15.046
युधिष्ठिरशोकः
युधिष्ठिर उवाच॥
तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः। अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु ॥१५-४६-१॥
दुर्विज्ञेया हि गतयः पुरुषाणां मता मम। यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना ॥१५-४६-२॥
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः। नागायुतबलो राजा स दग्धो हि दवाग्निना ॥१५-४६-३॥
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः। तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् ॥१५-४६-४॥
सूतमागधसङ्घैश्च शयानो यः प्रबोध्यते। धरण्यां स नृपः शेते पापस्य मम कर्मभिः ॥१५-४६-५॥
न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम्। पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् ॥१५-४६-६॥
पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत्। उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत् ॥१५-४६-७॥
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम्। क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम् ॥१५-४६-८॥
सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम। यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् ॥१५-४६-९॥
युधिष्ठिरस्य जननी भीमस्य विजयस्य च। अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् ॥१५-४६-१०॥
वृथा सन्तोषितो वह्निः खाण्डवे सव्यसाचिना। उपकारमजानन्स कृतघ्न इति मे मतिः ॥१५-४६-११॥
यत्रादहत्स भगवान्मातरं सव्यसाचिनः। कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः ॥ धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसन्धताम् ॥१५-४६-१२॥
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे। वृथाग्निना समायोगो यदभूत्पृथिवीपतेः ॥१५-४६-१३॥
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह। कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ॥१५-४६-१४॥
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने। वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम ॥१५-४६-१५॥
मन्ये पृथा वेपमाना कृशा धमनिसन्तता। हा तात धर्मराजेति समाक्रन्दन्महाभये ॥१५-४६-१६॥
भीम पर्याप्नुहि भयादिति चैवाभिवाशती। समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना ॥१५-४६-१७॥
सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु। न चैनां मोक्षयामास वीरो माद्रवतीसुतः ॥१५-४६-१८॥
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम्। पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये ॥१५-४६-१९॥
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः। प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी ॥१५-४६-२०॥