Chapter 1: Ugraśravas, the Sūta and son of Lomaharṣaṇa, introduces the Mahābhārata and begins recounting Vaiśampāyana’s narration to King Janamejaya. The section contains several indications of how the 8,800-verse Jaya may have expanded into the nearly 100,000-verse Mahābhārata. It also preserves five distinct tables of contents or summaries: the Gaṇeśa episode, with the eighteen parvas represented as a tree; the 150-verse table of contents; Dhṛtarāṣṭra’s lamentation; the list of one hundred parva names; and the summary of the eighteen parvas. These appear to belong to different stages in the text’s development.
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः। यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति ॥
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥BORI: १-००१-१॥
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान्। विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥BORI: १-००१-२॥
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः। चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥BORI: १-००१-३॥
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः।अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥BORI: १-००१-४॥
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु।निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥BORI: १-००१-५॥
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च।अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥BORI: १-००१-६॥
कुत आगम्यते सौते क्व चायं विहृतस्त्वया।कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥BORI: १-००१-७॥
सूत उवाच॥
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः।समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥BORI: १-००१-८॥
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः।कथिताश्चापि विधिवद्या वैशम्पायनेन वै ॥BORI: १-००१-९॥
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः।बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥BORI: १-००१-१०॥
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्।गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ॥BORI: १-००१-११॥
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥BORI: १-००१-११॥
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह।आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥BORI: १-००१-१२॥
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः।कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ॥BORI: १-००१-१३॥
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥BORI: १-००१-१३॥
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः।इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥BORI: १-००१-१४॥
ऋषय ऊचुः॥
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा।सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥BORI: १-००१-१५॥
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः।सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥BORI: १-००१-१६॥
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्।संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥BORI: १-००१-१७॥
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान्।यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥BORI: १-००१-१८॥
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः।संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥BORI: १-००१-१९॥
सूत उवाच॥
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते।बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥BORI: १-००१-२७॥
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते।यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥BORI: १-००१-२८॥
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम्।अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥BORI: १-००१-२९॥
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः।ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥BORI: १-००१-३०॥
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्।वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥BORI: १-००१-४६॥
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च।लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ॥BORI: १-००१-४७॥
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च।इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥BORI: १-००१-४८॥
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्।इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥BORI: १-००१-५२॥
तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः । कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत् ॥KUMB: १-१-८०; NILA: ०१.००१.०५५; NILA: ०१.००१.०५६॥
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च । तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम् ॥KUMB: १-१-८१; NILA: ०१.००१.०५६; NILA: ०१.००१.०५७॥
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया । तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः ॥KUMB: १-१-८२; NILA: ०१.००१.०५७; NILA: ०१.००१.०५८॥
आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः ॥KUMB: १-१-८३; NILA: ०१.००१.०५८॥
हिरण्यमर्भमासीनं तस्मिंस्तु परमासने । परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत् ॥KUMB: १-१-८४; NILA: ०१.००१.०५९॥
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना । निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः ॥KUMB: १-१-८५; NILA: ०१.००१.०६०॥
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् । कृतं मयेदं भगवन्काव्यं परमपूजितम् ॥KUMB: १-१-८६; NILA: ०१.००१.०६१॥
ब्रह्मन्वेदरहस्य च यच्चान्यत्स्थापितं मया । साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया ॥KUMB: १-१-८७; NILA: ०१.००१.०६२॥
इतिहासप्रदीपेन मोहावरणघातिना । लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम् ॥KUMB: १-१-१०३; NILA: ०१.००१.०८७॥
संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान् । संभवस्कन्धविस्तारः सभापर्वविटङ्कवान् ॥KUMB: १-१-१०४; NILA: ०१.००१.०८८॥
आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान् । भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् ॥KUMB: १-१-१०५; NILA: ०१.००१.०८९॥
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः । स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः ॥KUMB: १-१-१०६; NILA: ०१.००१.०९०॥
अश्वमेधामृतसस्त्वाश्रमस्थानसंश्रयः । मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः ॥KUMB: १-१-१०७; NILA: ०१.००१.०९१॥
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति । पर्जन्यइव भूतानामक्षयो भारद्रुमः ॥KUMB: १-१-१०८; NILA: ०१.००१.०९२॥
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने. ॥KUMB: १-१-१०९; NILA: ०१.००१.०७४॥
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् । भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह ॥KUMB: १-१-११०; NILA: ०१.००१.०७४॥
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः ॥KUMB: १-१-१११; NILA: ०१.००१.०७५॥
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः । तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः ॥KUMB: १-१-११२; NILA: ०१.००१.०७५; NILA: ०१.००१.०७६॥
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ । लेखको भारतस्यास्य भव त्वं गणनायक ॥ मयैव प्रोच्यमानस्य मनसा कल्पितस्य च ॥KUMB: १-१-११३; NILA: ०१.००१.०७६; NILA: ०१.००१.०७७॥
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम् । लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥KUMB: १-१-११४; NILA: ०१.००१.०७८॥
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् । ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः ॥KUMB: १-१-११५; NILA: ०१.००१.०७९॥
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् । यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम् ॥KUMB: १-१-११६; NILA: ०१.००१.०८०॥
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च । अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा ॥KUMB: १-१-११७; NILA: ०१.००१.०८१॥
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने । भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च ॥KUMB: १-१-११८; NILA: ०१.००१.०८२॥
सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन् । तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि ॥KUMB: १-१-११९; NILA: ०१.००१.०८३॥
तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम् । स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि ॥KUMB: १-१-१२०; NILA: ०१.००१.०९३॥
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥BORI: १-००१-६३॥
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥BORI: १-००१-५७॥
स सदस्यैः सहासीनः श्रावयामास भारतम्।कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥BORI: १-००१-५८॥
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्।उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥BORI: १-००१-६१॥
विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत्।इष्टं हि विदुषां लोके समासव्यासधारणम् ॥BORI: १-००१-४९॥
मन्वादि भारतं केचिदास्तीकादि तथापरे।तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥BORI: १-००१-५०॥
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः।व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥BORI: १-००१-५१॥
ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः।अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥BORI: १-००१-६२॥
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः।मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥BORI: १-००१-५३॥
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥BORI: १-००१-५४॥
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥BORI: १-००१-५५॥
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्।अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥BORI: १-००१-५६॥
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्।क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥BORI: १-००१-५९॥
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥BORI: १-००१-६०॥
नारदोऽश्रावयद्देवानसितो देवलः पितृन्।गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥BORI: १-००१-६४॥
दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः। दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ॥BORI: १-००१-६५॥
युधिष्ठिरे धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥KUMB: १-१-१२९; NILA: ०१.००१.१११॥
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च । अरण्ये मृगयाशीलो न्यवसत्सजनस्तथा ॥KUMB: १-१-१३०; NILA: ०१.००१.११२॥
मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम् । जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥KUMB: १-१-१३१; NILA: ०१.००१.११३॥
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति । धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया ॥KUMB: १-१-१३२॥
ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा । धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया ॥KUMB: १-१-१३३॥
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च । जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः.तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः ॥KUMB: १-१-१३४॥
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च । तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु ॥KUMB: १-१-१३५॥
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति। धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥BORI: १-००१-६९॥
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः। मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥BORI: १-००१-७०॥
माद्र्या तु सह संगम्य ऋषिशापप्रभावतः । मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ ॥॥KUMB: १-१-१३६॥
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम्। शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥BORI: १-००१-७१॥
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः। पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥BORI: १-००१-७२॥
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा। शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥BORI: १-००१-७३॥
आहुः केचिन्न तस्यैते तस्यैत इति चापरे। यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥BORI: १-००१-७४॥
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्।प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥BORI: १-००१-८२॥
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्।आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥BORI: १-००१-८३॥
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान्।आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥BORI: १-००१-८४॥
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः।युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ॥BORI: १-००१-८५॥
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च।घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥BORI: १-००१-८६॥
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः।मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥BORI: १-००१-८७॥
विचित्राणि च वासांसि प्रावारावरणानि च । कम्बलाजिनरत्नानि राङ्कवास्तरणानि च ॥KUMB: १-१-१५४; NILA: ०१.००१.१३३॥
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम्।ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥BORI: १-००१-८८॥
विमानप्रतिमां चापि मयेन सुकृतां सभाम्।पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥BORI: १-००१-८९॥
यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात्।प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥BORI: १-००१-९०॥
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च। कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥BORI: १-००१-९१॥
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः। तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥BORI: १-००१-९२॥
नातिप्रीतमनाः च आसीत् विवादांश् च अन्वमोदत। द्यूतादीन् नयान् घोरान् प्रवृद्धांश् च अपि उपैक्षत ॥BORI: १-००१-९३॥
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम्। विग्रहे तुमुले तस्मिन् अहन् क्षत्रं परस्परम् ॥BORI: १-००१-९४॥
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्। दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेः तथा ॥BORI: १-००१-९५॥
धृतराष्ट्रः चिरं ध्यात्वा सञ्जयं वाक्यम् अब्रवीत् ॥BORI: १-००१-९५॥
शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि। श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥BORI: १-००१-९६॥
न विग्रहे मम मतिः न च प्रीये कुरुक्षये। न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥BORI: १-००१-९७॥
वृद्धं मामभ्यसूयन्ति पुत्रा मन्यु-परायणाः। अहं तु अचक्षुः कार्पण्यात् पुत्र-प्रीत्या सहामि तत् ॥BORI: १-००१-९८॥
मुह्यन्तं च अनुमुह्यामि दुर्योधनम् अचेतनम् ॥BORI: १-००१-९८॥
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः। तच्च अवहसनं प्राप्य सभारोहणदर्शने ॥BORI: १-००१-९९॥
अमर्षितः स्वयं जेतुं अशक्तः पाण्डवान् रणे। निरुत्साहश्च सम्प्राप्तुं श्रियम् अक्षत्रियः यथा ॥BORI: १-००१-१००॥
गान्धारराजसहितः छद्मद्यूतम् अमन्त्रयत् ॥BORI: १-००१-१००॥
तत्र यद्यत् यथा ज्ञातं मया सञ्जय तत् शृणु। श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ॥BORI: १-००१-१०१॥
ततः ज्ञास्यसि मां सौते प्रज्ञा-चक्षुषम् इति उक्तम् ॥BORI: १-००१-१०१॥
यदा अश्रौषम् धनुः आयम्य चित्रम्; विद्धम् लक्ष्यं पातितम् वै पृथिव्याम्। कृष्णां हृतां पश्यतां सर्वराज्ञाम्; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१०२॥
यदा अश्रौषम् द्वारकायां सुभद्रां; प्रसह्य ऊढां माधवीम् अर्जुनेन। इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१०३॥
यदा अश्रौषम् देवराजम् प्रवृष्टम्; शरैः दिव्यैः वारितं च अर्जुनेन। अग्निम् तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१०४॥
यदाऽश्रौषं जातुषाद्वेश्मनस्ता- न्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान् । युक्तं चैषां विदुरं स्वार्थसिद्ध्यै तदा नाशंसे विजयाय संजय ॥KUMB: १-१-१७४; NILA: ०१.००१.१५३॥
यदाऽश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन । शूरान्पञ्चालान्पाण्डवेयांश्च युक्तां- स्तदा नाशंसे विजयाय संजय ॥KUMB: १-१-१७५; NILA: ०१.००१.१५४॥
यदाऽश्रौषं मागधानां वरिष्ठं जरासन्धं क्ष्वमध्ये ज्वलन्तम् । दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय ॥KUMB: १-१-१७६; NILA: ०१.००१.१५५॥
यदाऽश्रौषं दिग्जये पाण्डुपुत्रै- र्वशीकृतान्भूमिपालान्प्रसह्य । महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय ॥KUMB: १-१-१७७; NILA: ०१.००१.१५६॥
यदा अश्रौषम् हृत-राज्यम् युधिष्ठिरम्; पराजितम् सौबलेन अक्षवत्याम्। अन्वागतं भ्रातृभिः अप्रमेयैः; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१०५॥
यदा अश्रौषम् द्रौपदीम् अश्रु-कण्ठीम्; सभाम् नीताम् दुःखिताम् एक-वस्त्राम्। रजस्वलाम् नाथवतीम् अनाथवत्; तदा न अशंसे विजयाय सञ्जय ॥BORI: १-००१-१०६॥
यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः । दुःशासनो गतवान्नैवं चान्तं तदा नाशंसे विजयाय संजय ॥KUMB: १-१-१७९; NILA: ०१.००१.१५८॥
यदा अश्रौषम् विविधाः तात चेष्टाः; धर्मात्मनां प्रस्थितानां वनाय। ज्येष्ठ-प्रीत्या क्लिश्यतां पाण्डवानां; तदा न अशंसे विजयाय सञ्जय ॥BORI: १-००१-१०७॥
यदा अश्रौषम् स्नातकानां सहस्रैः; अन्वागतं धर्मराजं वनस्थम्। भिक्षा-भुजां ब्राह्मणानां महात्मनाम्; तदा न अशंसे विजयाय सञ्जय ॥BORI: १-००१-१०८॥
यदाऽश्रौषं वनवासेन पार्था- न्समागतान्महर्षिभिः पुराणैः । उपास्यमानान्सगणैर्जातसख्यां- स्तदा नाशंसे विजयाय संजर्य ॥॥KUMB: १-१-१८४॥
यदा अश्रौषम् अर्जुनः देव-देवम्; किरात-रूपम् त्र्यम्बकम् तोष्य युद्धे। अवाप तत् पाशुपतं महास्त्रं; तदा न अशंसे विजयाय सञ्जय ॥BORI: १-००१-१०९॥
यदा अश्रौषम् त्रिदिवस्थम् धनञ्जयम्; शक्रात् साक्षात् दिव्यमस्त्रं यथावत्। अधीयानं शंसितं सत्यसन्धम्; तदा न अशंसे विजयाय सञ्जय ॥BORI: १-००१-११०॥
यदाऽश्रोषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः । देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय ॥KUMB: १-१-१८६; NILA: ०१.००१.१६४॥
यदाऽश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम् । कृतार्थं चाप्यागतं शक्रलोका- त्तदा नाशंसे विजयाय संजय ॥KUMB: १-१-१८७; NILA: ०१.००१.१६५॥
यदाऽश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन । बृहदश्वादक्षहृदयं च प्राप्तं तदा नाशंसे विजयाय संजय ॥॥KUMB: १-१-१८८॥
यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान्। तस्मिन् देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१११॥
यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैः मोक्षणं च अर्जुनेन। स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-११२॥
यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत। प्रश्नानुक्तान्विब्रुवन्तं च सम्यक्; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-११३॥
यदाऽश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान् । विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय ॥KUMB: १-१-१९२; NILA: ०१.००१.१६९॥
यदाऽश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम् । द्रौपद्यर्थे भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय संजय ॥॥KUMB: १-१-१९३॥
यदाश्रौषं मामकानां वरिष्ठान्; धनञ्जयेनैकरथेन भग्नान्। विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-११४॥
यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम् उत्तराम् अर्जुनाय। तां च अर्जुनः प्रत्यगृह्णात् सुतार्थे; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-११५॥
यदाश्रौषं निर्जितस्य अधनस्य; प्रव्राजितस्य स्वजनात् प्रच्युतस्य। अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-११६॥
यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतः नारदस्य। अहं द्रष्टा ब्रह्मलोके सदा इति; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-११७॥
यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम्। यस्य इमां गां विक्रमम् एकम् आहु; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-११८॥
यदाऽश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम् । शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय संजय ॥१९९ ॥KUMB: १-१-१९९; NILA: ०१.००१.१७५॥
यदाश्रौषं कर्ण-दुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य। तं च आत्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-११९॥
यदाश्रौषं वासुदेवे प्रयाते; रथस्य एकाम् अग्रतः तिष्ठमानाम्। आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१२०॥
यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शान्तनवं च तेषाम्। भारद्वाजं च आऽशिषः अनुब्रुवाणं; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१२१॥
यदाश्रौषं कर्ण उवाच भीष्मं; न अहं योत्स्ये युध्यमाने त्वयि इति। हित्वा सेनाम् अपचक्राम चैव; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१२२॥
यदाश्रौषं वासुदेव-अर्जुनौ तौ; तथा धनुः गाण्डिवम् अप्रमेयम्। त्रीणि उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१२३॥
यदाश्रौषं कश्मलेन अभिपन्ने; रथ-उपस्थे सीदमाने अर्जुने वै। कृष्णं लोकान् दर्शयानं शरीरे; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१२४॥
यदाश्रौषं भीष्मम् अमित्रकर्शनं; निघ्नन्तम् आजावयुतं रथानाम्। नैषां कश्चित् वध्यते दृश्य-रूपः; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१२५॥
यदाऽश्रौषं चापगेयेन सङ्ख्ये स्वयं मृत्युं विहितं धार्मिकेण । तच्चाकार्षुः पाण्डवेयाः प्रहृष्टा- स्तदा नाशंसे विजयाय संजय ॥KUMB: १-१-२०७; NILA: ०१.००१.१८३॥
यदाश्रौषं भीष्मम् अत्यन्त-शूरं; हतं पार्थेन आहवेषु अप्रधृष्यम्। शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१२६॥
यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः। भीष्मं कृत्वा सोमकान् अल्पशेषान्; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१२७॥
यदाश्रौषं शान्तनवे शयाने; पानीयार्थे चोदितेन अर्जुनेन। भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१२८॥
यदाश्रौषं शुक्र-सूर्यौ च युक्तौ; कौन्तेयानाम् अनुलोमौ जयाय। नित्यं च अस्मान् श्वापदाः व्याभषन्त; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१२९॥
यदा द्रोणः विविधान् अस्त्रमार्गान्; विदर्शयन् समरे चित्रयोधी। न पाण्डवान् श्रेष्ठतमान् निहन्ति; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१३०॥
यदाश्रौषं च अस्मदीयान् महारथान्; व्यवस्थितान् अर्जुनस्य अन्तकाय। संशप्तकान् निहतान् अर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१३१॥
यदाश्रौषं व्यूहम् अभेद्यम् अन्यैः; भारद्वाजेन आत्त-शस्त्रेण गुप्तम्। भित्त्वा सौभद्रं वीरम् एकं प्रविष्टं; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१३२॥
यदा अभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्ट-रूपा बभूवुः। महारथाः पार्थम् अशक्नुवन्त; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१३३॥
यदाश्रौषं अभिमन्युं निहत्य; हर्षात् मूढान् क्रोशतः धार्तराष्ट्रान्। क्रोधं मुक्तं सैन्धवे च अर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१३४॥
यदाश्रौषं सैन्धव-अर्थे प्रतिज्ञाम्; प्रतिज्ञाताम् तद्वधाय अर्जुनेन। सत्याम् निस्तीर्णाम् शत्रु-मध्ये च तेन; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१३५॥
यदाश्रौषं श्रान्त-हये धनञ्जये; मुक्त्वा हयान् पाययित्वा उपवृत्तान्। पुनः युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१३६॥
यदाश्रौषं वाहनेषु आश्वसत्सु; रथ-उपस्थे तिष्ठता गाण्डिवेन। सर्वान् योधान् वारितान् अर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१३७॥
यदाश्रौषं नागबलैः दुरुत्सहं; द्रोण-आनीकं युयुधानं प्रमथ्य। यातं वार्ष्णेयं यत्र तौ कृष्ण-पार्थौ; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१३८॥
यदाश्रौषं कर्णम् आसाद्य मुक्तं; वधात् भीमं कुत्सयित्वा वचोभिः। धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१३९॥
यदा द्रोणः कृतवर्मा कृपश्च; कर्णः द्रौणिः मद्रराजश्च शूरः। अमर्षयन् सैन्धवं वध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१४०॥
यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन। घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१४१॥
यदाश्रौषं कर्ण-घटोत्कचाभ्याम्; युद्धे मुक्तां सूतपुत्रेण शक्तिम्। यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१४२॥
यदाश्रौषं द्रोणम् आचार्यम् एकं; धृष्टद्युम्नेन अति-क्रम्य धर्मम्। रथ-उपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१४३॥
यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये। समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१४४॥
यदा द्रोणे निहते द्रोणपुत्रः; नारायणं दिव्यमस्त्रं विकुर्वन्। नैषां अन्तं गतवान् पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१४५॥
यदाऽश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य । निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय ॥KUMB: १-१-२२८; NILA: ०१.००१.२०४॥
यदाश्रौषं कर्णम् अत्यन्त-शूरं; हतं पार्थेन आहवेषु अप्रधृष्यम्। तस्मिन् भ्रातृणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१४६॥
यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणम् उग्रम्। युधिष्ठिरं शून्यम् अधर्षयन्तम्; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१४७॥
यदाश्रौषं निहतम् मद्रराजं; रणे शूरं धर्मराजेन सूत। सदा सङ्ग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१४८॥
यदाश्रौषं कलह-द्यूत-मूलं; माया-बलं सौबलं पाण्डवेन। हतम् सङ्ग्रामे सहदेवेन पापम्; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१४९॥
यदाश्रौषं श्रान्तम् एकं शयानं; ह्रदम् गत्वा स्तम्भयित्वा तत् अम्भः। दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१५०॥
यदाश्रौषं पाण्डवाँस् तिष्ठमानान्; गङ्गा-ह्रदे वासुदेवेन सार्धम्। अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१५१॥
यदाश्रौषं विविधान् तात मार्गान्; गदायुद्धे मण्डलं सञ्चरन्तम्। मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१५२॥
यदाश्रौषं द्रोणपुत्रादिभिः तैः; हतान् पाञ्चालान् द्रौपदेयान् च सुप्तान्। कृतं बीभत्सम अयशस्यं च कर्म; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१५३॥
यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम्। क्रुद्धेन ऐषीकम् अवधीद् येन गर्भं; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१५४॥
यदाश्रौषं ब्रह्मशिरः अर्जुनेन; मुक्तं स्वस्ति इति अस्त्रम् अस्त्रेण शान्तम्। अश्वत्थाम्ना मणि-रत्नं च दत्तम्; तदा नाशंसे विजयाय सञ्जय ॥BORI: १-००१-१५५॥
यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्याया वै पात्यमाने महास्त्रे। द्वैपायनः केशवः द्रोणपुत्रं; परस्परेण अभिशापैः शशाप ॥BORI: १-००१-१५६॥
यदाऽश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः । संजीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय संजय ॥KUMB: १-१-२३९॥
द्वैपायनः केशवो द्रोणपुत्रं परस्पेरणाभिशापैः शशाप । बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत संतप्ये वै पुत्रपौत्रैश्च हीनः ॥KUMB: १-१-२४०॥
शोच्याः गान्धारी पुत्रपौत्रैः विहीना; तथा वध्वः पितृभिः भ्रातृभिः च। कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यं असपत्नं पुनः तैः ॥BORI: १-००१-१५७॥
कष्टं युद्धे दश शेषाः श्रुताः मे; त्रयः अस्माकं पाण्डवानां च सप्त। द्वि-ऊना विंशतिः आहत-अक्षौहिणीनां; तस्मिन् संग्रामे विग्रहे क्षत्रियाणाम् ॥BORI: १-००१-१५८॥
तमसा तु अभ्यवस्तीर्णो; मोहः आविशतीव माम्। सञ्ज्ञां न उपलभे सूत; मनः विह्वलतीव मे ॥BORI: १-००१-१५९॥
इति उक्त्वा धृतराष्ट्रः अथ; विलप्य बहु-दुःखितः। मूर्च्छितः पुनः आश्वस्तः; सञ्जयं वाक्यम् अब्रवीत् ॥BORI: १-००१-१६०॥
सञ्जय एवम् गते प्राणान् त्यक्तुम् इच्छामि मा चिरम्। स्तोकम् हि अपि न पश्यामि फलम् जीवित-धारणे ॥BORI: १-००१-१६१॥
तं तथा वादिनं दीनं विलपन्तं महीपतिम् । निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः ॥KUMB: १-१-२४६; NILA: ०१.००१.२२१॥
तं तथा वादिनं दीनं विलपन्तं महीपतिम्। गावल्गणिः इदं धीमान् महार्थं वाक्यम् अब्रवीत् ॥BORI: १-००१-१६२॥
तव पुत्राः दुरात्मानः प्रतप्ताः च एव मन्युना। लुब्धाः दुर्वृत्त-भूयिष्ठाः न तान् शोचितुम् अर्हसि ॥BORI: १-००१-१८३॥
श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञ-सम्मतः। येषां शास्त्र-अनुगा बुद्धिः न ते मुह्यन्ति भारत ॥BORI: १-००१-१८४॥
निग्रह-अनुग्रहौ च अपि विदितौ ते नराधिप। न अत्यन्तम् एव अनुवृत्तिः श्रूयते पुत्र-रक्षणे ॥BORI: १-००१-१८५॥
भवितव्यं तथा तत् च; न अतः शोचितुम् अर्हसि। दैवं प्रज्ञा-विशेषेण; कः निवर्तितुम् अर्हति ॥BORI: १-००१-१८६॥
विधातृ-विहितं मार्गं; न कश्चित् अति वर्तते। काल-मूलम् इदं सर्वं; भाव-अभावौ सुख-असुखे ॥BORI: १-००१-१८७॥
कालः पचति भूतानि; कालः संहरति प्रजाः। निर्दहन्तं प्रजाः कालं; कालः शमयते पुनः ॥BORI: १-००१-१८८॥
कालः विकुरुते भावान्; सर्वान् लोके शुभ-अशुभान्। कालः सङ्क्षिपते सर्वाः; प्रजाः विसृजते पुनः ॥BORI: १-००१-१८९॥
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः । कालः सर्वेषु भूतेषु चरत्यविधतः समः ॥KUMB: १-१-२७५; NILA: ०१.००१.२५०॥
कालः सर्वेषु भूतेषु; चरति अविधृतः समः ॥BORI: १-००१-१८९॥
सूत उवाच॥
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् । आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा ॥KUMB: १-१-२७७; NILA: ०१.००१.२५२॥
धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत् । दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः ॥KUMB: १-१-२७८॥
तपः न कल्कः अध्ययनं न कल्कः। स्वाभाविकः वेदविधिः न कल्कः। प्रसह्य वित्त-ाहरणं न कल्कः; तानि एव भाव-उपहतानि कल्कः ॥BORI: १-००१-२१०॥
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः । भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ॥BORI: १-००२-३३॥
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः । पौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥BORI: १-००२-३४॥
ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् । दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥BORI: १-००२-३५॥
ततो बकवधः पर्व पर्व चैत्ररथं ततः । ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥BORI: १-००२-३६॥
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् । विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥BORI: १-००२-३७॥
अर्जुनस्य वने वासः सुभद्राहरणं ततः । सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥BORI: १-००२-३८॥
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् । सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥BORI: १-००२-३९॥
जरासन्धवधः पर्व पर्व दिग्विजयस्तथा । पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥BORI: १-००२-४०॥
ततश्चार्घाभिहरणं शिशुपालवधस्ततः । द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥BORI: १-००२-४१॥
तत आरण्यकं पर्व किर्मीरवध एव च । ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ॥BORI: १-००२-४२॥
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् । तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥BORI: १-००२-४३॥
जटासुरवधः पर्व यक्षयुद्धमतः परम् । तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥BORI: १-००२-४४॥
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् । संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥BORI: १-००२-४५॥
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः । व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥BORI: १-००२-४६॥
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः । कुण्डलाहरणं पर्व ततः परमिहोच्यते ॥BORI: १-००२-४७॥
आरणेयं ततः पर्व वैराटं तदनन्तरम् । कीचकानां वधः पर्व पर्व गोग्रहणं ततः ॥BORI: १-००२-४८॥
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् । उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ॥BORI: १-००२-४९॥
ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् । प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥BORI: १-००२-५०॥
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् । यानसन्धिस्ततः पर्व भगवद्यानमेव च ॥BORI: १-००२-५१॥
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः । निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ॥BORI: १-००२-५२॥
रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् । उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥BORI: १-००२-५३॥
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् । भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ॥BORI: १-००२-५४॥
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् । भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ॥BORI: १-००२-५५॥
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः । द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ॥BORI: १-००२-५६॥
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते । जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥BORI: १-००२-५७॥
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् । मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥BORI: १-००२-५८॥
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् । ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥BORI: १-००२-५९॥
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् । अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ॥BORI: १-००२-६०॥
ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् । जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ॥BORI: १-००२-६१॥
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् । आभिषेचनिकं पर्व धर्मराजस्य धीमतः ॥BORI: १-००२-६२॥
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः । प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥BORI: १-००२-६३॥
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् । आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥BORI: १-००२-६४॥
ततः पर्व परिज्ञेयमानुशासनिकं परम् । स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ॥BORI: १-००२-६५॥
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् । अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥BORI: १-००२-६६॥
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च । नारदागमनं पर्व ततः परमिहोच्यते ॥BORI: १-००२-६७॥
मौसलं पर्व च ततो घोरं समनुवर्ण्यते । महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥BORI: १-००२-६८॥
हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् । भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ॥BORI: १-००२-६९॥
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना । यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ॥BORI: १-००२-७०॥
कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु । समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ॥BORI: १-००२-७१॥
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् । पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ॥BORI: १-००२-७२॥
आस्तीके सर्वनागानां गरुडस्य च सम्भवः । क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ॥BORI: १-००२-७३॥
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च । कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ॥BORI: १-००२-७४॥
विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि । अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ॥BORI: १-००२-७५॥
अंशावतरणं चात्र देवानां परिकीर्तितम् । दैत्यानां दानवानां च यक्षाणां च महौजसाम् ॥BORI: १-००२-७६॥
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् । अन्येषां चैव भूतानां विविधानां समुद्भवः ॥BORI: १-००२-७७॥
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् । शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ॥BORI: १-००२-७८॥
तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः । राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ॥BORI: १-००२-७९॥
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च । हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥BORI: १-००२-८०॥
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् । धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ॥BORI: १-००२-८१॥
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा । धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ॥BORI: १-००२-८२॥
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च । विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ॥BORI: १-००२-८३॥
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् । घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ॥BORI: १-००२-८४॥
अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि । बकस्य निधनं चैव नागराणां च विस्मयः ॥BORI: १-००२-८५॥
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा । भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ॥BORI: १-००२-८६॥
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् । पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ॥BORI: १-००२-८७॥
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च । द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ॥BORI: १-००२-८८॥
विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च । खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ॥BORI: १-००२-८९॥
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया । सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥BORI: १-००२-९०॥
पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः । पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥BORI: १-००२-९१॥
द्वारकायां सुभद्रा च कामयानेन कामिनी । वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥BORI: १-००२-९२॥
हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने । सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥BORI: १-००२-९३॥
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः । मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् । महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः ॥BORI: १-००२-९४॥
इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम् । अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा । अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥BORI: १-००२-९५॥
सप्त श्लोकसहस्राणि तथा नव शतानि च । श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ॥BORI: १-००२-९६॥
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ॥BORI: १-००२-९७॥
लोकपालसभाख्यानं नारदाद्देवदर्शनात् । राजसूयस्य चारम्भो जरासन्धवधस्तथा ॥BORI: १-००२-९८॥
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् । राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥BORI: १-००२-९९॥
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च । दुर्योधनस्यावहासो भीमेन च सभातले ॥BORI: १-००२-१००॥
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥BORI: १-००२-१०१॥
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् । तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः । पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥BORI: १-००२-१०२॥
एतत्सर्वं सभापर्व समाख्यातं महात्मना । अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया ॥BORI: १-००२-१०३॥
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च । श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥BORI: १-००२-१०४॥
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् । पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥BORI: १-००२-१०५॥
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः । यत्र सौभवधाख्यानं किर्मीरवध एव च । अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥BORI: १-००२-१०६॥
महादेवेन युद्धं च किरातवपुषा सह । दर्शनं लोकपालानां स्वर्गारोहणमेव च ॥BORI: १-००२-१०७॥
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः । युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥BORI: १-००२-१०८॥
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् । दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥BORI: १-००२-१०९॥
वनवासगतानां च पाण्डवानां महात्मनाम् । स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥BORI: १-००२-११०॥
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् । जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥BORI: १-००२-१११॥
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने । यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥BORI: १-००२-११२॥
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः । यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥BORI: १-००२-११३॥
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् । लोपामुद्राभिगमनमपत्यार्थमृषेरपि ॥BORI: १-००२-११४॥
ततः श्येनकपोतीयमुपाख्यानमनन्तरम् । इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥BORI: १-००२-११५॥
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥BORI: १-००२-११६॥
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते । सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥BORI: १-००२-११७॥
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ । ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥BORI: १-००२-११८॥
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः । पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥BORI: १-००२-११९॥
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् । विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥BORI: १-००२-१२०॥
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना । निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥BORI: १-००२-१२१॥
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने । घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ॥BORI: १-००२-१२२॥
पुनरागमनं चैव तेषां द्वैतवनं सरः । जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥BORI: १-००२-१२३॥
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे । मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥BORI: १-००२-१२४॥
संदर्शनं च कृष्णस्य संवादश्चैव सत्यया । व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥BORI: १-००२-१२५॥
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च । रामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥BORI: १-००२-१२६॥
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् । आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् । जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥BORI: १-००२-१२७॥
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् । अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा । एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥BORI: १-००२-१२८॥
एकादश सहस्राणि श्लोकानां षट्शतानि च । चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ॥BORI: १-००२-१२९॥
अतः परं निबोधेदं वैराटं पर्वविस्तरम् । विराटनगरं गत्वा श्मशाने विपुलां शमीम् । दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥BORI: १-००२-१३०॥
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते । दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥BORI: १-००२-१३१॥
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि । गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥BORI: १-००२-१३२॥
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः । अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥BORI: १-००२-१३३॥
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । अत्रापि परिसङ्ख्यातमध्यायानां महात्मना ॥BORI: १-००२-१३४॥
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु । श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु । पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा ॥BORI: १-००२-१३५॥
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् । उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया । दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥BORI: १-००२-१३६॥
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति । इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥BORI: १-००२-१३७॥
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ । अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥BORI: १-००२-१३८॥
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः । अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ॥BORI: १-००२-१३९॥
सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति । यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥BORI: १-००२-१४०॥
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् । प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥BORI: १-००२-१४१॥
विदुरो यत्र वाक्यानि विचित्राणि हितानि च । श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥BORI: १-००२-१४२॥
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् । मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥BORI: १-००२-१४३॥
प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः । ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥BORI: १-००२-१४४॥
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः । स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥BORI: १-००२-१४५॥
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै । शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥BORI: १-००२-१४६॥
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् । योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥BORI: १-००२-१४७॥
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥BORI: १-००२-१४८॥
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् । नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च ॥BORI: १-००२-१४९॥
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति । श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना । रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च ॥BORI: १-००२-१५०॥
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते । उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् ॥BORI: १-००२-१५१॥
अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम् । श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ॥BORI: १-००२-१५२॥
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना । व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥BORI: १-००२-१५३॥
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते । जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ॥BORI: १-००२-१५४॥
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् । यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥BORI: १-००२-१५५॥
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः । मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ॥BORI: १-००२-१५६॥
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः । विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥BORI: १-००२-१५७॥
षष्ठमेतन्महापर्व भारते परिकीर्तितम् । अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ॥BORI: १-००२-१५८॥
पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च । श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः । व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ॥BORI: १-००२-१५९॥
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते । यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ॥BORI: १-००२-१६०॥
भगदत्तो महाराजो यत्र शक्रसमो युधि । सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥BORI: १-००२-१६१॥
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः । जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ॥BORI: १-००२-१६२॥
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः । संशप्तकावशेषं च कृतं निःशेषमाहवे ॥BORI: १-००२-१६३॥
अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् । सौमदत्तिर्विराटश्च द्रुपदश्च महारथः । घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥BORI: १-००२-१६४॥
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते । अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥BORI: १-००२-१६५॥
सप्तमं भारते पर्व महदेतदुदाहृतम् । अत्र ते पृथिवीपालाः प्रायशो निधनं गताः । द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥BORI: १-००२-१६६॥
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा । अष्टौ श्लोकसहस्राणि तथा नव शतानि च ॥BORI: १-००२-१६७॥
श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना । पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ॥BORI: १-००२-१६८॥
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् । सारथ्ये विनियोगश्च मद्रराजस्य धीमतः । आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥BORI: १-००२-१६९॥
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः । हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ॥BORI: १-००२-१७०॥
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः । द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ॥BORI: १-००२-१७१॥
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि । चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥BORI: १-००२-१७२॥
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् । हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ॥BORI: १-००२-१७३॥
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः । विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥BORI: १-००२-१७४॥
शल्यस्य निधनं चात्र धर्मराजान्महारथात् । गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् । सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥BORI: १-००२-१७५॥
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् । एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः ॥BORI: १-००२-१७६॥
सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते । त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा । मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ॥BORI: १-००२-१७७॥
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् । भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥BORI: १-००२-१७८॥
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः । कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥BORI: १-००२-१७९॥
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः । अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् । पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ॥BORI: १-००२-१८०॥
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः । पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ॥BORI: १-००२-१८१॥
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् । सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ॥BORI: १-००२-१८२॥
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता । कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् ॥BORI: १-००२-१८३॥
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः । अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ॥BORI: १-००२-१८४॥
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः । अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ॥BORI: १-००२-१८५॥
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः । यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥BORI: १-००२-१८६॥
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः । तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ॥BORI: १-००२-१८७॥
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः । सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ॥BORI: १-००२-१८८॥
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना । श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ॥BORI: १-००२-१८९॥
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया । सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना ॥BORI: १-००२-१९०॥
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् । विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः । क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥BORI: १-००२-१९१॥
यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः । पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे ॥BORI: १-००२-१९२॥
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः । राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥BORI: १-००२-१९३॥
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् । सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ॥BORI: १-००२-१९४॥
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते । सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना । प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ॥BORI: १-००२-१९५॥
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् । यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः । घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान् ॥BORI: १-००२-१९६॥
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः । राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ॥BORI: १-००२-१९७॥
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः । यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् । मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥BORI: १-००२-१९८॥
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् । पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् । त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ॥BORI: १-००२-१९९॥
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश । पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ॥BORI: १-००२-२००॥
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् । यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् । भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥BORI: १-००२-२०१॥
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः । विविधानां च दानानां फलयोगाः पृथग्विधाः ॥BORI: १-००२-२०२॥
तथा पात्रविशेषाश्च दानानां च परो विधिः । आचारविधियोगश्च सत्यस्य च परा गतिः ॥BORI: १-००२-२०३॥
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् । भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ॥BORI: १-००२-२०४॥
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् । अध्यायानां शतं चात्र षट्चत्वारिंशदेव च । श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥BORI: १-००२-२०५॥
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् । तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ॥BORI: १-००२-२०६॥
सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः । दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ॥BORI: १-००२-२०७॥
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः । तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥BORI: १-००२-२०८॥
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः । सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः । अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥BORI: १-००२-२०९॥
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् । अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ॥BORI: १-००२-२१०॥
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥BORI: १-००२-२११॥
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् । यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः । धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ॥BORI: १-००२-२१२॥
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा । पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥BORI: १-००२-२१३॥
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् । लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ॥BORI: १-००२-२१४॥
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् । त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥BORI: १-००२-२१५॥
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः । सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥BORI: १-००२-२१६॥
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः । नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥BORI: १-००२-२१७॥
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् । द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ॥BORI: १-००२-२१८॥
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च । षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥BORI: १-००२-२१९॥
अतः परं निबोधेदं मौसलं पर्व दारुणम् । यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि । ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥BORI: १-००२-२२०॥
आपाने पानगलिता दैवेनाभिप्रचोदिताः । एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥BORI: १-००२-२२१॥
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ । नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ॥BORI: १-००२-२२२॥
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् । दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥BORI: १-००२-२२३॥
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः । ददर्श यदुवीराणामापाने वैशसं महत् ॥BORI: १-००२-२२४॥
शरीरं वासुदेवस्य रामस्य च महात्मनः । संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥BORI: १-००२-२२५॥
स वृद्धबालमादाय द्वारवत्यास्ततो जनम् । ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥BORI: १-००२-२२६॥
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् । नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥BORI: १-००२-२२७॥
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः । धर्मराजं समासाद्य संन्यासं समरोचयेत् ॥BORI: १-००२-२२८॥
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् । अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥BORI: १-००२-२२९॥
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् । यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः । द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥BORI: १-००२-२३०॥
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥BORI: १-००२-२३१॥
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् । अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया । श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ॥BORI: १-००२-२३२॥
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः । खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ॥BORI: १-००२-२३३॥
एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया । तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ॥BORI: १-००२-२३४॥
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः । न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥BORI: १-००२-२३५॥
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते । पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥BORI: १-००२-२३६॥
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः । पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥BORI: १-००२-२३७॥
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः । अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥BORI: १-००२-२३८॥
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः । इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ॥BORI: १-००२-२३९॥
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । आहारमनपाश्रित्य शरीरस्येव धारणम् ॥BORI: १-००२-२४०॥
इदं सर्वैः कविवरैराख्यानमुपजीव्यते । उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥BORI: १-००२-२४१॥
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च । यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ॥BORI: १-००२-२४२॥
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण । श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ॥BORI: १-००२-२४३॥