16.001
मौसलपर्व
वैशम्पायन उवाच॥
षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः। ददर्श विपरीतानि निमित्तानि युधिष्ठिरः ॥१६-१-१॥
ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः। अपसव्यानि शकुना मण्डलानि प्रचक्रिरे ॥१६-१-२॥
प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः। उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि ॥१६-१-३॥
आदित्यो रजसा राजन्समवच्छन्नमण्डलः। विरश्मिरुदये नित्यं कबन्धैः समदृश्यत ॥१६-१-४॥
परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः। त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः ॥१६-१-५॥
एते चान्ये च बहव उत्पाता भयशंसिनः। दृश्यन्तेऽहरहो राजन्हृदयोद्वेगकारकाः ॥१६-१-६॥
कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरः। शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम् ॥१६-१-७॥
विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः। समानीयाब्रवीद्भ्रातॄन्किं करिष्याम इत्युत ॥१६-१-८॥
परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान्। वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन् ॥१६-१-९॥
निधनं वासुदेवस्य समुद्रस्येव शोषणम्। वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः ॥१६-१-१०॥
मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः। विषण्णा हतसङ्कल्पाः पाण्डवाः समुपाविशन् ॥१६-१-११॥