18.001
स्वर्गारोहणपर्व
स्वर्गे नारदवाक्यम्
जनमेजय उवाच॥
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः। पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥१८-१-१॥
एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः। महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥१८-१-२॥
वैशम्पायन उवाच॥
स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः। युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ॥१८-१-३॥
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः। दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ॥१८-१-४॥
भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम्। देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥१८-१-५॥
ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः। सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥१८-१-६॥
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै। सहितः कामये लोकाँल्लुब्धेनादीर्घदर्शिना ॥१८-१-७॥
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा। हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने ॥१८-१-८॥
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी। परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ ॥१८-१-९॥
स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम्। तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ॥१८-१-१०॥
मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव। स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति ॥१८-१-११॥
युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन। दुर्योधनं प्रति नृपं शृणु चेदं वचो मम ॥१८-१-१२॥
एष दुर्योधनो राजा पूज्यते त्रिदशैः सह। सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः ॥१८-१-१३॥
वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम्। यूयं सर्वे सुरसमा येन युद्धे समासिताः ॥१८-१-१४॥
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान्। भये महति योऽभीतो बभूव पृथिवीपतिः ॥१८-१-१५॥
न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम्। द्रौपद्याश्च परिक्लेशं न चिन्तयतुमर्हसि ॥१८-१-१६॥
ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः। सङ्ग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि ॥१८-१-१७॥
समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै। स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप ॥१८-१-१८॥
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः। भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ॥१८-१-१९॥
यदि दुर्योधनस्यैते वीरलोकाः सनातनाः। अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ॥१८-१-२०॥
यत्कृते पृथिवी नष्टा सहया सरथद्विपा। वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ॥१८-१-२१॥
ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः। सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः ॥१८-१-२२॥
तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम्। कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम् ॥१८-१-२३॥
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान्। ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः ॥१८-१-२४॥
क्व नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारद। विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् ॥१८-१-२५॥
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः। अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ॥१८-१-२६॥