Adi Parva TOC from Kumbhaghonam Version
१. अनुक्रमणिकापर्व॥१॥आदौ मङ्गलाचरणं॥१॥नैमिशारण्ये दीर्घसत्रे शौनकादीन्प्रति सौतेरागमनम्॥२॥तत्र शौनकादिभिः सौतिं प्रति भारतकथनचोदना॥३॥सौतिना श्रीमन्नारायणनमस्कारपूर्वकं व्यासस्य भारतनिर्माणकथनम्॥४॥पर्वानुक्रमणिका॥५॥
२. अथ पर्वसंग्रहपर्व॥२॥समन्तपञ्चकाख्यानं॥१॥अक्षौहिण्यादिपरिमाण॥२॥आदिपर्वादिसर्वपर्वणां संक्षेपेण वृत्तान्तकथनं॥३॥नारतश्रवणफलकथनं॥४॥
३. अथ पौष्यपर्व॥३॥जनमेजयं प्रति सरमाख्यदवेशुनीशापः॥१॥शापनिवारणार्थमृषेः सोमश्रवसः पौरोहित्येन वरणम्॥२॥आरुण्युपमन्युबैदाख्यानां धौम्यशिष्याणामुपाख्यानम्॥३॥बैदशिष्यस्योत्तङ्कस्योपाख्यानम्॥४॥पौष्यस्य राज्ञ उपाख्यानम्॥५॥
४. अथ पौलोमपर्व॥४॥
५. भृगुवंशकथनम्॥१॥पौलोमोपाख्यानम्॥२॥पुलोमापहारः॥३॥पुलोमाग्निसंवादः॥४॥
६. च्यवनोत्पत्ती रक्षोविनाशश्च॥१॥अग्नेर्भृगुशापः॥२॥
७. क्रोधेनाग्निकृत आत्मोपसंहारः॥१॥ब्रह्मोक्तसान्त्ववचनेनाग्नेः संतोषः॥२॥
८. रुरुचरितं॥१॥मेन्कात्मजायाः प्रमद्वरायाः रुरुणा सह विवाहप्रसङ्गः॥२॥प्रमद्वरायाः सर्पदंशेन रुरोर्दुःखम्॥३॥
९. देवदूतवचनेन रुरुकृतस्वार्धायुः प्रदानेन प्रमद्वराजीवनं तया सह रुरोर्विवाहश्च॥१॥
१०. रुरुडुण्डुभसंवादः॥१॥
११. डुण्डुभचरितम्॥१॥
१२. जनमेजयसर्पसन्नप्रस्तावः॥१॥
१३. आस्तीकजरत्कार्वोराख्यानं॥१॥जरत्कारोस्तत्पितॄणां च संवादः॥२॥
१४. वासुकिभगिन्या जरत्कारोर्विवाहः॥१॥
१५. आस्तीकोत्पत्तिः॥१॥संक्षेपेण सर्पमोचनवृत्तान्तश्च॥२॥
१६. आस्तीकाख्यानविस्तरः॥१॥कद्रूविनतयोः कश्यपाद्वरलाभः॥२॥कद्र्वाः सर्पोत्पत्तिर्विनताया अरुणोत्पत्तिश्च॥३॥
१७. अमृतमथनविषये भगवदाज्ञया देवानां विचारः॥१॥
१८. मोहितैर्दैत्यैर्मोहिन्या अमृतकलशदानम्॥१॥
१९. देवानाममृतपानं॥१॥देवरूपेणामृतं पिबतो राहोः शिरश्छेदनं॥२॥देवदैत्ययोर्युद्धं। तत्र दैत्यपराजयः॥३॥
२०. कद्रूविनतयोः पणबन्धः॥१॥सर्पाणां कद्रूशापः॥२॥ब्रह्मणा कश्यपाय विषहरविद्यादानं॥३॥
२१. उच्चैःश्रवसो दर्शार्थं कद्रूविनतयोर्गमनम्॥१॥
२२. सर्पौर्मातृवचनादुच्चैःश्रवःपुच्छवेष्टनम्॥१॥
२३. गरुडोत्पत्तिः॥१॥देवकृतस्तुत्या गरुडकृतं स्वतेजस्संहरणम्॥२॥
२४. राहुणा कृतोपद्रवस्य सूर्यस्य क्रोधः॥१॥ब्रह्माज्ञयाऽरुणस्य सूर्यसारथ्यकरणम्॥२॥
२५. विनतया कद्रूवहनं गरुडेन सर्पवहनं च॥१॥सूर्यातपतप्तस्वपुत्ररक्षार्थं कद्रूकृत इन्द्रस्तवः॥२॥
२६. स्तुत्या तुष्टेन इन्द्रेण कृतं जलवर्षणम्॥१॥
२७. गरुडस्य विनतां प्रति दास्यकारणप्रश्नः॥१॥सर्पैः दास्यमोचनोपायकथनम्॥२॥
२८. अमृताहरणार्थं गच्छतो गरुडस्य मक्ष्ययाचनम्॥१॥ब्राह्मणवर्जं समुद्रकुक्षिस्थनिषादभक्षणे विनताया अनुज्ञा॥२॥
२९. कण्ठं दहतो ब्राह्मणस्य विषादीसहितस्य परित्राणम्॥१॥गरुडस्य कश्यपेन संवादः॥२॥गजकच्छपपूर्ववृत्तान्तकथनम्॥३॥कश्यपाज्ञया गरुडस्य गजकच्छपग्रहणम्॥४॥रोहिणवृक्षशाखाभङ्गः॥५॥
३०. भग्नशाखाया अधोभागे लम्बमानवालखिल्यरक्षणार्थं मुखेन शाखाग्रहणम्।॥१॥ कश्यपाज्ञया हिमालयं गत्वा तत्र शाखां परित्यज्य तत्रैव स्थित्वा गजकच्छपभक्षणम्।॥२॥ उत्पातान्दृष्ट्वा देवैः कृतोऽमृतरक्षणोपायः।॥३॥
३१. वालखिल्यतपसा गरुडोत्पत्तिकथनपूर्वकं तस्य पक्षीन्द्रत्वेऽभिषेचनम्॥१॥
३२. देवगरुडयुद्धं तत्र देवानां पराजयः॥१॥
३३. अमृतसमीपे गरुडस्य गमनम्॥१॥अमृतं गृहीत्वा गच्छतो गरुडस्य विष्णुदर्शनम्॥२॥विष्णुगरुडयोः परस्परं वरदानम्॥३॥गरुडस्य सुपर्णनामप्राप्तिः॥४॥
३४. इन्द्रस्य गरुडसख्यलाभः॥१॥इन्द्राद्गरुडस्य वरलाभः॥२॥विनताया दास्यमोचनम्॥३॥सर्पाणां द्विजिह्वत्वप्राप्तिः॥४॥
३५. सर्पनामकथनम्॥१॥
३६. शेषस्य ब्रह्मणो वरलाभः पृथ्वीधारणाज्ञा च॥१॥
३७. मातृशापपरिहारार्थं सर्पाणां मन्त्रालोचनम्॥१॥
३८. एलापत्रभाषणम्॥१॥देवब्रह्मसंवादमुखेनास्तीकोत्पत्तिकथनम्॥२॥
३९. एलापत्रोपदेशेन वासुकिभगिन्या जरत्कार्वा रक्षणम्॥१॥
४०. जरत्कारुनामव्युत्पत्तिकथनम्॥१॥शौनकस्य सौतिं प्रति आस्तीकोत्पत्तिप्रश्नः॥२॥प्रसङ्गेन परीक्षिन्मृगयाकथनम्॥३॥परीक्षिता शमीकस्कन्धे मृतसर्पनिधानम्॥४॥
४१. मुनिपुत्राच्छृङ्गिणः परीक्षितः शापः॥१॥
४२. शृङ्गिशमीकसवादः॥१॥शमीकप्रेषितेन गौरमुखाख्यशिष्येण सह परिक्षित्संवादः॥२॥मन्त्रिभिः सह राज्ञं विचारः॥३॥तक्षककाश्यपसंवादः॥४॥
४३. स्वदष्टन्यग्रोधोज्जीवनेन परीक्षितस्य काश्यपस्य धनं दत्वा तक्षकेण कृतं परावर्तनं परीक्षिद्दंशश्च॥१॥
४४. परीक्षिन्मरणोत्तरं तत्पुत्रस्य जनमेजयस्य राज्याभिषेकः॥१॥वपुष्टमाविवाहः॥२॥
४५. जरत्कारोः स्वपितॄणां दर्शनं तद्भाषणं च॥१॥
४६. जरत्कारोः स्वपितृसंवादानन्तरं दारान्वेषणम्॥१॥
४७. जरत्कारोरुद्वाहः॥१॥तस्यां गर्भसंभवः॥२॥समयोल्लङ्घनेन क्रुद्धस्य मुनेः तपोर्थं गमनम्॥३॥
४८. वासुकेः तद्भगिन्याश्च संवादः॥१॥आस्तीकोत्पत्तिः॥२॥तन्नामनिर्वचनम्॥३॥
४९. जनमेजयमन्त्रिसंवादमुखेन पुनः परीक्षिच्चरितकथनम्॥१॥
५०. शून्यारण्ये वृत्तस्य काश्यपतक्षकवृत्तान्तस्योपलब्धिप्रकारकथनम्॥१॥
५१. जनमेजयस्य सर्पसत्रप्रतिज्ञा॥१॥यज्ञसामग्रीसंपादनम्॥२॥दीक्षाग्रहणम्॥३॥
५२. अग्नौ सर्पपतनम्॥१॥
५३. ऋत्विगादिनामकथनम्॥१॥इन्द्रकृतं तक्षकाश्वासनम्॥२॥वासुकेः स्वभगिन्या संवादः॥३॥
५४. आस्तीकस्य स्वमात्रा सवादः। वासुकेराश्वासनं च॥१॥आस्तीकस्य सर्पसत्रं प्रति गमनम्॥२॥
५५. आस्तीककृता जनमेजययज्ञप्रशंसा॥१॥
५६. प्रशंसया तुष्टस्य जनमेजयस्य ऋत्विग्भिः संवादः॥१॥ऋत्विगाह्वानेन सतक्षकस्येन्द्रस्यागमनम्॥२॥भयेनेन्द्रे पलायितेऽग्निसमीपे तक्षकागमनम्॥३॥आस्तीकस्य यज्ञसमाप्तिवरयाचनम्॥४॥
५७. सर्पसत्रे हतानां नागानां नामकथनम्॥१ ।
५८. आस्तीकवरप्रदानेन यज्ञसमाप्तिः॥१॥प्रत्यागतस्यास्तीकस्य सर्पेभ्यो वरलाभः॥२॥
५९. सौतेर्भारतकथनप्रतिज्ञा॥१॥
६०. भारतकथानुबन्धः॥१॥
६१. वैशम्पायनेन जनमेजयाय संक्षिप्य भारतकथाकथनम्॥१॥
६२. भारतप्रशंसा॥१॥तच्छ्रवणादिफलकथनम्॥२॥
६३. पूरुवंशकथनम्॥१॥
६४. उपरिचरराजोपाख्यानम्॥१॥इन्द्रध्वजोत्सववृत्तान्तः॥२॥गिरिकाया उत्पत्तिः। उपरिचरस्य तया विवाहश्च॥३॥मृगयार्थं गतेनोपरिचरेण स्वपत्नीस्मरणात्स्कन्नस्य श्येनद्वरा प्रेषितस्य रेतसो यमुनाजले पतनम्॥४॥ब्रह्मशापान्मत्स्यभावं प्राप्तयाऽद्रिकया तद्रेतःपानम्॥५॥तदुदरे मिथुनोत्पत्तिः॥६॥तत्र पुत्रस्य उपरिचरवसुना ग्रहणम्। कन्याया दाशगृहे स्थितिः॥७॥नावं वाहयमानायां सत्यवतीनाम्न्यां दाशकन्यायां पराशराद्द्वैपायनस्योत्पत्तिः। तस्य व्यासनामप्राप्तिश्च॥८॥पाठान्तरे पराशरसत्यवतीविवाहादि॥९॥भीष्मादीनां संक्षेपतो जन्मवृत्तान्तकथनम्॥१०॥
६५. विस्तरश्रवणेच्छया जनमेजयस्य प्रश्नः॥१॥परशुरामेण लोके निःक्षत्रिये कृते ब्राह्मणेभ्यः क्षत्रस्य पुनरुत्पत्तिः॥२॥तत्कालस्य धर्मभूयिष्ठत्वम्॥३॥देवैर्निर्जितानां दानवानां भूमावुत्पत्तिः॥४॥तद्भूरिभारार्तया पृथ्व्या प्रार्थितस्य ब्रह्मणो देवान्प्रत्यंशावतरणाज्ञापनम्॥५॥अवतारार्थं इन्द्रेण नारायणप्रार्थना॥६॥
६६. अदित्यादिदक्षकन्यावंशकथनम्॥१॥
६७. ऋष्यादिवंशकथनम्॥१॥
६८. जरासन्धादीनां संभवः॥१॥द्रोणादीनां संभवः॥२॥धृतराष्ट्रादीनां संभवः॥३॥दुर्योधनादीनां संभवः॥४॥युधिष्ठिरादीनां संभवः॥५॥धृष्टद्युम्नादीनां संभवः॥६॥पृथाचरित्रं। कर्णोत्पत्तिश्च॥७॥बलरामादीनां संभवः॥८॥द्रौपदीसंभवः॥९॥कुन्तीमाद्र्योः संभवः॥१०॥
६९. कुरुवंशकथनम्॥१॥संक्षेपेण ययात्युपाख्यानम्॥२॥
७०. ययात्युपाख्यानारम्भः॥१॥सञ्जीवनीविद्यालाभार्थं देवैः शुक्रसमीपे कचस्य प्रेषणम्॥२॥कचस्य शिष्यत्वेनाङ्गीकारः॥३॥दैत्यैर्हतस्य कचस्योज्जीवनम्॥४॥दैत्यैर्भस्मीकृत्य तन्मिश्रितसुराद्वारा स्वकुक्षिं प्रापितस्य कचस्य शुक्रेण विद्यादानपूर्वकमुज्जीवनम्॥५॥शुक्रेण सुरापाननिषेधः॥६॥
७१. स्वपाणिग्रहणार्थं प्रार्थितवत्या देवयान्या कचस्य विवादः॥१॥कचदेवयान्योः परस्परशापदानम्॥२॥
७२. स्वर्गंप्रत्यागतात्कचात्संजीविन्यध्ययनेन देवानां कृतार्थता॥१॥शुक्रवृषपर्वणोर्विरोधोत्पादनार्थमिन्द्रकृतं कन्यानां वस्त्रमिश्रणम्॥२॥वस्त्रमिश्रणेन शर्मिष्ठादेवयान्योर्विरोधः॥३॥शर्मिष्ठया कूपे प्रक्षिप्ताया देवयान्या ययातिना कूपादुद्धरणम्॥४॥शुक्रस्य कूपसमीपागमनं देवयानीसान्त्वनं च॥५॥
७३. शुक्रदेवयानीसंवादः॥१॥
७४. शुक्रवृषपर्वणोः संवादः॥१॥शुक्रकोपशान्तये वृषपर्वनियोगात् शर्मिष्ठया देवयानीदास्याङ्गीकारः॥२॥प्रसन्नया देवयान्या सह शुक्रस्य पुरप्रवेशनम्॥३॥
७५. मृगयार्थं गतस्य ययातेः पुनर्देवयानीसमागमः॥१॥शुक्राज्ञया तयोर्विवाहः॥२॥देवयानीशर्मिष्ठायां सह ययातेः स्वपुरप्रवेशः॥३॥
७६. देवयान्याः पुत्रोत्पत्तिः॥१॥अशोकवनिकायां शर्मिष्ठाया ययातिसमागमात्पुत्रोत्पत्तिः॥२॥
७७. शर्मिष्ठापुत्रदर्शनेन देवयान्याः शर्मिष्ठया सह संवादः॥१॥देवयानीशर्मिष्ठयोः पुत्रान्तरोत्पत्तिः॥२॥शर्मिष्ठापुत्रान्ययातिजाञ्ज्ञात्वा कुपितायाः देवयान्याः शुक्रसमीपे गमनम्॥३॥ययातेः शुक्रशापाज्जराप्राप्तिः॥४॥तस्या अन्यस्मिन्संक्रमणरूपवरप्राप्तिः॥५॥
७८. स्वजरामनङ्गीकुर्वतां यदुप्रभृतीनां ययातिना शापः॥१॥तामङ्गीकुर्वतः पूरोर्वरदानम्॥२॥
७९. विषयानुभवेन ययातेर्वैराग्यप्राप्तिः॥१॥पूरोः ययातिना यौवनप्रत्यर्पणम्॥२॥तस्य राज्याभिषेकः॥३॥ययातेर्वनं प्रति गमनम्॥४॥यदुप्रभृतीनां वंशकथनम्॥५॥
८०. ययातेः स्वर्गगमनम्॥१॥
८१. इन्द्रययातिसंवादः॥१॥
८२. स्वर्गतो ययातेः पतनं। अष्टकप्रश्नश्च॥१॥
८३. ययातेः स्वनामकथनपूर्वकं अष्टकेन सह संवादः॥१॥तत्र ययातिना स्वस्य स्वर्गादधःपतनकारणकथनम्॥२॥
८४. मृतस्य स्वर्गादिभोगानन्तरं पुनर्जननप्रकारकथनम्॥१॥
८५. ब्रह्मचर्याद्याश्रमविषयकाष्टकययातिप्रश्नप्रतिवचनम्॥१॥
८६. स्वर्गाच्च्युतस्य ययातेरष्टकादियज्ञभूमिं प्रत्यागमननिमित्तकथनम्॥१॥अष्टकप्रतर्दनयोर्ययातिना संवादः॥२॥
८७. वसुमतः शिबेश्च ययातिना संवादः॥१॥पुनरष्टकययातिसंवादः॥२॥तत्रागतया माधव्या स्वपुत्रान्प्रति यया तेर्मातामहत्वकथनम्॥३॥तद्वचनेन ययातेरष्टकादिदत्तपुण्यस्वीकारपूर्वकमष्टकादिभिः सह स्वर्गगमनम्॥४॥ययातिना मार्गे अष्टकादीन्प्रति विस्तरेण स्ववृत्तान्तकथनम्॥५॥ययात्युपाख्यानश्रवणादिफलकथनम्॥६॥
८८. पूरुवंशकथनम्॥१॥
८९. शकुन्तलोपाख्यानारम्भः॥१॥
९०. मृगयार्थं दुष्यन्तस्यारण्यगमनम्॥१॥
९१. मृगयाप्रसङ्गेन दुष्यन्तस्य कण्वाश्रमगमनम्॥१॥
९२. कण्वाश्रमे दुष्यन्तशकुन्तलासंवादः॥१॥शकुन्तलायाः स्वजन्मवृत्तान्तकथनारम्भः॥२॥
९३. विश्वामित्रान्मेनकायां शकुन्तलाया जन्मकथनम्॥१॥
९४. समयबन्धपूर्वकं गान्धर्वेण विवाहेन शकुन्तलापाणिग्रहणम्॥१॥कण्वस्य स्वाश्रमं प्रति प्रत्यागमनम्॥२॥कण्वशकुन्तलासंवादः॥३॥कण्वाच्छकुन्तलाया वरलाभः॥४॥
९५. शकुन्तलायाः पुत्रोत्पत्तिः॥१॥तस्य सर्वदमनेतिनामप्राप्तिः॥२॥
९६. शकुन्तलाया दुष्यन्तं प्रति प्रेषयितुं कण्वकृत उपदेशः॥१॥हास्तिनपुरगमनविषयेकण्वशकुन्तलासर्वदमनानां विवादः॥२॥कण्वेन स्वशिष्यद्वारा शकुन्तलासर्वदमनयोर्हास्तिनपुरप्रेषणम्॥३॥पुरप्रवेशान्निर्विण्णैः शिष्यैः कण्वाश्रमं प्रति निवर्तनम्॥४॥
९७. सपुत्रायाः शकुन्तलाया दुप्यन्तसमीपगमनं॥१॥तयोः संवादश्च॥२॥
९८. शकुन्तलायाः स्वपाणिग्रहणमनङ्कीकुर्वता दुष्यन्तेन सह विवादः॥१॥
९९. दुष्यन्तशकुन्तलाविवादः॥१॥
१००. आकाशवाणीश्रवणानन्तरं सपुत्रायाः शकुन्तलाया राज्ञाङ्गीकारः॥१॥भरतेतिनामकरणपूर्वकं पुत्रस्य राज्येऽभिषेकः॥२॥
१०१. भरतचरित्रकथनम्॥१॥तद्वंशकथनं च॥२॥
१०२. महाभिषगुपाख्यानम्॥१॥महाभिषग्गङ्गयोः शापः॥२॥अष्टवसूनां गङ्गायाश्च संवादः॥३॥
१०३. प्रतीपेन गङ्गायाः स्नुषात्वेन परिग्रहः॥१॥शान्तनूत्पत्तिः॥२॥तस्य राज्येऽभिषेकः॥३॥मृगयार्थं गतस्य शान्त नोर्गङ्गया संवादः॥४॥
१०४. समयबन्धपूर्वकं गङ्गाशान्तन्वोर्विवाहः॥१॥
१०५. गङ्गया जातमात्रस्य पुत्रसप्तकस्य हननम्॥१॥अष्टमपुत्रहननोद्युक्तां स्वभार्यां प्रति शांन्तनुप्रश्नाः॥२॥पूर्ववृत्तकथनपूर्वकं गङ्गायाः प्रतिवचनम्॥३॥
१०६. स्वगोहर्तॄणां वसूनां वसिष्ठेन शापः॥१॥पुनस्तत्प्रार्थनया तुष्टने वसिष्टेन शापसंकोचः॥२॥गङ्गाया भीष्मेण सह स्वलोकगमनम्॥३॥
१०७. शान्तनुभीष्मयोश्चरितम्॥१॥शान्तनोः पुनर्गङ्गादर्शनं तया सह संवादश्च॥२॥गङ्गादत्तेन भीष्मेण सह शान्तनोः स्वपुरप्रवेशः॥३॥भीष्मस्य यौवराज्येभिषेकः॥४॥शान्तनुभावं ज्ञात्वा दाशाशयानुसारेण प्रतिज्ञापूर्वकं भीष्मेण दाशकन्यानयनम्॥५॥तुष्टेन शान्तनुना भीष्माय स्वच्छन्दमरणवरदानम्॥६॥
१०८. शान्तनुसत्यवतीविवाहः॥१॥चित्राङ्गदविचित्रवीर्ययोरुत्पत्तिः॥२॥शान्तनुमरणम्॥३॥चित्राङ्गदमरणम्॥४॥विचित्रवीर्यस्य राज्येऽभिषेकः॥५॥
१०९. भीष्मस्य काशिपतिकन्याहरणार्थं वाराणसीगमनम्॥१॥कन्यां हृतवता भीष्मेण युद्धे राज्ञां पराजयः॥२॥मध्येमार्गं साल्वपराजयः॥३॥विचित्रवीर्यविवाहोपक्रमे तमनिच्छन्त्या ज्येष्ठाया अम्बयाः साल्वं प्रति गमनम्॥४॥तेन प्रत्याख्यातायाः पुनर्भीष्मं प्राप्ताय अम्ब्रायाः भीष्मेण निराकरणम्॥५॥भीष्मजिघांसया तपस्यन्त्या अम्बायाः प्रसन्नात्कुमारान्मालाप्राप्तिः॥६॥
११०. संग्रहेण अम्बाचरित्रकथनम्॥१॥
१११. विचित्रवीर्यस्य अम्बिकाम्बालिकाश्यां विवाहः॥१॥विचित्रवीर्यमरणम्॥२॥
११२. विचित्रवीर्यभार्ययोरम्बिकाम्बालिकयोः पुत्रोत्पादनाय सत्यवत्या नियुक्तेन भीष्मेण तदनङ्गीकारः॥१॥
११३. दीर्घतमसो ऋषेरुपाख्यानम्॥१॥
११४. सत्यवत्या स्वस्मिन्कन्यात्वावस्थायां व्यासोत्पत्तिकथनम्॥१॥स्मरणमात्रादागतेन व्यासेन सह सत्यवत्याः संवादः॥२॥व्यासेन अम्बिकाम्बालिकलोः पुत्रोत्पादनाङ्गीकारः॥३॥
११५. अम्बिकायां व्यासाद्धृतराष्ट्रस्योत्पत्तिः॥१॥अम्बालिकायां पाण्डोरुत्पत्तिः॥२॥अम्बिकादास्यां विदुरस्योत्पत्तिः॥३॥
११६. माण्डव्योपाख्यानम्॥१॥राजाज्ञया माण्डव्यस्य शूलारोपणम्॥२॥
११७. माण्डव्यं ऋषिं ज्ञात्वा भीतेन राज्ञा तस्य शूलाद्विमोक्षणम्॥१॥अणीमाण्डव्यस्य यमेन विवादः॥२॥माण्डव्यं न यमस्य शापः॥३॥
११८. कंचित्कालं भीष्मेण राज्यपरिपालनानन्तरं पाण्डो राज्येऽभिषेकः॥१॥
११९. धृतराष्ट्रविवाहार्थं भीष्मविदुरसंवादः॥१॥धृतराष्ट्रस्य गान्धार्या विवाहः॥२॥
१२०. पृथाया बाल्यचरित्रकथनम्॥१॥तस्या दुर्वाससो मन्त्रप्राप्तिः॥२॥मन्त्रप्रभावजिज्ञासयाऽऽहूतात्सूर्यात्कुन्त्यां कर्णस्योत्पत्तिः॥३॥लोकभयात्कुन्त्या यमुनायां विसृष्टस्य राधाभर्त्रा स्वीकारो वसुषेणेति नामकरमं च॥४॥संग्रहेण कर्णचरित्रकथनम्॥५॥
१२१. पाण्डोः कुन्त्या विवाहः॥१॥
१२२. पाण्डोर्माद्र्या विवाहः। दिग्विजयश्च॥१॥
१२३. सभार्यस्य पाण्डोर्मृगयार्थं वनगमनम्॥१॥तत्र मृगरूपस्य मृग्या मैथुनं चरतः किन्दमस्य मुनेर्हननम्॥२॥मैथुनकाले त्वं मरिष्यसीति किन्दमेन पाण्डुं प्रति शापः॥३॥
१२४. किन्दमशापात्खिन्नस्य पाण्डोः पत्नीभ्यां वने वासः॥१॥पाण्डोः शतशृङ्गे तपश्चरणम्॥२॥
१२५. ब्रह्मलोकं जिगमिषोः पाण्डोः तव पुत्रा भविष्यन्तीत्युक्त्वा ऋषिभिः प्रतिनिवर्तनम्॥१॥
१२६. विदुरस्य विवाहः पुत्रोत्पत्तिश्च॥१॥व्यासस्य वरेण गान्धार्यां धृतराष्ट्राद्गर्भोत्पत्तिः॥२॥पाण्डोः पुत्रोत्पत्तौ चिन्ता॥३॥
१२७. कुन्त्या पाण्डुं प्रति व्युषिताश्वकथाकथनम्॥१॥
१२८. उद्दालककथा॥१॥उद्दालकपुत्रेण श्वेतकेतुना कृता स्त्रीपुरुषमर्यादा॥२॥गुणाधिकात् द्विजातेः पुत्रोत्पादनार्थं प्रति पाण्डोराज्ञा॥३॥कुन्त्या दुर्वाससः स्वस्य मन्त्रप्राप्तिकथनम्॥४॥
१२९. धर्मात्कुन्त्यां युधिष्ठिरोत्पत्तिः॥१॥कुन्त्याः पुत्रोत्पत्तिश्रवणेन दुःखितया गान्धार्यां घातितात्स्वोदरान्मांसपेशीजननम्॥२॥मांसपेशीं एकोत्तरशतधा विभज्य पृथक्पृथक्कुण्डेषु निधाय रक्षणम्॥३॥वने स्थितस्य पाण्डोः कुन्त्यां वायोर्भीमसेन्नोत्पत्तिः॥४॥मातुरङ्कात्पतितेन भीमेन शैलशिलासंचूर्णनम्॥५॥दुर्योधनोत्पत्तिः॥६॥ततो मासेन धृतराष्ट्रस्य पुत्रशतोत्पत्तिः। दुःशलाजननं च॥७॥
१३०. दुःशलाजननप्रकारकथनम्॥१॥
१३१. दुर्योधनादीनां नामकथनम्॥१॥दुःशलाविवाहः॥२॥
१३२. कुन्त्यां इन्द्रादर्जुनोत्पत्तिः॥१॥तद्वेलायां आकाशवाण्यादि॥२॥
१३३. अश्विभ्यां माद्र्यां नकुलसहदेवयोरुत्पत्तिः॥१॥युधिष्ठिरादीनां नामकरणम्॥२॥वसुदेवप्रेषितेन पुरोहितेन पाण्डवानामुपनयनादिसंस्कारकरणम्॥३॥पाण्डवानां शुक्राद्धनुर्वेदशिक्षणम्॥४॥
१३४. पाण्डवानामायुष्यकथनम्॥१॥माद्र्या मैथुनप्रवृत्तस्य पाण्डोर्मरणम्॥२॥पाण्डवप्रलापः॥३॥माद्र्याः सहगमनम्॥४॥मृतस्य पाण्डोर्दहनादिसंस्कारः॥५॥
१३५. पाण्डवैः सह ऋषीणां हस्तिनापुरगमनम्॥१॥पाण्डुवृत्तान्तकथनपूर्वकं पाण्डवान्भीष्माय समर्प्य ऋषीणां प्रतिनिवर्तनम्॥२॥
१३६. पाण्डोरस्थिसंस्काराद्यन्त्येष्टिविधिः॥१॥
१३७. पाण्डोः श्राद्धदानम्॥१॥कुमाराणां क्रीडावर्णनम्॥२॥क्रीडायां भीमेन दुर्योधनादीनां पराभवः॥३॥दुर्योधनेन प्रमाणकोट्यां पातनं, सर्पैर्दंशनं, विषमिश्रभक्ष्यदानम्॥४॥
१३८. पुनर्भीमाय विषमिश्रभक्ष्यदानम्॥१॥शूलकीलितायां शमाणकोट्यां पुनर्भीमसेनस्य पातनम्॥२॥पाताललोकं प्राप्तस्य भीमस्य वासुकिदत्तरसपानम्॥३॥
१३९. भीममनागतं दृष्ट्वा खिन्नायाः कुन्त्या विदुरेण संवादः॥१॥रसपानेन नागायुतबलवता भीमेन हस्तिनापुरप्रत्यागमनम्॥२॥भीष्मेण धनुर्वेदशिक्षणार्थं कुमाराणां कृपाय निवेदनम्॥३॥
१४०. कृपद्रोणाश्वत्थामाचार्याणामुत्पत्तिः॥१॥द्रोणाचार्यस्य परशुरामादस्त्रलाभः॥२॥
१४१. द्रुपदसमीपं गत्वा तेन सह स्वस्य सखित्वं कथयतो द्रोणस्य द्रुपदकृतं भर्त्सनम्॥१॥तेन कुपितस्य द्रोणस्य हास्तिन पुरगमनम्॥२॥क्रीडाकाले कूपपतितयोर्विदाकन्दुकयोरुद्धरणे अशक्नुवतां कुमाराणां द्रोणकृतोऽधिक्षेपः॥३॥द्रोणेन वीटामुद्रिकयोः कूपादुद्धारः॥४॥द्रोणवृत्तान्तश्रवणेन भीष्मेण स्वगृहनिवासार्थं द्रोणं प्रति प्रार्थनम्॥५॥
१४२. द्रोणेनास्त्रशिक्षायां कुरुपाण्डवानां शिष्यत्वेनाङ्गीकारः॥१॥विद्याभ्याससमाप्त्यनन्तरं बहुशः परीक्षितस्यार्जुनस्य द्रोणाचार्याद्विशेषशिक्षाप्राप्तिः॥२॥मृण्मयद्रोणप्रतिमाराधनेन एकलव्यस्य धनुर्वेदप्रतिभानं॥३॥मृगयार्थं गतेषु कुरुपाण्डवेषु एकलव्येन बाणैः शुनो मुखपूरणम्॥४॥अर्जुनप्रार्थनया द्रोणेनैकलव्यं प्रतिगम्य गुरुदक्षिणात्वेन दक्षिणाङ्गुष्ठ याचनम्॥५॥एकलव्येन दक्षिणाङ्गुष्ठस्य छित्वा दानम्॥६॥द्रोणेन शिष्यपरीक्षा॥७॥शिष्यपरीक्षायां युधिष्ठिरा दीनां निराकरणम्॥८॥
१४३. अर्जुनेन लक्ष्यभूतभासच्छेदः॥१॥स्नानार्थं गङ्गामवतीर्णस्य द्रोणस्य ग्राहेण जङ्घायां ग्रहणम्॥२॥अर्जुनेन ग्राहहननम्॥३॥अर्जुनस्य ब्रह्मशिरोस्त्रलाभः॥४॥
१४४. कुमाराणां अस्त्रशिक्षापरीक्षार्थं रङ्गनिर्माणम्॥१॥शिक्षादर्शनार्थं भीष्मादीनां प्रेक्षागारप्रवेशः॥२॥युधिष्ठिरादीनां परीक्षा॥३॥भीमदुर्योधनयोः गदायुद्धपरीक्षा॥४॥
१४५. अर्जुनस्य परीक्षा॥१॥कर्णस्य रङ्गप्रवेशः॥२॥
१४६. कर्णस्य परीक्षा॥१॥कर्णार्जुनयोर्युद्धप्रसङ्गः॥२॥कृपेण कर्णस्याधिक्षेपः, कर्णस्य दुर्योधनेन राज्याभिषेचनं च॥३॥
१४७. कर्णपितुरधिरथस्य रङ्गप्रवेशः॥१॥भीमेन कर्णस्याधिक्षेपः॥२॥सर्वेषां रङ्गान्निष्क्रमणम्॥३॥
१४८. गुरुदक्षिणात्वेन जीवतो द्रुपदस्य ग्रहणे द्रोणेनाज्ञापिते तदर्थं तेन सह सर्वशिष्याणां पाञ्चालपुरगमनम्॥१॥द्रुपदग्रहणाय पाण्डववर्जं गतानां कौरवाणां तेन पराजयः॥२॥तदनन्तरं गतेषु पाण्डवेषु अर्जुनेन द्रुपदग्रहणम्॥३॥जीवग्राहं गृहीत्वा भीमार्जुनाभ्यां समर्पितेन द्रुपदेन द्रोणस्य संवादः॥४॥द्रोणेनार्धराज्यापहारेण मुक्तस्य द्रुपदस्य पुत्रोत्पादनार्थं प्रयत्नः॥५॥
१४९. द्रुपदस्य याजोपयाजसमीपगमनम्॥१॥उपयाजेन द्रोणविनाशकपुत्रोत्पादनार्थं याजनाय प्रार्थिते याजनस्य प्रत्याख्यानम्॥२॥याजेनाङ्गीकारे यजनारम्भः॥३॥अपत्यप्रदहविःप्राशनार्थं द्रुपदपत्न्या आह्वाने गर्वात्तया विलम्बनम्॥४॥क्रुद्धाभ्यां याजोपयाजाभ्यां अग्नौ हृविषो होमेनाग्निकुण्डाद्धृष्टद्युम्नस्योत्पत्तिः॥५॥द्वितीयहविषो होमेन पाञ्चाल्या उत्पत्तिः॥६॥तयोर्नामकरणम्॥७॥द्रोणाद्धृष्टद्युम्नस्यास्त्रशिक्षणम्॥८॥
१५०. द्रुपदोत्पत्तिः॥१॥
१५१. यौवराज्ये युधिष्ठिरस्याभिषेकः॥१॥भीमसेनस्य बलरामाद्गदायुद्धशिक्षणम्॥२॥द्रोणेनार्जुनस्य ब्रह्मशिरोस्त्रविषये नियमकथनम्॥३॥भीमार्जुनदिग्विजयेन धृतराष्ट्रचिन्ता॥४॥
१५२. युधिष्ठिरः साम्राज्येऽभिषेक्तव्य इति पौरवार्तां श्रुत्वा व्यथितस्य दुर्योधनस्य पित्रा संवादः॥१॥
१५३. धृतराष्ट्रादीनां कणिकेन दुर्नीत्युपदेशः॥१॥जम्बुकोपाख्यानम्॥२॥
१५४. संग्रहेण जतुगृहदाहकथनम्॥१॥पुनर्विस्तरेण जतुगृहदाहकथनारम्भः॥२॥दुर्योधनधृतराष्ट्रसंवादः॥३॥
१५५. दुर्योधनेन दानादिना प्रकृतिवशीकरणम्॥१॥पाण्डवानां वारणावतयात्रार्थं धृतराष्ट्रानुज्ञा॥२॥
१५६. दुर्योधनादेशात् पुरोचनेन वारणावते जतुगृहनिर्माणम्॥१॥
१५७. हास्तिनपुरं त्यक्त्वा वारणावतं गच्छता युधिष्ठिरेण अनुगच्छथां पौराणां निवर्तनम्॥१॥म्लेच्छभाषया युधिष्ठिरं प्रति विदुरस्योपदेशः॥२॥
१५८. पाण्डवानां वारणावतप्रवेशः॥१॥
१५९. खनकेन सुरङ्गकरणम्॥१॥
१६०. रात्रौ कुन्त्या अन्नादिना ब्राह्मणपूजनम्॥१॥भीमेन जतुगृहस्यादीपनम्॥२॥तस्य कुन्तीं भ्रातॄंश्चादाय सुरङ्गाद्वारा बहिंर्निर्गमनम्॥३॥
१६१. पाण्डवानां विदुरप्रेषितदूतदर्शितनौकया गङ्गोत्तरणम्॥१॥
१६२. पौरैः प्रातर्जतुगृहसमीपमागत्य पुरोचनसहितानां पाण्डवानां दाहं निश्चित्य धृतराष्ट्राय दूतमुखेन पाण्डवृत्तान्तनिवेदनम्॥१॥तच्छ्रवणेन ज्ञातिभिः सह धृतराष्ट्रेण कुन्त्यादीनां उदकदानम्॥२॥भीष्मविदुरयोः संवादः॥३॥
१६३. तृषार्तान् मातरं भ्रांतॄश्च न्यग्रोधमूले स्थापयित्वा जलानयनाय भीमस्य गमनम्॥१॥जलमानीयागतस्य भूमौ सुप्तान्मात्रादीन्पश्यतो भीमस्य प्रलापः॥२॥
१६४. हिडिम्बप्रेरितायाः तद्भगिन्या हिडिम्बायाः पाण्डवसमीपगमनम्॥१॥भीमं दृष्ट्वा कामार्ताया हिडिम्बायाः भीमं प्रति वाक्यम्॥२॥भीमहिडिम्बासंवादः॥३॥
१६५. पाण्डवान्प्रति प्रेषितया हिडिम्बया विलम्बिते हिडिम्बस्य तत्रागमनम्॥१॥भीमहिडिम्बयोर्युद्धम्॥२॥कुन्त्यादीनां प्रबोधः॥३॥
१६६. कुन्तीहिडिम्बासंवादः॥१॥हिडिम्बावार्तया भीमं हिडिम्बेन युद्ध्यमानं ज्ञातवतां कुन्त्यादीनां तत्र गमनम्॥२॥हिडिम्बवधः॥३॥
१६७. हिडिम्बावधे प्रवृत्तस्य भीमस्य युधिष्ठिरकृतं निवारणं।१।हिडिम्बया स्वस्य धर्मज्ञत्वस्य भविष्यज्ज्ञत्वस्य च प्रकटनम्।२।हिडिम्बाया धर्मिष्ठतां ज्ञात्वा तदङ्गीकरणे भीमं प्रति कुन्त्या आज्ञा।३।
१६८. हिडिम्बया सह पाण्डवानां शालिहोत्रसरोगमनम्॥१॥शालिहोत्रेण तेषामातिथ्यकरणम्॥२॥समयकरणपूर्वकं भीमेन हिडिम्ब्याः परिग्रहः॥३॥रमणीयेषु प्रदेशेषु भीमेन सह क्रीडित्वा सायाह्ने शालिहोत्राश्रमं प्रति हिडिम्ब्या निवर्तनम्॥४॥तत्र व्यासागमनम्॥५॥व्यासेन कुन्त्या आश्वासनम्॥६॥व्यासस्य प्रतिनिवर्तनम्॥७॥
१६९. घटोत्कचोत्पत्तिः॥१॥स्मृतिमात्रादागच्छाव इत्युक्त्वा हिडिम्बाघटोत्कचयोर्गमनम्॥२॥
१७०. वने चरतां पाण्डवानां व्यासेन सान्त्वनं एकचक्रानगर्यां ब्राह्मणगृहे स्थापनं च॥१॥
१७१. एकचक्रायां भिक्षामटतः पाण्डवान्दृष्ट्वा पौराणां वितर्कः॥१॥कुम्भकाराद्भीमस्य महत्तरपात्रलाभः॥२॥सभार्यस्य तद्गृहस्वामिनो ब्राह्मणस्य क्रन्दितं श्रुतवत्याः कुन्त्याः भीमानुमत्या ब्राह्मणान्तर्गृहप्रवेशः॥३॥ब्राह्मणप्रलापः॥४॥
१७२. ब्राह्मण प्रति तत्पत्नीवाक्यम्॥१॥
१७३. ब्राह्मणं प्रति तत्कन्यावाक्यम्॥१॥बालस्य पुत्रस्य वचनेन पित्रोः किंचिद्धर्षसमये कुन्त्यास्तत्समीपे गमनम्॥२॥
१७४. कुन्त्या रोदनकारणप्रश्ने ब्राह्मणेन बकवृत्तान्तकथनम्॥१॥
१७५. कुन्त्या बकं प्रति स्वपुत्रप्रेषणवचनम्॥१॥
१७६. भिक्षाटनार्थं गतानां युधिष्ठिरादीनां गृहं प्रत्यागमनम्॥१॥भीमो बकं प्रति प्रेष्यत इति ज्ञातवतो युधिष्ठिरस्य संतापः॥२॥भीमसेनप्रभावकथनेन कुन्त्या कृतं युधिष्ठिराश्वासनम्॥३॥
१७७. परेद्युः प्रातः ब्राह्मणेन दत्तमन्नं भुक्त्वा बकाय प्रापणीयं अन्नादिपूर्णं शकटमारुह्य बकवंन प्रति भीमस्य गमनम्॥१॥तत्र भीमेन शकटस्तान्नभोजनम्॥२॥अन्नं भुञ्जानं भीमं दृष्ट्वा क्रुद्धेन बकेन सह भीमस्य युद्धम्॥३॥बकवधः॥४॥
१७८. बकवधानन्तरं समागतानां तत्परिवाराणां भीमेन समयकरणम्॥१॥नगरद्वारदेशे बकशरीरं निधाय ब्राह्मणगृहमा गत्य भीमेन कुन्त्यादीन्प्रति बकवृत्तान्तकथनम्॥२॥मृतबकदर्शार्थं पौराणां गमनम्॥३॥ब्रह्ममहोत्सवकरणम्॥४॥बकवधेन पौराणां भीमसेवनम्॥५॥
१७९. ब्राह्मणगृहे प्रतिश्रयार्थमागतस्य कस्यचिद्ब्राह्मणस्य मुखात् पाण्डवानां द्रौपदीस्वयंवरश्रवणम्॥१॥पाण्डवकृतधृष्टद्युन्नद्रौपदीसंभवप्रश्नस्य ब्राह्मणेनोत्तरकथनम्॥२॥
१८०. धृष्टद्युम्नाद्युत्पत्तिकथनार्थं द्रोणद्रुपदयोरुत्पत्तिकथनपूर्वकं द्रुपदवृत्तान्तकथनम्॥१॥
१८१. द्रोणहन्तृपुत्रोत्पादनेच्छया याजकान्वेषणार्थमतटो द्रुपदस्य उपयाजवचनेन याजसमीपगमनम्॥१॥पुत्रार्थं यज्ञे आरब्धे अग्निकुण्डाद्धृष्टद्युम्नस्योत्पत्तिस्तच्चरितमाकाशवाणी च॥२॥पाञ्चाल्या उत्पत्तिः॥३॥तयोर्नामकरणम्॥४॥द्रोणेन धृष्टद्युम्नस्यास्त्रशिक्षणम्॥५॥
१८२. जनवार्तया दुर्योधनेन पाण्डवानां दाहं, स्वपुरोहितवचनेन नाशराहित्यं च, ज्ञातवता तेषां जीवने सन्दिहानेन द्रुपदेन उद्धोषितस्य पुत्रीस्वयंवरस्य कुन्तींप्रति ब्राह्मणेन कथनम्॥१॥युष्मासु तत्रागतेष्वीश्वरेच्छया त्वत्पुत्राणामन्यतमं पाञ्चाली वृणुयादपीत्युक्तवता ब्राह्मणेन सह पाण्डवानां पाञ्चालनगरं प्रति गमनम्॥२॥
१८३. पाण्डवानां द्रुपदनगरप्रथानम्॥१॥
१८४. प्रस्थानसमयागते व्यासेन पाण्डवान्प्रति द्रौपदीवृत्तान्तकथनपूर्वकं भविष्यद्द्रौपदीलाभकथनम्॥१॥व्यासस्य प्रतिनिवर्तनम्॥२॥
१८५. पाञ्चालनगरं गच्छतां पाण्डवानां मार्गे ब्राह्मणैः सह संवादः॥१॥
१८६. अर्धरात्रे पाण्डवानां गङ्गातीरगमनम्॥१॥तत्र स्त्रीभिः सह जलक्रीडां कुर्वता चित्ररथेन गन्धर्वेण सह अर्जुनस्य युद्धम्॥२॥आग्नेयास्त्रेण दग्धादधःपतितस्य तस्यार्जुनेन ग्रहणं॥३॥गन्धर्वपत्न्या प्रार्थितस्य युधिष्ठिरस्याज्ञया गन्धर्वमोचनम्॥४॥गन्धर्वप्रार्थनया आग्नेयास्त्रपरिवर्तनेन तस्माद्गान्धर्वास्त्रग्रहणानुमोदनम्॥५॥गन्धर्वेण पाण्डवानां पुरोहितसंपादनोपदेशः॥६॥
१८७. सूर्यकन्यायाः तपत्या उपाख्यानम्--स्वभक्ताय संवरणाय स्वकन्यां दातुं सवितुर्निश्चयः॥१॥मृगयार्थं गतस्य संवरणस्य गिरौ तपतीदर्शनेन कामोत्पत्तिः॥२॥राजनि तया सह भाषितुं प्रवृत्ते तप्त्या अन्तर्धानम्॥३॥
१८८. भूतले पतितं राजानं दृष्ट्वा तत्समीपे तपत्या आगमनम्॥१॥तयोः संवादः॥२॥
१८९. पुनरन्तर्हितायां तपत्यां मोहितस्य संवरणस्य समीपे अमात्यादीनामागमनं॥१॥अमात्येनाश्वासितस्य राज्ञः सूर्योपासनसमये वसिष्ठस्यागमनं॥२॥सूर्यसमीपं गत्वा वसिष्ठेनादित्यस्तुतिकरणं॥३॥स्तुत्या तुष्टेन सूर्येण संवरणार्थं वसिष्ठाय तपतीदानं॥४॥तस्मिन्नेव तपतीसंवरणयोर्विवाहः॥५॥तया सह तत्रैव रममाणस्य संवरणस्य राज्ये द्वादशवार्षिक्यनावृष्टिः॥६॥वसिष्ठेनानावृष्टिनिवर्तनं॥७॥तपत्युपाख्यानोपसंहारः॥८॥
१९०. गन्धर्वेण वसिष्ठमाहात्म्यकथनपूर्वकं पाण्डवानां पुरोहितसंग्रहणोपदेशः॥१॥
१९१. वसिष्ठोपाख्याने---विश्वामित्रस्य वसिष्ठाश्रमाभिगमनं॥१॥वसिष्ठेन विश्वामित्रस्यातिथ्यकरणं॥२॥विश्वामित्रेण वसिष्ठधेनुयाचनं॥३॥वसिष्ठेनादत्ताया धेनोः विश्वामित्रेण बलात्कारेण हरणं॥४॥कुपितया नन्दिन्या सृष्टैः म्लेच्छाद्यैः विश्वामित्रपराजयः॥५॥विश्वामित्रस्य तपसा ब्राह्मण्यप्राप्तिः॥६॥
१९२. कल्माषपादराजोपाख्याने---वसिष्ठपुत्रेण शक्तिना कल्माषपादं प्रति शापदानं॥१॥पुनरन्येन ब्राह्मणेन च कल्माषपादंप्रति शापदानं॥२॥राक्षसाविष्टेन कल्माषपादेन वसिष्ठपुत्राणां भक्षणं॥३॥पुत्रशोकाभिसंतप्तेन वसिष्ठेन प्राणत्यागार्थं अनेकधा प्रयतनम्॥४॥
१९३. पूर्वोपायैरपि दुस्त्यजप्राणस्य वसिष्टस्य पुनर्गङ्गापतनादिनापि प्राणत्यागासंभवे आश्रमं प्रत्यागमनम्॥१॥तत्र शक्तिभार्यामदृश्यन्तीनाम्नी गर्भवतीं ज्ञात्वा आत्मघातान्निवर्तनं॥२॥अदृश्यन्त्या सह गच्छन्तं वसिष्टं भक्षयितुमागतस्य कल्माषपादस्य वसिष्ठेन शापान्मोक्षणं॥३॥सौदासपत्न्या वसिष्ठाद्गर्भसंभवः॥४॥अश्मकनामकपुत्रोत्पत्तिः॥५॥
१९४. पराशरोत्पत्तिः॥१॥पितरं कल्माषपादभक्षितं ज्ञात्वा क्रुद्धेन पराशरेण लोकविनाशाय यतनम्॥२॥कर्तवीर्यार्जुन वंश्यैः क्षत्रियैः धनार्थं भृगुवंश्यानां ब्राह्मणानां हननम्॥३॥क्षत्रियभीत्या कयाचिद्ब्राह्मण्या ऊरौ गर्भं धृतं हन्तुं क्षत्रियाणामुद्यमः॥४॥ऊरुं भित्वा निर्गतस्य बालकस्य तेजसान्धीभूतानां क्षत्रियाणां ब्राह्मणींप्रति शरणगमनम्॥५॥
१९५. ब्राह्मणीवाक्येन और्वंप्रति शरणागतानां क्षत्रियाणां चक्षुःप्राप्तिः॥१॥लोकविनाशार्थं तपस्यत और्वस्य तत्पितृकृततपोनिवारणम्॥२॥
१९६. पितॄणां निदेशेन और्वस्य समुद्रे क्रोधत्यागः॥१॥
१९७. वसिष्ठवाक्येन लोकविनाशान्निवृत्तेन पराशरेण राक्षसनाशार्थं यज्ञारम्भः॥१॥पुलस्त्यप्रार्थनया पराशरेण यज्ञसमापनम्॥२॥
१९८. सौदासभार्यायां वसिष्ठेन पुत्रोत्पादनकारणं पृष्टवन्तमर्जुनंप्रति पुनः कल्माषपादकथाकथनम्॥१॥मैथुनधर्मस्य ब्राह्णं भक्षितवतः सौदासस्य ब्राह्मण्या शापः॥२॥
१९९. अर्जुनेन अनुरूपपुरोहितसंपादनं पृष्टेन गन्धर्वेण धौम्यवरणाक्ष्यनुज्ञा॥१॥गन्धर्वाय आग्नेयास्त्रदानम्॥२॥उत्को चतीर्थे पाण्डवैः धौम्यस्य पौरोहित्ये वरणम्॥३॥
२००. मध्येमार्गं आगतस्य व्यासस्य आज्ञया पाण्डवानां द्रुपदपुरप्रवेशः॥१॥तेषां कुम्भकारगृहे वासः, भैक्षवृत्तिश्च॥२॥द्रौपद्याः स्वयंवरनिर्माणकारणकथनं॥३॥द्रुपदेन कृतां स्वयंवरघोषणां श्रुतवतां क्षत्रियादीनां आगमनं॥४॥सर्वेषां उचिते स्थाने उपवेशनं पाण्डवानां ब्राह्मणमध्ये उपवेशनं॥५॥मङ्गलस्नातायाः स्वलङ्कृताया द्रौपद्या रङ्गमध्ये आगमनं॥६॥धृष्टद्युम्नेन लक्ष्यवेधपणकथनम्॥७॥
२०१. रङ्गे आगतानां राज्ञां नामकथनम्॥१॥
२०२. ब्राह्मणमध्यस्थान्पाण्डवान्विज्ञाय श्रीकृष्णेन बलरामाय कथंन॥१॥धनुर्दर्शनेनैव केषांचिद्राज्ञां धनुःपूरणे निरशत॥२॥शिशुपालादीनां धनुःपूरणे भङ्गः॥३॥अर्जुनस्य धनुःपूरणे एषणा॥४॥
२०३. धनुरारोपणार्थमुत्थितमर्जुनंप्रति ब्राह्मणानां शुभाशंसनम्॥१॥अर्जुनेन धनुरारोपणपूर्वकं लक्ष्यवेधः॥२॥द्रौपद्या अर्जुनकण्ठे मालाप्रक्षेपः॥३॥
२०४. क्रोधाद्राजसु द्रुपदहननार्थमागतेषु राजसंमुखे भीमार्जुनयोः सज्जीभूय स्थितयोः सतोः कृष्णबलरामयोः संवादः॥१॥
२०५. अर्जुनेन कर्णपराजयः॥१॥भीमेन कर्णपराजयः॥२॥युधिष्ठिरादिभिर्दुर्योधनादिपराजयः॥३॥पुनर्युद्धाय कृतनिश्चयानां राज्ञां श्रीकृष्णवाक्येन युद्धोद्योगाद्विरम्य स्वस्वालयगमनम्॥४॥द्रौपद्या सह भीमार्जुनयोः कुलालगृहप्रवेशः॥५॥
२०६. भीमार्जुनाश्यां द्रौपद्याः भिक्षेत्यावेदने कुन्त्या पञ्चानां सह भोजनानुज्ञा॥१॥पश्चात् द्रौपदीदर्शनेन चिन्तान्वितायां कुन्त्यां युधिष्ठिरार्जुनयोः संवादः॥२॥द्वैपायनवचःस्मरणेन सर्वेषां द्रौपदी भार्येति युधिष्ठिरनिश्चयः॥३॥जनमेजयेन कृष्णस्य कार्मुकानारोपणे कारणप्रश्ने पाण्डवार्थमिति वैशम्पायनस्योत्तरम्॥४॥कुलालशालांप्रति श्रीकृष्णस्यागमनम्॥५॥
२०७. पाण्डवावासे धृष्टद्युम्नस्य निलीयावस्थानम्॥१॥भीमाद्यानीतस्य भैक्षस्य कुन्त्याज्ञया द्रौपद्या परिवेषणम्॥२॥सर्वं पाण्डववृत्तान्तं ज्ञात्वा धृष्टद्युम्नस्य प्रतिनिवर्तनम्॥३॥
२०८. धृष्टद्युम्नवार्तां श्रुतवता द्रुपदेन तत्वविवित्सया पाण्डवान्प्रति पुरोहितप्रेषणम्॥१॥
२०९. कुन्त्या सह पाण्डवानां द्रुपदगृहगमनम्॥१॥परीक्षणार्थं द्रुपदेन अनेकविधवस्तूपहरणम्॥२॥द्रौपद्या सह कुन्त्या अन्तःपुरप्रवेशः॥३॥भोजनानन्तरं पाण्डवानां साङ्ग्रामिकवस्तुपूर्णप्रदेशे प्रवेशः॥४॥
२१०. द्रुपदप्रश्नानन्तरं युधिष्ठिरेण स्वेषां पाण्डवत्वकथनम्॥१॥द्रौपद्याः पञ्चपत्नीत्वे द्रुपदस्य विवादः॥२॥व्यासागमनम्॥३॥
२११. एकस्याः बहुभार्यात्वे शङ्कमानान्द्रुपदादीन्प्रति व्यासेन स्वस्वाभिप्रायकथनानुज्ञा॥१॥द्रुपदादिभिः स्वस्वमते कथिते व्यासेनास्य विवाहस्य धर्म्यत्वकथनम्॥२॥
२१२. इन्द्रसेनापरनाम्न्या नालायन्या उपाख्यानारम्भः-नालायन्या स्थविरस्य पत्युर्मौद्गल्यस्य आराधनम्॥१॥तुष्टेन मौद्गल्येन नालायनीप्रार्थनयाऽऽत्मनः पञ्चरूपस्वीकारेण तस्यां रमणम्॥२॥तयोः स्वर्गादिलोकेषु नानारूपेण रमणम्॥३॥सैव नालायनी तव दुहिता जातेति द्रुपदं प्रति व्यासस्योक्तिः॥४॥
२१३. कथं नालायनी मत्पुत्री जातेति व्यासं प्रति द्रुपदस्य प्रश्नः॥१॥पुनर्नालायनीकथाकथनं॥२॥कामोपभोगविरक्तेन मौद्गल्येन कामातृप्तायाः नालादन्याः पञ्चपतित्वशापः॥३॥नालायन्या रुद्रमुद्दिश्य तपःकरणम्॥४॥नालयन्या पतिं देहीति पञ्चकृत्वः प्रार्थितेन रुद्रेण अन्यजन्मनि पञ्च ते पतयो भविष्यन्तीति वरदानम्॥५॥पुनः रुद्रात नि कौत्पवरप्राप्तिः॥६॥त्वयि गङ्गाजलस्थायां तत्रागमिष्यन्तमिन्द्रमानयेति नालायनींप्रति रुद्रस्याज्ञापनम्॥७॥
२१४. पञ्चे उपाख्यानप्रारम्भः॥१॥नैमिशारण्ये देवैरारब्धे सत्रे यमस्य शामित्रकर्मणि व्यापृतत्वात् लोके प्रजाबाहुल्यं दृष्ट्वा तत्परिजिहीर्षया देवैर्ब्रह्मसमीपगमनम्॥२॥ब्रह्माज्ञया पुनर्नैमिशारण्यं गतस्य गङ्गायां पुण्डरीकं दृष्ट्वा तज्जिहीर्षया गतस्य इन्द्रस्य तत्र रुदन्ताः स्त्रियाः दर्शनम्॥३॥तामनुगच्छतेन्द्रेण पर्वतविवरे पूर्वेषां चतुर्णां इन्द्राणां दर्शनम्॥४॥बलरामकेशवद्रौपद्यादीनामुत्पत्तिकथा॥५॥व्यासदत्तदिव्यदृष्टेर्द्रुपदस्य पाण्डवद्रौपदीपूर्वरूपदर्शनं॥६॥द्रौपद्या अव्यवहितपूर्वजन्मवृत्तान्तकथनम्॥७॥
२१५. युधिष्ठिरादीनां क्रमेण द्रौपद्याः पाणिग्रहणम्॥१॥
२१६. द्रौपदींप्रति कुन्त्या आशीर्वादः॥१॥श्रीकृष्णप्रेषितालंकारादीनां पाण्डवैः स्वीकारः॥२॥
२१७. चारद्वारा पाण्डवविवाहादिवृत्तान्तश्रवणेन अन्यैः राजभिः भीष्मधृतराष्ट्रादीनां धिक्कारः॥१॥धार्तराष्ट्रैः पाण्डवान्प्रति मन्त्रालोचनं॥२॥पाण्डवा हन्तव्या इति शकुनेरुक्तिः॥३॥पाण्डवानां हन्तुमशक्यत्वात्तैः सह सन्धिः कर्तव्य इति सौमदत्तेरुक्तिः॥४॥
२१८. पाण्डवा हन्तव्या एवेति कर्णस्योक्तिः॥१॥पाञ्चालनगरंप्रति युद्धार्थं दुर्योधनादीनां गमनम्॥२॥तैः सह योद्धुं सपाण्डवस्य द्रुपदस्यागमनम्॥३॥कर्णजयद्रथाभ्यां सुमित्रप्रियदर्शनयोर्वधः॥४॥अर्जुनेन कर्णजयद्रथपुत्रयोर्वधः॥५॥कर्णदुर्योधनादीनां पराजयः॥६॥पराजितानां तेषां हास्तिनपुरगमनम्॥७॥कृष्णबलरामयोः पाञ्चालपुरे वासः॥८॥
२१९. विदुरात् ज्ञातपाण्डववृत्तान्तेन धृतराष्ट्रेण द्रौपद्यानयनार्थमाज्ञापनम्॥१॥धृतराष्ट्रसमीपे कर्णदुर्योधनयोर्भाषणम्॥२॥
२२०. धृतराष्ट्रदुर्योधनसंवादः॥१॥
२२१. दुर्योधनं प्रति कर्णोनोक्तं श्रुतवतो धृतराष्ट्रस्य भीष्मादिभिः सह मन्त्रणम्॥१॥
२२२. भीष्मेण दुर्योधनादिसमीपे पाण्डवेक्ष्योऽर्धराज्यं दातव्यमिति स्वाबिप्रायकथनम्॥१॥
२२३. पाण्डवाः संविभाज्या इति द्रोणवचनम्॥१॥तद्विरोधितया कर्णेन अम्बुवीचवृत्तान्तकथनम्॥२॥मदुक्तं न क्रियते चेत्कुरवो विनङ्क्ष्यन्तीति द्रोणेनोक्तिः॥३॥
२२४. भीष्मद्रोणाभ्यामुक्तमेवावश्यं करणीयं पाण्डवा जेतुं न शक्याः दुर्योधनादीनां वचनं मा कुरु इति धृतराष्ट्रंप्रति विदुरस्योक्तिः॥१॥
२२५. धृतराष्ट्राज्ञया विदुरस्य द्रुपदनगरगमनम्॥१॥तत्र श्रीकृष्णादीनां समीपे धृतराष्ट्रसन्देशकथनम्॥२॥
२२६. पाण्डवानां हास्तिनपुरगमनंप्रति श्रीकृष्णद्रुपदयोरश्यनुज्ञा॥१॥पृथाविदुरसंवादः॥२॥प्रस्थितानां पाण्डवानां द्रुपदेन पारिबर्हदानम्॥३॥प्रत्युद्गमनायागतैः कौरवैः सह पाण्डवानां भीष्मादिवन्दनपुरःसरं गृहप्रवेशः॥४॥
२२७. द्रौपद्या नमस्कृतया गान्धार्या तद्रूपदर्शनेन तस्याः स्वपुत्रमृत्युत्ववितर्कः॥१॥धृतराष्ट्रेण युधिष्ठिरस्य धर्मराज्येऽभिषेकः॥२॥पाण्डवानां खाण्डवप्रस्थगमनम्॥३॥श्रीकृष्णचिन्तितेनेन्द्रेण विश्वकर्मणः प्रेषणम्॥४॥विश्वकर्मणा इन्द्रप्रस्थपुरनिर्माणम्॥५॥तत्रागतानां सर्वेषां विसर्जनम्॥६॥
२२८. पाण्डवानां समीपे नारदागमनम्॥१॥
२२९. सुन्दोपसुन्दकथा--सुन्दोपसुन्दयोर्ब्रह्मणो वरलाभः॥१॥
२३०. सुन्दोपसुन्दयोः दिग्विजयः कुरुक्षेत्रे निवासश्च॥१॥
२३१. सुन्दोपसुन्दकृतोपद्रवं निवेद्य देवादिभिः प्रार्थितेन ब्रह्मणा आज्ञप्तेन विश्वकर्मणा तिलोत्तमासृष्टिः॥१॥तिलोत्तमया ब्रह्माज्ञास्वीकारः॥२॥
२३२. सुन्दोपसुन्दलमीपे तिलोत्तमाया आगमनम्॥१॥तस्यां सकामयोस्तयोः परस्परं गदाप्रहारेण मरणम्॥२॥तिलोत्तमाया ब्रह्मणा वरदानम्॥३॥नारदोक्तामिमां कथां श्रुतवद्भिः पाण्डवैः तत्समक्षं द्रौपदीविषये समयकरणम्॥४॥
२३३. तस्करैः कस्यचिद्ब्राह्मणस्य गोहरणम्॥१॥चोरितानां गवां प्रत्याजिहीर्षया धनुर्ग्रहणार्थं द्रौपदीयुधिष्ठिराधिष्ठिते आयुधागारे अर्जुनस्य प्रवेशः॥२॥चोरेश्यः प्रत्याहृता गाः ब्राह्मणाय दत्त्वा यथासमयं अर्जुनस्य तीर्थयात्रा॥३॥
२३४. ब्राह्मणैः सह तीर्थान्यटतोऽर्जुनस्य स्नानार्थं गङ्गायामवतरणम्॥१॥तत्र उलूप्या नागकन्यया गृहीतस्यार्जुनस्य नागलोकगमनम्॥२॥संवादपूर्वकमुलूप्याः परिग्रहः॥३॥इरावत उत्पत्तिः॥४॥अर्जुनं पुनर्गङ्गाद्वारमुपनीय उलूप्या स्वलोकगमनम्॥५॥
२३५. अर्जुनस्य मणलूरग्रामगमनम्॥१॥पुत्रिकापुत्रकधर्मेण चित्राङ्गदापरिग्रहः॥२॥
२३६. सौभद्रतीर्थे स्नानार्थमवतीर्णस्यार्जुनस्य ग्राहेण ग्रहणम्॥१॥जलादुद्धरणेन ग्राहरूपं परित्यज्य नारीरूपं प्राप्तया वर्गानाम्नया स्वप्रभृतीनां ब्राह्मणेन शापदानकथनम्॥२॥
२३७. प्रसादितेन ब्राह्मणेन कृतस्य शापमोचनप्रकारस्य, नारदनिदेशेनैतत्तीर्थागमनस्य च अर्जुनंप्रति वर्गया कथनम्॥१॥एतत्कथां श्रुतवता अर्जुनेन ग्राहरूपाणाभवशिष्टानां चतसृणामप्यप्सरसां तत्तत्तीर्थेभ्य उद्धरणेन तासां स्वस्वरूपप्राप्तिः॥२॥पुनर्मणलूरमागत्य तत्र चित्राङ्गदायां जातं बभ्रुवाहननामानं स्वपुत्रं च स्वश्वशुरे समर्प्य अर्जुनस्य गोकर्णक्षेत्रगमनम्॥३॥
२३८. अर्जुनस्य प्रभासतीर्थगमनम्॥१॥तत्र स्मृतिपथागतसुभद्रारूपलावण्यादिकं चिन्तयतोऽर्जुनस्य परिव्राजकवेषस्वीकारेण तस्या हरणे निश्चयः॥२॥अर्जुनस्य चिन्तितज्ञानेन हसता श्रीकृष्णेन सह शायिन्या सत्यभामया हासकारणे पृष्टे तां प्रति अर्जुनवृत्तान्तकथनम्॥३॥सत्यभामां शयने विहाय एकाकिना श्रीकृष्णेन प्रभासतीर्थंप्रति प्रस्थानम्॥४॥चारमुखेन अर्जुनस्य तत्रागमनं श्रुत्वा कृष्णस्य तत्रागमनम्॥५॥अर्जुनेन संभाप्य कृष्णस्य द्वारकांप्रति पुनरागमनम्॥६॥
२३९. रवैतकपर्वतंप्रति उत्सवार्थं कृष्णादीनां गमनम्॥१॥तत्र कृष्णस्य परिव्राजकरूपार्जुनदर्शनम्॥२॥सुभद्रादर्शनेन तस्यां संजातहृच्छयस्यार्जुनस्य यतिरूपेण सुभद्राहरणे कुष्णानुज्ञालाभः॥३॥दूतेनिवेदितैतद्वृत्तान्तेन सपरिवारेण युधिष्ठिरेणाभ्यनुज्ञानम्॥४॥
२४०. द्वारकाया उपवने वसतः यतिरूपस्यार्जुतस्य रैवतकपर्वतात्प्रतिनिवृत्तैर्यादवैर्दर्शनम्॥१॥यतिनिवासविषये यादवै पृष्टे सुभद्रागृहे वसत्विति रामोक्तिः॥२॥
२४१. यतेः सुभद्रागृहे कृष्णेन स्थापनम्॥१॥श्रुतपूर्वपार्थलक्षणदर्शनेन इमं यतिं अर्जुनं शङ्कमानायाः सुभद्रायाः यतिंप्रति अर्जुनादिकुशलप्रश्नः॥२॥अर्जुनेन तत्वे कथिते मोहितायां सुभद्रायां रुक्मिण्या श्वश्रूसमीपे तद्वृत्तकथनम्॥३॥वासुदेवानुमत्या देवक्या सुभद्राश्वासनम्॥४॥गूढं सुभद्राया विवाहचिकीर्षया कृष्णेन महादेवपूजाव्याजेन सर्वयादवैः सह अन्तर्द्वीपगमनम्॥५॥
२४२. सुभद्राविवाहः॥१॥
२४३. कृष्णरथमास्थाय सुभद्रयासह अर्जुनस्य खाण्डवप्रस्थं गन्तुं यत्नः॥१॥
२४४. द्वारकाया बहिर्निर्गच्छतोऽर्जुनस्य विपृथुना युद्धम्॥१॥विपृथुं जित्वाऽर्जुनस्य खाण्डवप्रस्थंप्रति गमनम्॥२॥युद्धोद्युक्तानां यादवानां बलरामवाक्यान्निवृत्तिः॥३॥बलस्य क्रोधः॥४॥
२४५. कृष्णेन बलरामसान्त्वनम्॥१॥अर्जुनंप्रत्यानेतुं यादवानां गमनम्॥२॥विपृथुवाक्यादुर्जनं दूरगतं ज्ञात्वा तेषां प्रतिनिवर्तनम्॥३॥सुभद्रया सह अर्जुनस्य खाण्डवप्रस्थगमनम्॥४॥
२४६. अर्जुनेन सुभद्रायाः गोपीवेषेण द्रौपदीसमीपप्रेषणम्॥१॥कृतनतिं सुभद्रांप्रति पृथाद्रौपदीभ्यां आशीर्वादः॥२॥स्वपुरं प्रविष्टेनार्जुनेन भ्रातृश्यः स्वकृततीर्थयात्रावृत्तान्तकथनम्॥३॥
२४७. कृष्णानुमत्याऽर्जुनः सुभद्रां जहारेति पौराणामूहः॥१॥अर्जुने इन्द्रप्रस्थं प्राप्तं ज्ञात्वा यादवैः सह श्रीकृष्णस्य इन्द्रप्रस्थं प्रत्यागमनम्॥२॥आगताञ्श्रीकृष्णादीञ्श्रुत्वा युधिष्ठिरस्य प्रत्युद्गमनं तेषां सत्कारश्च॥३॥वैवाहिकमहोत्सवकरणम्॥४॥पारिबर्हदानम्॥५॥कंमचित्कालं तत्रोषितानां कुरुभिः पूजितानां बलरामादीनां द्वारकांप्रति गमनम्॥६॥अभिमन्यूत्पत्तिः॥७॥द्रौपद्याः युधिष्ठिरादिश्यः पञ्चपुत्रोत्पत्तिः तेषां विद्याश्यासश्च॥८॥
२४८. युधिष्ठिरस्य राज्यपरिपालनप्रकारवर्णनम्॥१॥तत्रैव निवसता श्रीकृष्णेन सहार्जुनस्य जलक्रीडार्थं यमुनां प्रति गमनम्॥२॥सस्त्रीकयोस्तयोर्जलक्रीडावर्णनम्॥३॥ब्राह्मणरूपस्याग्नेस्तत्रागमनम्॥४॥
२४९. पुनर्निवेदितविघ्नवृत्तान्तेन ब्रह्मणा आज्ञुप्तस्याग्नेः कृष्णार्जुनौप्रति आगमनम्॥१॥वैशम्पायनेन जनमेजयंप्रति खाण्डवदाहकारणकथनसमापनम्॥२॥अर्जुनेन दिव्यानां रथाश्वधनुरादीनां याचनम्॥३॥
२५०. पुनर्निवेदितविघ्नवृत्तान्तेन ब्रह्मणा आज्ञुप्तस्याग्नेः कृष्णार्जुनौप्रति आगमनम्॥१॥वैशम्पायनेन जनमेजयंप्रति खाण्डवदाहकारणकथनसमापनम्॥२॥अर्जुनेन दिव्यानां रथाश्वधनुरादीनां याचनम्॥३॥
२५१. अग्निना वरुणात् आहृतानां रथादीनां अर्जुनाय दानम्॥१॥अग्नेः खाण्डवदाहारम्भः॥२॥
२५२. खाण्डवदाहं दृष्ट्वा त्रस्तैर्देवैः प्रार्थितेनेन्द्रेण जलवर्षणम्॥१॥
२५३. इन्द्राभिवृष्टस्य जलस्यार्जुनेन निवारणम्॥१॥पुत्रं निगीर्याकाशमुत्पतन्त्याः तक्षकभार्यायाः अर्जुनेन शिरश्छेदः॥२॥इन्द्रेण स्वकृतवायुवर्षमोहितादर्जुनात्तक्षकपुत्रस्याश्वसेनस्य मोचनम्॥३॥पावकान्मुमुक्षूणां नागादीनां मारणम्॥४॥इन्द्रस्य कृष्णार्जुनाभ्यां युद्धम्॥५॥
२५४. देवेषु पराजितेषु अशरीरवाणीश्रवणेन इन्द्रस्य निवृत्तिः॥१॥पलायमानं मयं हन्तुमुद्युक्ते श्रीकृष्णे आत्मानं शरणागतस्य मयस्य अर्जुनेनाभयदानम्॥२॥खाण्डवदाहेऽपि अश्वसेनादीनामदाहस्य वैशम्पायनेन कथनम्॥३॥
२५५. शार्ङ्गकाणां मोचनकारणे जनमेजयेन पृष्टे वैशम्पायनेन मन्दपालोपाख्यानकथनारम्भः॥१॥तपसा पितृलोकं गतस्याप्यनवाप्ततपःफळस्य मन्दपालस्य देवाज्ञया प्रजोत्पादनार्थं पुनर्भूमावागमनम्॥२॥तत्र शार्ङ्ग्यां जरितायां पुत्रचतुष्टयोत्पादनम्॥३॥सपुत्रां जरितां खाण्डवे विसृज्य लपितानाम्न्याऽन्यया शार्ङ्ग्या संगतस्य मन्दपालस्य विप्ररूपाग्निदर्शनम्॥४॥तस्य खाण्डवदिधक्षां ज्ञात्वा पुत्ररक्षणार्थं स्तुतादग्नेर्वरलाभः॥५॥
२५६. प्रज्वलदग्निदर्शनेन जरितायाः स्वपुत्रैः संवादः॥१॥
२५७. पुत्रैः सह संवादानन्तरं जरितायाः स्थानान्तरगमनम्॥१॥
२५८. जरितार्यादीनां चतुर्णां शार्ङ्गकाणां परस्परं संवादः॥१॥स्तुत्या प्रसन्नेनाग्निना तेभ्योऽभयदानम्॥२॥शार्ङ्गकाणां प्रार्थनया अग्निना मार्जाराणां दाहः॥३॥
२५९. पुत्रांश्चन्तयन्तं मन्दपालं प्रति लपितायाः सासूयवचनम्॥१॥अग्निशान्त्यनन्तरं आत्मदिदृक्षयाऽऽगतं मन्दपालं प्रति भार्यया पुत्रैश्च उपालम्भः॥२॥।
२६०. मन्दपालस्य पुत्राश्वपूर्वकं सर्वैः सहान्यत्र गमनम्॥१॥देवगणैः सहागतस्येन्द्रस्य कृष्णार्जुनवरदानपूर्वकं स्वलोकगमनम्॥२॥अग्नेस्थानगमनानन्तरं कृष्णार्जुनमयानां नदीकूल उपवेशनम्॥३॥