Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.047
धृतराष्ट्रश्राद्धकरणम्
नारद उवाच॥
नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया। वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत ॥१५-४७-१॥
वनं प्रविशता तेन वायुभक्षेण धीमता। अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् ॥१५-४७-२॥
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने। समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम ॥१५-४७-३॥
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल। तेन तद्वनमादीप्तमिति मे तापसाब्रुवन् ॥१५-४७-४॥
स राजा जाह्नवीकच्छे यथा ते कथितं मया। तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ ॥१५-४७-५॥
एवमावेदयामासुर्मुनयस्ते ममानघ। ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर ॥१५-४७-६॥
एवं स्वेनाग्निना राजा समायुक्तो महीपते। मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् ॥१५-४७-७॥
गुरुशुश्रूषया चैव जननी तव पाण्डव। प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः ॥१५-४७-८॥
कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम्। भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् ॥१५-४७-९॥
वैशम्पायन उवाच॥
ततः स पृथिवीपालः पाण्डवानां धुरन्धरः। निर्ययौ सह सोदर्यैः सदारो भरतर्षभ ॥१५-४७-१०॥
पौरजानपदाश्चैव राजभक्तिपुरस्कृताः। गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः ॥१५-४७-११॥
ततोऽवगाह्य सलिलं सर्वे ते कुरुपुङ्गवाः। युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने ॥१५-४७-१२॥
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः। शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः ॥१५-४७-१३॥
प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः। गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः ॥१५-४७-१४॥
तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात्तदा। कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः ॥१५-४७-१५॥
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः। ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः ॥१५-४७-१६॥
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः। सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः ॥१५-४७-१७॥
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक्। सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम् ॥१५-४७-१८॥
यो यदिच्छति यावच्च तावत्स लभते द्विजः। शयनं भोजनं यानं मणिरत्नमथो धनम् ॥१५-४७-१९॥
यानमाच्छादनं भोगान्दासीश्च परिचारिकाः। ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः ॥१५-४७-२०॥
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः। प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् ॥१५-४७-२१॥
ते चापि राजवचनात्पुरुषा ये गताभवन्। सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः ॥१५-४७-२२॥
माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि। कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः ॥१५-४७-२३॥
समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम्। नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम् ॥१५-४७-२४॥
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः। वनवासे तदा त्रीणि नगरे दश पञ्च च ॥१५-४७-२५॥
हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा। ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च ॥१५-४७-२६॥
युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा। धारयामास तद्राज्यं निहतज्ञातिबान्धवः ॥१५-४७-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.