Mahabharata - Mausala Parva (महाभारत - मौसलपर्वम्)
16.009
व्यासार्जुनसमागमः
वैशम्पायन उवाच॥
प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः। ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम् ॥१६-९-१॥
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम्। अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः ॥१६-९-२॥
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः। आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः ॥१६-९-३॥
तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः। निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ॥१६-९-४॥
अवीरजोऽभिघातस्ते ब्राह्मणो वा हतस्त्वया। युद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे ॥१६-९-५॥
न त्वा प्रत्यभिजानामि किमिदं भरतर्षभ। श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि ॥१६-९-६॥
अर्जुन उवाच॥
यः स मेधवपुः श्रीमान्बृहत्पङ्कजलोचनः। स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ॥१६-९-७॥
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः। बभूव वीरान्तकरः प्रभासे रोमहर्षणः ॥१६-९-८॥
ये ते शूरा महात्मानः सिंहदर्पा महाबलाः। भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ॥१६-९-९॥
गदापरिघशक्तीनां सहाः परिघबाहवः। त एरकाभिर्निहताः पश्य कालस्य पर्ययम् ॥१६-९-१०॥
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम्। निधनं समनुप्राप्तं समासाद्येतरेतरम् ॥१६-९-११॥
पुनः पुनर्न मृश्यामि विनाशममितौजसाम्। चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ॥१६-९-१२॥
शोषणं सागरस्येव पर्वतस्येव चालनम्। नभसः पतनं चैव शैत्यमग्नेस्तथैव च ॥१६-९-१३॥
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः। न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ॥१६-९-१४॥
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन। मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ॥१६-९-१५॥
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः। आभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः ॥१६-९-१६॥
धनुरादाय तत्राहं नाशकं तस्य पूरणे। यथा पुरा च मे वीर्यं भुजयोर्न तथाभवत् ॥१६-९-१७॥
अस्त्राणि मे प्रनष्टानि विविधानि महामुने। शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ॥१६-९-१८॥
पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः। चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः ॥१६-९-१९॥
यः स याति पुरस्तान्मे रथस्य सुमहाद्युतिः। प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ॥१६-९-२०॥
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा। शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशयम् ॥१६-९-२१॥
तमपश्यन्विषीदामि घूर्णामीव च सत्तम। परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ॥१६-९-२२॥
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे। श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः ॥१६-९-२३॥
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः। उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ॥१६-९-२४॥
व्यास उवाच॥
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः। विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ॥१६-९-२५॥
भवितव्यं तथा तद्धि दिष्टमेतन्महात्मनाम्। उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥१६-९-२६॥
त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम्। प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम् ॥१६-९-२७॥
रथस्य पुरतो याति यः स चक्रगदाधरः। तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ॥१६-९-२८॥
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः। मोक्षयित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम् ॥१६-९-२९॥
त्वया त्विह महत्कर्म देवानां पुरुषर्षभ। कृतं भीमसहायेन यमाभ्यां च महाभुज ॥१६-९-३०॥
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव। गमनं प्राप्तकालं च तद्धि श्रेयो मतं मम ॥१६-९-३१॥
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत। भवन्ति भवकालेषु विपद्यन्ते विपर्यये ॥१६-९-३२॥
कालमूलमिदं सर्वं जगद्बीजं धनञ्जय। काल एव समादत्ते पुनरेव यदृच्छया ॥१६-९-३३॥
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः। स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ॥१६-९-३४॥
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम्। पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ॥१६-९-३५॥
कालो गन्तुं गतिं मुख्यां भवतामपि भारत। एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ॥१६-९-३६॥
एतद्वचनमाज्ञाय व्यासस्यामिततेजसः। अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ॥१६-९-३७॥
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम्। आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं प्रति ॥१६-९-३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.