16.002
मुनिशापात्साम्बस्य मुसलप्रसवः
जनमेजय उवाच॥
कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह। पश्यतो वासुदेवस्य भोजाश्चैव महारथाः ॥१६-२-१॥
वैशम्पायन उवाच॥
षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान्। अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ॥१६-२-२॥
जनमेजय उवाच॥
केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका ययुः। भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ॥१६-२-३॥
वैशम्पायन उवाच॥
विश्वामित्रं च कण्वं च नारदं च तपोधनम्। सारणप्रमुखा वीरा ददृशुर्द्वारकागतान् ॥१६-२-४॥
ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा। अब्रुवन्नुपसङ्गम्य दैवदण्डनिपीडिताः ॥१६-२-५॥
इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः। ऋषयः साधु जानीत किमियं जनयिष्यति ॥१६-२-६॥
इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः। प्रत्यब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप ॥१६-२-७॥
वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम्। वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति ॥१६-२-८॥
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः। उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ॥१६-२-९॥
समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः। जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति ॥१६-२-१०॥
इत्यब्रुवन्त ते राजन्प्रलब्धास्तैर्दुरात्मभिः। मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ॥१६-२-११॥
तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः। अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैवं मधुसूदनः। अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ॥१६-२-१३॥
एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान्। कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ॥१६-२-१४॥
श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै। वृष्ण्यन्धकविनाशाय किङ्करप्रतिमं महत् ॥१६-२-१५॥
प्रसूतं शापजं घोरं तच्च राज्ञे न्यवेदयन्। विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् ॥१६-२-१६॥
प्राक्षिपन्सागरे तच्च पुरुषा राजशासनात्। अघोषयंश्च नगरे वचनादाहुकस्य च ॥१६-२-१७॥
अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्विह। सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः ॥१६-२-१८॥
यश्च नोऽविदितं कुर्यात्पेयं कश्चिन्नरः क्वचित्। जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ॥१६-२-१९॥
ततो राजभयात्सर्वे नियमं चक्रिरे तदा। नराः शासनमाज्ञाय तस्य राज्ञो महात्मनः ॥१६-२-२०॥