Mahabharata - Mahāprasthānika Parva (महाभारत - महाप्रस्थानिकपर्वम्)
17.002
भीमादिपतनम्
वैशम्पायन उवाच॥
ततस्ते नियतात्मान उदीचीं दिशमास्थिताः। ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥१७-२-१॥
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम्। अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥१७-२-२॥
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम्। याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥१७-२-३॥
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः। उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ॥१७-२-४॥
नाधर्मश्चरितः कश्चिद्राजपुत्र्या परन्तप। कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि ॥१७-२-५॥
युधिष्ठिर उवाच॥
पक्षपातो महानस्या विशेषेण धनञ्जये। तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ॥१७-२-६॥
वैशम्पायन उवाच॥
एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः। समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ॥१७-२-७॥
सहदेवस्ततो धीमान्निपपात महीतले। तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥१७-२-८॥
योऽयमस्मासु सर्वेषु शुश्रूषुरनहङ्कृतः। सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥१७-२-९॥
युधिष्ठिर उवाच॥
आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन। तेन दोषेण पतितस्तस्मादेष नृपात्मजः ॥१७-२-१०॥
वैशम्पायन उवाच॥
इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा। भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥१७-२-११॥
कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम्। आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥१७-२-१२॥
तस्मिन्निपतिते वीरे नकुले चारुदर्शने। पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥१७-२-१३॥
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः। रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥१७-२-१४॥
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः। नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः ॥१७-२-१५॥
रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम्। अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥१७-२-१६॥
नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर। यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥१७-२-१७॥
तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः। पपात शोकसन्तप्तस्ततोऽनु परवीरहा ॥१७-२-१८॥
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि। म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥१७-२-१९॥
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः। अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥१७-२-२०॥
युधिष्ठिर उवाच॥
एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत्। न च तत्कृतवानेष शूरमानी ततोऽपतत् ॥१७-२-२१॥
अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः। यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता ॥१७-२-२२॥
वैशम्पायन उवाच॥
इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह। पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ॥१७-२-२३॥
भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव। किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ॥१७-२-२४॥
युधिष्ठिर उवाच॥
अतिभुक्तं च भवता प्राणेन च विकत्थसे। अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥१७-२-२५॥
वैशम्पायन उवाच॥
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन्। श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया ॥१७-२-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.