Mahabharata - Svargārohaṇa Parva (महाभारत - स्वर्गारोहणपर्वम्)
18.002
देवदूतविसर्जनम्
युधिष्ठिर उवाच॥
नेह पश्यामि विबुधा राधेयममितौजसम्। भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ॥१८-२-१॥
जुहुवुर्ये शरीराणि रणवह्नौ महारथाः। राजानो राजपुत्राश्च ये मदर्थे हता रणे ॥१८-२-२॥
क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः। तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ॥१८-२-३॥
यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः। स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ॥१८-२-४॥
कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः। न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा ॥१८-२-५॥
मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि। कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ॥१८-२-६॥
इदं च परितप्यामि पुनः पुनरहं सुराः। यन्मातुः सदृशौ पादौ तस्याहममितौजसः ॥१८-२-७॥
दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम्। न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे ॥१८-२-८॥
तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम्। अविज्ञातो मया योऽसौ घातितः सव्यसाचिना ॥१८-२-९॥
भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम। अर्जुनं चेन्द्रसङ्काशं यमौ तौ च यमोपमौ ॥१८-२-१०॥
द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम्। न चेह स्थातुमिच্ছामि सत्यमेतद्ब्रवीमि वः ॥१८-२-११॥
किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः। यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम ॥१८-२-१२॥
देवा ऊचुः॥
यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम्। प्रिये हि तव वर्तामो देवराजस्य शासनात् ॥१८-२-१३॥
वैशम्पायन उवाच॥
इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन्। युधिष्ठिरस्य सुहृदो दर्शयेति परन्तप ॥१८-२-१४॥
ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः। सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ॥१८-२-१५॥
अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतः। पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ॥१८-२-१६॥
तमसा संवृतं घोरं केशशैवलशाद्वलम्। युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम् ॥१८-२-१७॥
दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम्। इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ॥१८-२-१८॥
अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम्। ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ॥१८-२-१९॥
अयोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम्। सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ॥१८-२-२०॥
मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः। निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः ॥१८-२-२१॥
स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम्। जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् ॥१८-२-२२॥
ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम्। असिपत्रवनं चैव निशितक्षुरसंवृतम् ॥१८-२-२३॥
करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक्। लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः ॥१८-२-२४॥
कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम्। ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् ॥१८-२-२५॥
स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह। कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम् ॥१८-२-२६॥
क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि। देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥१८-२-२७॥
स संनिववृते श्रुत्वा धर्मराजस्य भाषितम्। देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव ॥१८-२-२८॥
निवर्तितव्यं हि मया तथास्म्युक्तो दिवौकसैः। यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि ॥१८-२-२९॥
युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः। निवर्तने धृतमनाः पर्यावर्तत भारत ॥१८-२-३०॥
स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः। शुश्राव तत्र वदतां दीना वाचः समन्ततः ॥१८-२-३१॥
भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव। अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ॥१८-२-३२॥
आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः। तव गन्धानुगस्तात येनास्मान्सुखमागमत् ॥१८-२-३३॥
ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ। सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥१८-२-३४॥
सन्तिष्ठस्व महाबाहो मुहूर्तमपि भारत। त्वयि तिष्ठति कौरव्य यातनास्मान्न बाधते ॥१८-२-३५॥
एवं बहुविधा वाचः कृपणा वेदनावताम्। तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ॥१८-२-३६॥
तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम्। अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ॥१८-२-३७॥
स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः। ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ॥१८-२-३८॥
अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः। उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ॥१८-२-३९॥
इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे। कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ॥१८-२-४०॥
नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत। द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः ॥१८-२-४१॥
ता वाचः सा तदा श्रुत्वा तद्देशसदृशीर्नृप। ततो विममृशे राजा किं न्विदं दैवकारितम् ॥१८-२-४२॥
किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिः। कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया ॥१८-२-४३॥
य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे। न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ॥१८-२-४४॥
किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः। तथा श्रिया युतः पापः सह सर्वैः पदानुगैः ॥१८-२-४५॥
महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः। कस्येदानीं विकारोऽयं यदिमे नरकं गताः ॥१८-२-४६॥
सर्वधर्मविदः शूराः सत्यागमपरायणाः। क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः ॥१८-२-४७॥
किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेतये। अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः ॥१८-२-४८॥
एवं बहुविधं राजा विममर्श युधिष्ठिरः। दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः ॥१८-२-४९॥
क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः। देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः ॥१८-२-५०॥
स तीव्रगन्धसन्तप्तो देवदूतमुवाच ह। गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम् ॥१८-२-५१॥
न ह्यहं तत्र यास्म्यामि स्थितोऽस्मीति निवेद्यताम्। मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे ॥१८-२-५२॥
इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता। जगाम तत्र यत्रास्ते देवराजः शतक्रतुः ॥१८-२-५३॥
निवेदयामास च तद्धर्मराजचिकीर्षितम्। यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप ॥१८-२-५४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.