Mahabharata - Mahāprasthānika Parva (महाभारत - महाप्रस्थानिकपर्वम्)
17.001
महाप्रस्थानिकपर्व
पाण्डवप्रव्रजनम्
जनमेजय उवाच॥
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्। पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ॥१७-१-१॥
वैशम्पायन उवाच॥
श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत्। प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ॥१७-१-२॥
कालः पचति भूतानि सर्वाण्येव महामते। कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि ॥१७-१-३॥
इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन्। अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान् ॥१७-१-४॥
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा। अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना ॥१७-१-५॥
ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया। राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः ॥१७-१-६॥
अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम्। दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः ॥१७-१-७॥
एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति। यदूनां परिशेषश्च वज्रो राजा कृतश्च ह ॥१७-१-८॥
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु यादवः। वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः ॥१७-१-९॥
इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः। मातुलस्य च वृद्धस्य रामादीनां तथैव च ॥१७-१-१०॥
मातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः। श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा ॥१७-१-११॥
ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि। स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः ॥१७-१-१२॥
कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम्। शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः ॥१७-१-१३॥
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः। सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः ॥१७-१-१४॥
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः। भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः ॥१७-१-१५॥
नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम्। न च राजा तथाकार्षीत्कालपर्यायधर्मवित् ॥१७-१-१६॥
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम्। गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा ॥१७-१-१७॥
ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः। उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ॥१७-१-१८॥
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी। तथैव सर्वे जगृहुर्वल्कलानि जनाधिप ॥१७-१-१९॥
विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ। समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः ॥१७-१-२०॥
ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान्। प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा ॥१७-१-२१॥
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति। युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च ॥१७-१-२२॥
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः। आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् ॥ पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ॥१७-१-२३॥
न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम्। न्यवर्तन्त ततः सर्वे नरा नगरवासिनः ॥१७-१-२४॥
कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन्। विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा ॥१७-१-२५॥
चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति। शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् ॥१७-१-२६॥
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी। कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः ॥१७-१-२७॥
योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः। अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा ॥१७-१-२८॥
युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम्। अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम् ॥१७-१-२९॥
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा। द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम ॥१७-१-३०॥
श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने। क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम् ॥१७-१-३१॥
गाण्डीवं च धनुर्दिव्यं न मुमोच धनञ्जयः। रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी ॥१७-१-३२॥
अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः। मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् ॥१७-१-३३॥
ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत्। भो भो पाण्डुसुता वीराः पावकं मां विबोधत ॥१७-१-३४॥
युधिष्ठिर महाबाहो भीमसेन परन्तप। अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम ॥१७-१-३५॥
अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम्। अर्जुनस्य प्रभावेण तथा नारायणस्य च ॥१७-१-३६॥
अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम्। परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन ॥१७-१-३७॥
चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि। गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ॥१७-१-३८॥
वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात्। गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् ॥१७-१-३९॥
ततस्ते भ्रातरः सर्वे धनञ्जयमचोदयन्। स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी ॥१७-१-४०॥
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत। ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ॥१७-१-४१॥
ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः। जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम् ॥१७-१-४२॥
ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते। ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् ॥१७-१-४३॥
उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः। प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः ॥१७-१-४४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.