Mahabharata - Mahāprasthānika Parva (महाभारत - महाप्रस्थानिकपर्वम्)
17.003
इन्द्रयुधिष्ठिरसंवादः
वैशम्पायन उवाच॥
ततः संनादयञ्शक्रो दिवं भूमिं च सर्वशः। रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् ॥१७-३-१॥
स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः। अब्रवीच्छोकसन्तप्तः सहस्राक्षमिदं वचः ॥१७-३-२॥
भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह। न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ॥१७-३-३॥
सुकुमारी सुखार्हा च राजपुत्री पुरंदर। सास्माभिः सह गच्छेत तद्भवाननुमन्यताम् ॥१७-३-४॥
इन्द्र उवाच॥
भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान्। कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ ॥१७-३-५॥
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ। अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः ॥१७-३-६॥
युधिष्ठिर उवाच॥
अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह। स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ॥१७-३-७॥
इन्द्र उवाच॥
अमर्त्यत्वं मत्समत्वं च राज; ञ्श्रियं कृत्स्नां महतीं चैव कीर्तिम्। सम्प्राप्तोऽद्य स्वर्गसुखानि च त्वं; त्यज श्वानं नात्र नृशंसमस्ति ॥१७-३-८॥
युधिष्ठिर उवाच॥
अनार्यमार्येण सहस्रनेत्र; शक्यं कर्तुं दुष्करमेतदार्य। मा मे श्रिया सङ्गमनं तयास्तु; यस्याः कृते भक्तजनं त्यजेयम् ॥१७-३-९॥
इन्द्र उवाच॥
स्वर्गे लोके श्ववतां नास्ति धिष्ण्य; मिष्टापूर्तं क्रोधवशा हरन्ति। ततो विचार्य क्रियतां धर्मराज; त्यज श्वानं नात्र नृशंसमस्ति ॥१७-३-१०॥
युधिष्ठिर उवाच॥
भक्तत्यागं प्राहुरत्यन्तपापं; तुल्यं लोके ब्रह्मवध्याकृतेन। तस्मान्नाहं जातु कथञ्चनाद्य; त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र ॥१७-३-११॥
इन्द्र उवाच॥
शुना दृष्टं क्रोधवशा हरन्ति; यद्दत्तमिष्टं विवृतमथो हुतं च। तस्माच्छुनस्त्यागमिमं कुरुष्व; शुनस्त्यागात्प्राप्स्यसे देवलोकम् ॥१७-३-१२॥
त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां; प्राप्तो लोकः कर्मणा स्वेन वीर। श्वानं चैनं न त्यजसे कथं नु; त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ॥१७-३-१३॥
युधिष्ठिर उवाच॥
न विद्यते सन्धिरथापि विग्रहो; मृतैर्मर्त्यैरिति लोकेषु निष्ठा। न ते मया जीवयितुं हि शक्या; तस्मात्त्यागस्तेषु कृतो न जीवताम् ॥१७-३-१४॥
प्रतिप्रदानं शरणागतस्य; स्त्रिया वधो ब्राह्मणस्वापहारः। मित्रद्रोहस्तानि चत्वारि शक्र; भक्तत्यागश्चैव समो मतो मे ॥१७-३-१५॥
वैशम्पायन उवाच॥
तद्धर्मराजस्य वचो निशम्य; धर्मस्वरूपी भगवानुवाच। युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं; श्लक्ष्णैर्वाक्यैः संस्तवसम्प्रयुक्तैः ॥१७-३-१६॥
अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया। अनुक्रोशेन चानेन सर्वभूतेषु भारत ॥१७-३-१७॥
पुरा द्वैतवने चासि मया पुत्र परीक्षितः। पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः ॥१७-३-१८॥
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ। मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ॥१७-३-१९॥
अयं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वया। तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप ॥१७-३-२०॥
अतस्तवाक्षया लोकाः स्वशरीरेण भारत। प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ॥१७-३-२१॥
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि। देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् ॥१७-३-२२॥
प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः। सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः ॥१७-३-२३॥
स तं रथं समास्थाय राजा कुरुकुलोद्वहः। ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी ॥१७-३-२४॥
ततो देवनिकायस्थो नारदः सर्वलोकवित्। उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः ॥१७-३-२५॥
येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः। कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ॥१७-३-२६॥
लोकानावृत्य यशसा तेजसा वृत्तसम्पदा। स्वशरीरेण सम्प्राप्तं नान्यं शुश्रुम पाण्डवात् ॥१७-३-२७॥
नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत्। देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ॥१७-३-२८॥
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे। तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये ॥१७-३-२९॥
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः। आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् ॥१७-३-३०॥
स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः। किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि ॥१७-३-३१॥
सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित्। नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन ॥१७-३-३२॥
अद्यापि मानुषो भावः स्पृशते त्वां नराधिप। स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् ॥१७-३-३३॥
युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम्। पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् ॥१७-३-३४॥
तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण। गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः ॥१७-३-३५॥
यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता। द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया मम ॥१७-३-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.