Mahabharata - Mausala Parva (महाभारत - मौसलपर्वम्)
16.008
वसुदेवनिधनम्। वज्राभिषेकः
वैशम्पायन उवाच॥
एवमुक्तः स बीभत्सुर्मातुलेन परन्तपः। दुर्मना दीनमनसं वसुदेवमुवाच ह ॥१६-८-१॥
नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल। विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ॥१६-८-२॥
राजा च भीमसेनश्च सहदेवश्च पाण्डवः। नकुलो याज्ञसेनी च षडेकमनसो वयम् ॥१६-८-३॥
राज्ञः सङ्क्रमणे चापि कालोऽयं वर्तते ध्रुवम्। तमिमं विद्धि सम्प्राप्तं कालं कालविदां वर ॥१६-८-४॥
सर्वथा वृष्णिदारांस्तु बालवृद्धांस्तथैव च। नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम ॥१६-८-५॥
इत्युक्त्वा दारुकमिदं वाक्यमाह धनञ्जयः। अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ॥१६-८-६॥
इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम्। प्रविवेशार्जुनः शूरः शोचमानो महारथान् ॥१६-८-७॥
तमासनगतं तत्र सर्वाः प्रकृतयस्तथा। ब्राह्मणा नैगमाश्चैव परिवार्योपतस्थिरे ॥१६-८-८॥
तान्दीनमनसः सर्वान्निभृतान्गतचेतसः। उवाचेदं वचः पार्थः स्वयं दीनतरस्तदा ॥१६-८-९॥
शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम्। इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति ॥१६-८-१०॥
सज्जीकुरुत यानानि रत्नानि विविधानि च। वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ॥१६-८-११॥
सप्तमे दिवसे चैव रवौ विमल उद्गते। बहिर्वत्स्यामहे सर्वे सज्जीभवत माचिरम् ॥१६-८-१२॥
इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा। सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ॥१६-८-१३॥
तां रात्रिमवसत्पार्थः केशवस्य निवेशने। महता शोकमोहेन सहसाभिपरिप्लुतः ॥१६-८-१४॥
श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान्। युक्त्वात्मानं महातेजा जगाम गतिमुत्तमाम् ॥१६-८-१५॥
ततः शब्दो महानासीद्वसुदेवस्य वेश्मनि। दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ॥१६-८-१६॥
प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः। उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्करुणं स्त्रियः ॥१६-८-१७॥
तं देवकी च भद्रा च रोहिणी मदिरा तथा। अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ॥१६-८-१८॥
ततः शौरिं नृयुक्तेन बहुमाल्येन भारत। यानेन महता पार्थो बहिर्निष्क्रामयत्तदा ॥१६-८-१९॥
तमन्वयुस्तत्र तत्र दुःखशोकसमाहताः। द्वारकावासिनः पौराः सर्व एव नरर्षभ ॥१६-८-२०॥
तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः। पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ॥१६-८-२१॥
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः। स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ॥१६-८-२२॥
यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः। तत्रैनमुपसङ्कल्प्य पितृमेधं प्रचक्रिरे ॥१६-८-२३॥
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः। ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ॥१६-८-२४॥
तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः। अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि ॥१६-८-२५॥
ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः। सामगानां च निर्घोषो नराणां रुदतामपि ॥१६-८-२६॥
ततो वज्रप्रधानास्ते वृष्णिवीरकुमारकाः। सर्व एवोदकं चक्रुः स्त्रियश्चैव महात्मनः ॥१६-८-२७॥
अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः। जगाम वृष्णयो यत्र विनष्टा भरतर्षभ ॥१६-८-२८॥
स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः। बभूवातीव कौरव्यः प्राप्तकालं चकार च ॥१६-८-२९॥
यथाप्रधानतश्चैव चक्रे सर्वाः क्रियास्तदा। ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ॥१६-८-३०॥
ततः शरीरे रामस्य वासुदेवस्य चोभयोः। अन्विष्य दाहयामास पुरुषैराप्तकारिभिः ॥१६-८-३१॥
स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः। सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः ॥ अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि ॥१६-८-३२॥
स्त्रियस्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः। अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनञ्जयम् ॥१६-८-३३॥
भृत्यास्त्वन्धकवृष्णीनां सादिनो रथिनश्च ये। वीरहीनं वृद्धबालं पौरजानपदास्तथा ॥ ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ॥१६-८-३४॥
कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा। सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ॥१६-८-३५॥
पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः ॥१६-८-३६॥
दश षट्च सहस्राणि वासुदेवावरोधनम्। पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः ॥१६-८-३७॥
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च। भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ॥१६-८-३८॥
तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत्। उवाह रथिनां श्रेष्ठः पार्थः परपुरञ्जयः ॥१६-८-३९॥
निर्याते तु जने तस्मिन्सागरो मकरालयः। द्वारकां रत्नसम्पूर्णां जलेनाप्लावयत्तदा ॥१६-८-४०॥
तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः। तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् ॥१६-८-४१॥
काननेषु च रम्येषु पर्वतेषु नदीषु च। निवसन्नानयामास वृष्णिदारान्धनञ्जयः ॥१६-८-४२॥
स पञ्चनदमासाद्य धीमानतिसमृद्धिमत्। देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ॥१६-८-४३॥
ततो लोभः समभवद्दस्यूनां निहतेश्वराः। दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ॥१६-८-४४॥
ततस्ते पापकर्माणो लोभोपहतचेतसः। आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः ॥१६-८-४५॥
अयमेकोऽर्जुनो योद्धा वृद्धबालं हतेश्वरम्। नयत्यस्मानतिक्रम्य योधाश्चेमे हतौजसः ॥१६-८-४६॥
ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः। अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ॥१६-८-४७॥
महता सिंहनादेन द्रावयन्तः पृथग्जनम्। अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः ॥१६-८-४८॥
ततो निवृत्तः कौन्तेयः सहसा सपदानुगः। उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ॥१६-८-४९॥
निवर्तध्वमधर्मज्ञा यदि स्थ न मुमूर्षवः। नेदानीं शरनिर्भिन्नाः शोचध्वं निहता मया ॥१६-८-५०॥
तथोक्तास्तेन वीरेण कदर्थीकृत्य तद्वचः। अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः ॥१६-८-५१॥
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत्। आरोपयितुमारेभे यत्नादिव कथञ्चन ॥१६-८-५२॥
चकार सज्यं कृच्छ्रेण सम्भ्रमे तुमुले सति। चिन्तयामास चास्त्राणि न च सस्मार तान्यपि ॥१६-८-५३॥
वैकृत्यं तन्महद्दृष्ट्वा भुजवीर्ये तथा युधि। दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् ॥१६-८-५४॥
वृष्णियोधाश्च ते सर्वे गजाश्वरथयायिनः। न शेकुरावर्तयितुं ह्रियमाणं च तं जनम् ॥१६-८-५५॥
कलत्रस्य बहुत्वात्तु सम्पतत्सु ततस्ततः। प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ॥१६-८-५६॥
मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः। समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ॥१६-८-५७॥
ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनञ्जयः। जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सह प्रभुः ॥१६-८-५८॥
क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः। अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ॥१६-८-५९॥
स शरक्षयमासाद्य दुःखशोकसमाहतः। धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ॥१६-८-६०॥
प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः। जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ॥१६-८-६१॥
धनञ्जयस्तु दैवं तन्मनसाचिन्तयत्प्रभुः। दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत् ॥१६-८-६२॥
अस्त्राणां च प्रणाशेन बाहुवीर्यस्य सङ्क्षयात्। धनुषश्चाविधेयत्वाच्छराणां सङ्क्षयेण च ॥१६-८-६३॥
बभूव विमनाः पार्थो दैवमित्यनुचिन्तयन्। न्यवर्तत ततो राजन्नेदमस्तीति चाब्रवीत् ॥१६-८-६४॥
ततः स शेषमादाय कलत्रस्य महामतिः। हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् ॥१६-८-६५॥
एवं कलत्रमानीय वृष्णीनां हृतशेषितम्। न्यवेशयत कौरव्यस्तत्र तत्र धनञ्जयः ॥१६-८-६६॥
हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम्। भोजराजकलत्रं च हृतशेषं नरोत्तमः ॥१६-८-६७॥
ततो वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः। वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् ॥१६-८-६८॥
यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रियम्। न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ॥१६-८-६९॥
इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा। वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ॥१६-८-७०॥
रुक्मिणी त्वथ गान्धारी शैब्या हैमवतीत्यपि। देवी जाम्बवती चैव विविशुर्जातवेदसम् ॥१६-८-७१॥
सत्यभामा तथैवान्या देव्यः कृष्णस्य संमताः। वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः ॥१६-८-७२॥
द्वारकावासिनो ये तु पुरुषाः पार्थमन्वयुः। यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः ॥१६-८-७३॥
स तत्कृत्वा प्राप्तकालं बाष्पेणापिहितोऽर्जुनः। कृष्णद्वैपायनं राजन्ददर्शासीनमाश्रमे ॥१६-८-७४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.