयामास तमृषिमनुमान्य पुनः पुनः ॥१५-४३-१७॥
पप्रच्छ तमृषिं चापि वैशम्पायनमच्युतम्। कथावशेषं धर्मज्ञो वनवासस्य सत्तम ॥१५-४३-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.