Chapter 15: Pāṇḍu becomes king; Gāndhārī marries Dhṛtarāṣṭra, and Kuntī and Mādrī marry Pāṇḍu.
किं कृतं कर्म धर्मेण येन शापमुपेयिवान् । कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत ॥BORI: १-१०१-१॥
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः । धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥BORI: १-१०१-२॥
स आश्रमपदद्वारि वृक्षमूले महातपाः । ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥BORI: १-१०१-३॥
तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः । तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः । अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ॥BORI: १-१०१-४॥
ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम । निधाय च भयाल्लीनास्तत्रैवान्वागते बले ॥BORI: १-१०१-५॥
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् । आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ॥BORI: १-१०१-६॥
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् । कतरेण पथा याता दस्यवो द्विजसत्तम । तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ॥BORI: १-१०१-७॥
तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः । न किञ्चिद्वचनं राजन्नवदत्साध्वसाधु वा ॥BORI: १-१०१-८॥
ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् । ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ॥BORI: १-१०१-९॥
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति । संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥BORI: १-१०१-१०॥
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति । स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ॥BORI: १-१०१-११॥
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा । प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥BORI: १-१०१-१२॥
शूलस्थः स तु धर्मात्मा कालेन महता ततः । निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् । धारयामास च प्राणानृषींश्च समुपानयत् ॥BORI: १-१०१-१३॥
शूलाग्रे तप्यमानेन तपस्तेन महात्मना । सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप ॥BORI: १-१०१-१४॥
ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः । दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् । श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ॥BORI: १-१०१-१५॥
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् । दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ॥BORI: १-१०१-१६॥
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः । प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥BORI: १-१०१-१७॥
यन्मयापकृतं मोहादज्ञानादृषिसत्तम । प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥BORI: १-१०१-१८॥
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः । कृतप्रसादो राजा तं ततः समवतारयत् ॥BORI: १-१०१-१९॥
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह । अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥BORI: १-१०१-२०॥
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः । स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः । अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ॥BORI: १-१०१-२१॥
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् । आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः ॥BORI: १-१०१-२२॥
किं नु तद्दुष्कृतं कर्म मया कृतमजानता । यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया । शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥BORI: १-१०१-२३॥
पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता । कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ॥BORI: १-१०१-२४॥
अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः । शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि ॥BORI: १-१०१-२५॥
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् । आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् । परेण कुर्वतामेवं दोष एव भविष्यति ॥BORI: १-१०१-२६॥
एतेन त्वपराधेन शापात्तस्य महात्मनः । धर्मो विदुररूपेण शूद्रयोनावजायत ॥BORI: १-१०१-२७॥
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः । दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥BORI: १-१०१-२८॥
स तीर्थयात्रां विचरन्नाजगाम यदृच्छया । संनिकृष्टानि तीर्थानि ग्रामाणां यानि कानि च । तत्राश्रमपदं कृत्वा वसति स्म महामुनिः ॥KUMB: १-११६-३॥
अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ । तामेव वसतिं जग्मुस्ते ग्रामाल्लोप्त्रहारिणः ॥KUMB: १-११६-६॥
श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि । येनेह समनुप्राप्तं शूले दुःखभयं महत् ॥KUMB: १-११६-१९; NILA: ०१.१०७.०१७॥
तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि । न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप ॥KUMB: १-११७-२; NILA: ०१.१०८.००२॥
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः । कण्ठपार्श्वान्तरस्थेन शङ्कुना मुनिराचत् । पुष्पभाजनधारी स्यादिति चिन्तापरोऽभवत् ॥KUMB: १-११७-७॥
स्वल्पमेव यथा दत्तं दानं बहुगुणं भवेत् । अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः ॥KUMB: १-११७-१३; NILA: ०१.१०८.०१२॥
कस्मिन्काले मया तत्तु कृतं ब्रूहि यथातथम् । तेनोक्तं धर्मराजेन बालभावे त्वया कृतम् ॥KUMB: १-११७-१४; NILA: ०१.१०८.०१३॥
बालो हि द्वादशाद्वर्षाज्जन्मतो यत्करिष्यति । न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यति वै दिशः ॥KUMB: १-११७-१५; NILA: ०१.१०८.०१४॥
अल्पेऽपराधेऽपि महान्मम दण्डस्त्वया धृतः । गरीयान्ब्राह्मणवधः सर्वभूतवधादपि ॥KUMB: १-११७-१६; NILA: ०१.१०८.०१५॥
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् । कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥BORI: १-१०२-१॥
ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च । यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥BORI: १-१०२-२॥
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः । गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥BORI: १-१०२-३॥
वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः । शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥BORI: १-१०२-४॥
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः । प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥BORI: १-१०२-५॥
दानक्रियाधर्मशीला यज्ञव्रतपरायणाः । अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥BORI: १-१०२-६॥
मानक्रोधविहीनाश्च जना लोभविवर्जिताः । अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ॥BORI: १-१०२-७॥
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत । द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः । प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम् ॥BORI: १-१०२-८॥
नदीषु वनखण्डेषु वापीपल्वलसानुषु । काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥BORI: १-१०२-९॥
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा । विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः । नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ॥BORI: १-१०२-१०॥
तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः । कूपारामसभावाप्यो ब्राह्मणावसथास्तथा । भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ॥BORI: १-१०२-११॥
बभूव रमणीयश्च चैत्ययूपशताङ्कितः । स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः । भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥BORI: १-१०२-१२॥
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् । पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ॥BORI: १-१०२-१३॥
गृहेषु कुरुमुख्यानां पौराणां च नराधिप । दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥BORI: १-१०२-१४॥
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः । जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥BORI: १-१०२-१५॥
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः । श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥BORI: १-१०२-१६॥
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि । तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥BORI: १-१०२-१७॥
इतिहासपुराणेषु नानाशिक्षासु चाभिभो । वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ॥BORI: १-१०२-१८॥
पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् । अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ॥BORI: १-१०२-१९॥
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः । धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ॥BORI: १-१०२-२०॥
प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् । ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥BORI: १-१०२-२१॥
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् । सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ॥BORI: १-१०२-२२॥
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत । करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ॥BORI: १-१०२-२३॥
धृतराष्ट्रे च पाण्डौ च विदुरे च महात्मनि । एषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् । कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥KUMB: १-११८-१॥
कूपारामसभावाप्यो ब्राह्मणावसथास्तथा । बभूवुः सर्वर्द्धियुतास्तस्मिन्राष्ट्रे सदोत्सवाः ॥KUMB: १-११८-१२; NILA: ०१.१०९.०१२॥
वैदिकाध्ययने युक्तो नीतिशास्त्रेषु पारगः । भीष्मेण राजा कौरव्यो धृतराष्ट्रोऽभिषेचितः ॥KUMB: १-११८-२१॥
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि । तथैव गजशिक्षायामस्त्रेषु विविधेषु च ॥KUMB: १-११८-२२॥
अर्थधर्मप्रधानासु विद्यासु विविधासु च । गतः पारं यदा पाण्डुस्तदा सेनापतिः कृतः ॥KUMB: १-११८-२३॥
अमात्यो मनुजेन्द्रस्य बाल एव यशस्विनः । भीष्मेण सर्वधर्माणां प्रणेता विदुरः कृतः ॥KUMB: १-११८-२५॥
सर्वशास्त्रार्थतत्त्वज्ञो बुद्धिमेधापटुर्युवा । भावेनागमयुक्तेन सर्वं वेदयते जगत् ॥KUMB: १-११८-२६॥
अथ शुश्राव विप्रेभ्यः कुन्तिभोजमहीपतेः । रूपयौवनसंपन्नां सुतां सागरगासुतः ॥KUMB: १-११८-३१॥
सुबलस्य च कल्याणीं गान्धाराधिपतेः सुताम् । सुतां च मद्रराजस्य रूपेणाप्रतिमां भुवि ॥KUMB: १-११८-३२॥
कदाचिदथ गाङ्गेयः सर्वनीतिमतां वरः । विदुरं धर्मतत्त्वज्ञं वाक्यमाह यथोचितम् ॥KUMB: १-११८-३३; NILA: ०१.१०९.०२६॥
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् । अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ॥BORI: १-१०३-१॥
रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः । नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ॥BORI: १-१०३-२॥
मया च सत्यवत्या च कृष्णेन च महात्मना । समवस्थापितं भूयो युष्मासु कुलतन्तुषु ॥BORI: १-१०३-३॥
वर्धते तदिदं पुत्र कुलं सागरवद्यथा । तथा मया विधातव्यं त्वया चैव विशेषतः ॥BORI: १-१०३-४॥
श्रूयते यादवी कन्या अनुरूपा कुलस्य नः । सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥BORI: १-१०३-५॥
कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः । उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ॥BORI: १-१०३-६॥
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर । सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ॥BORI: १-१०३-७॥
भवान्पिता भवान्माता भवान्नः परमो गुरुः ॥BORI: १-१०३-८A॥
तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ॥BORI: १-१०३-८B॥
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् ॥BORI: १-१०३-९A॥
आराध्य वरदं देवं भगनेत्रहरं हरम् । गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ॥BORI: १-१०३-९B॥
इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः । ततो गान्धारराजस्य प्रेषयामास भारत ॥BORI: १-१०३-१०॥
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा । कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः । ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥BORI: १-१०३-११॥
गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् । आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ॥BORI: १-१०३-१२॥
ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा । बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा । नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ॥BORI: १-१०३-१३॥
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् । स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ॥BORI: १-१०३-१४॥
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् । पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥BORI: १-१०३-१५॥
गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः । तुष्टिं कुरूणां सर्वेषां जनयामास भारत ॥BORI: १-१०३-१६॥
वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा । वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ॥BORI: १-१०३-१७॥
स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् । तां तदा धृतराष्ट्राय ददौ परमसत्कृताम् । भीष्मस्यानुमते चैव विवाहं समकारयत् ॥KUMB: १-११९-१६; NILA: ०१.११०.०१६॥
गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषमीश्वरम् । अतिचाराद्भृशं भीता भर्तुः सा समचिन्तयत् ॥KUMB: १-११९-१९॥
सा दृष्टिविनिवृत्त्या हि भर्तुश्च समतां ययौ । नहि सूक्ष्मेप्यतीचारे भर्तुः सा ववृते तदा ॥KUMB: १-११९-२०॥
तस्याः सहोदरीः कन्याः पुनरेव ददौ दश । गान्धारराजः सुबलो भीष्मेण च वृतस्तदा ॥KUMB: १-११९-२२॥
सत्यव्रतां सत्यसेनां सुदेष्णां चापि संहिताम् । तेजश्श्र्वां सुश्रवां च तथैव निकृतिं शुभाम् ॥KUMB: १-११९-२३॥
शंभ्वठां च दशार्णां च गान्धारीर्दश विश्रुताः । एकाह्ना प्रतिजग्राह धृतराष्ट्रो जनेश्वरः ॥KUMB: १-११९-२४॥
ततः शान्तनवो भीष्मो धानुष्कस्तास्ततस्ततः । अददाद्धृतराष्ट्रस्य राजपुत्रीः परश्शतम् ॥KUMB: १-११९-२५॥
शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् । तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥BORI: १-१०४-१॥
पैतृष्वसेयाय स तामनपत्याय वीर्यवान् । अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् ॥BORI: १-१०४-२॥
अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे । प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥BORI: १-१०४-३॥
सा नियुक्ता पितुर्गेहे देवतातिथिपूजने । उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् ॥BORI: १-१०४-४॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥BORI: १-१०४-५॥
तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया । अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥BORI: १-१०४-६॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति ॥BORI: १-१०४-७॥
तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा । कन्या सती देवमर्कमाजुहाव यशस्विनी ॥BORI: १-१०४-८॥
सा ददर्श तमायान्तं भास्करं लोकभावनम् । विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ॥BORI: १-१०४-९॥
प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः । अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् । आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः ॥BORI: १-१०४-१०॥
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः । अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ॥BORI: १-१०४-११॥
प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः । दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः ॥BORI: १-१०४-१२॥
गूहमानापचारं तं बन्धुपक्षभयात्तदा । उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ॥BORI: १-१०४-१३॥
तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः । पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ॥BORI: १-१०४-१४॥
नामधेयं च चक्राते तस्य बालस्य तावुभौ । वसुना सह जातोऽयं वसुषेणो भवत्विति ॥BORI: १-१०४-१५॥
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् । आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् ॥BORI: १-१०४-१६॥
यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः । नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ॥BORI: १-१०४-१७॥
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः । कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥BORI: १-१०४-१८॥
उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् । कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥BORI: १-१०४-१९॥
शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् । देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् । यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति ॥BORI: १-१०४-२०॥
पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् । ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥BORI: १-१०४-२१॥
दध्याज्यकादिभिर्नित्यं व्यञ्जनैः प्रत्यहं शुभा । सहस्रसङ्ख्यैर्योगीन्द्रमुपचारदनुत्तमा ॥KUMB: १-१२०-६॥
दुर्वासा वत्सरस्यान्ते ददौ मन्त्रमनुत्तमम् । यशस्विन्यै पृथायै तदापद्धर्मान्ववेक्षया । अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥KUMB: १-१२०-७॥
ततो घनान्तरं कृत्वा स्वमार्गं तपनस्तदा । उपतस्थे स तां कन्यां पृथां पृथुललोचनाम् ॥KUMB: १-१२०-१०॥
साब्रवीद्भगवन्कस्त्वमाविर्भूतो ममाग्रतः ॥KUMB: १-१२०-१२॥
आदित्य उवाच । आहूतोपस्थितं भद्रे ऋषिमन्त्रेण चोदितम् । विद्धि मां पुत्रलाभाय देवमर्कं शुचिस्मिते ॥KUMB: १-१२०-१२क्ष्॥
पुत्रस्ते निर्मितः सुभ्रु शृणु महादृक्छुभानने । आदित्ये कुण्डले बिभ्रत्कवचं चैव मामकम् ॥KUMB: १-१२०-१३॥
शस्त्रास्त्राणामभेद्यश्च भविष्यति शुचिस्मिते । नास्य किंचिददेयं च ब्राह्मणेभ्यो भविष्यति ॥KUMB: १-१२०-१४॥
चोद्यमानो मया चापि न क्षमं चिन्तयिष्यति । दास्यत्येव हि विप्रेभ्यो मानी चैव भविष्यति ॥KUMB: १-१२०-१५॥
वैशम्पायन उवाच । एवमुक्ता ततः कुन्ती गोपतिं प्रत्युवाच ह । कन्या पितृसा चाहं पुरुषार्थो न चैव मे ॥KUMB: १-१२०-१६क्ष्; KUMB: १-१२०-१६॥
कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्यां च शत्रुहन् । तद्विजिज्ञासयाऽऽह्वानं कृतवत्यस्मि ते विभो ॥KUMB: १-१२०-१७; NILA: ०१.१११.०११॥
एतस्मिन्नपराधे त्वां शिरसाऽहं प्रसादये । योषितो हि सदा रक्ष्यास्त्वपराधेऽपि नित्यशः ॥KUMB: १-१२०-१८; NILA: ०१.१११.०१२॥
सूर्य उवाच । वेदाहं सर्वमेवैतद्यद्दुर्वासा वरं ददौ । संत्यज्य भयमेवेह क्रियतां सङ्गमो मम ॥KUMB: १-१२०-१९क्ष्; KUMB: १-१२०-१९; NILA: ०१.१११.०१३॥
अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे । वृथाऽऽह्वानेऽपि ते भीरु दोषः स्यान्नात्र संशयः ॥KUMB: १-१२०-२०; NILA: ०१.१११.०१४॥
यद्येवं मन्यसे भीरु किमाह्वयसि भास्करम् । यदि मामवजानासि ऋषिः स न भविष्यति ॥KUMB: १-१२०-२१॥
मन्त्रदानेन यस्मात्त्वमवलेपेन दर्पिता । कुलं च तेऽद्य धक्ष्यामि क्रोधदीप्तेन चक्षुषा ॥KUMB: १-१२०-२२॥
वैशम्पायन उवाच । एवमुक्ता बहुविधं सान्त्वपूर्वं विवस्वता । सा तु नैच्छद्वरारोहा कन्याहमिति भारत ॥KUMB: १-१२०-२३क्ष्; KUMB: १-१२०-२३; NILA: ०१.१११.०१५॥
बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी । तामर्कः पुनरेवेदब्रवीद्भरतर्षभ ॥KUMB: १-१२०-२४; NILA: ०१.१११.०१६॥
मत्प्रसादान्न ते राज्ञि भविता दोष इत्युत । एवमुक्त्वा स भगवान्कुन्तिराजसुतां तदा ॥KUMB: १-१२०-२५; NILA: ०१.१११.०१७॥
कुन्त्युवाच । प्रसीद भगवन्मह्यमवलेपो हि नास्ति मे । त्वयैव परिहार्यं स्यात्कन्याभावस्य दूषणम् ॥KUMB: १-१२०-२६क्ष्; KUMB: १-१२०-२६॥
आदित्य उवाच । व्यपयातु भयं तेऽद्य कुमारं प्रसमीक्षसे । मया त्वं चाप्यनुज्ञाता पुनः कन्या भविष्यसि ॥KUMB: १-१२०-२७क्ष्; KUMB: १-१२०-२७॥
वैशम्पायन उवाच । एवमुक्ता ततः कुन्ती संप्रहृष्टतनूरुहा । सङ्गताऽभूत्तदा सुभ्रूरादित्येन महात्मना ॥KUMB: १-१२०-२८क्ष्; KUMB: १-१२०-२८॥
दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा । एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत् ॥KUMB: १-१२०-३२; KUMB: १-१२०-३३; NILA: ०१.१११.०२१॥
मञ्जूषां रत्नसंपूर्णां कृत्वा बालसमाश्रिताम् । उत्ससर्ज कुमारं तं जले कुन्ती महाबलम् ॥KUMB: १-१२०-३४॥
ततः काले तु कस्मिंश्चित्स्वप्नान्ते कर्णमब्रवीत् । आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम ॥KUMB: १-१२०-३९॥
प्रभातायां रजन्यां त्वामागमिष्यति वासवः । न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति ॥KUMB: १-१२०-४०॥
निश्चयोऽस्यापहर्तुं ते कवचं कुण्डले तथा । अतस्त्वां बोधयाम्येष स्मर्तासि वचनं मम ॥KUMB: १-१२०-४१॥
कर्ण उवाच । शक्रो मां विप्ररूपेण यदि वै याचते द्विज । कथं तस्मै न दास्यामि यथा चास्म्यवबोधितः ॥KUMB: १-१२०-४२क्ष्; KUMB: १-१२०-४२॥
विप्राः पूज्यास्तु देवानां सततं प्रियमिच्छताम् । तं देवदेवं जानन्वै न शक्तोऽस्म्यवमन्त्रणे ॥KUMB: १-१२०-४३॥
सूर्य उवाच । यद्येवं शृणु मे वीर वरं ते सोऽपि दास्यति । शक्तिं त्वमपि याचेथाः सर्वशत्रुविबाधिनीम् ॥KUMB: १-१२०-४४क्ष्; KUMB: १-१२०-४४॥
वैशम्पायन उवाच । एवमुक्त्वा द्विजः स्वप्ने तत्रैवान्तरधीयत । कर्णः प्रबुद्धस्तं स्वप्नं चिन्तयानोऽभवत्तदा ॥KUMB: १-१२०-४५क्ष्; KUMB: १-१२०-४५॥
प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा । अहो साहसमित्याह मनसा वासवो हसन् ॥KUMB: १-१२०-४८; NILA: ०१.१११.०२९॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । न तं पश्यामि यो ह्येतत्कर्म कर्ता भविष्यति ॥KUMB: १-१२०-४९॥
प्रीतोऽस्मि कर्मणा तेन वरं ब्रूहि यदिच्छसि । कर्ण उवाच । इच्छामि भगवद्दत्तां शक्तिं शत्रुनिबर्हणीम् ॥KUMB: १-१२०-५०; KUMB: १-१२०-५०क्ष्॥
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति । हत्वैकं समरे शत्रुं ततो मामागमिष्यति । इत्युक्त्वान्तर्दधे शक्रो वरं दत्त्वा तु तस्य वै ॥KUMB: १-१२०-५२॥
तां समासाद्य देवस्तु विवस्वानिदमब्रवीत् । अयमस्म्यसितापाङ्गी ब्रूहि किं करवाणि ते ॥NILA: ०१.१११.०१०॥
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता । दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ॥BORI: १-१०५-१॥
सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् । भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ॥BORI: १-१०५-२॥
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः । युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥BORI: १-१०५-३॥
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् । विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ॥BORI: १-१०५-४॥
सर्वराजसु विख्याता रूपेणासदृशी भुवि । पाण्डोरर्थे परिक्रीता धनेन महता तदा । विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ॥BORI: १-१०५-५॥