Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.001 BORI + Nilakantha + Kumbhaghonam
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ (बोरि १.१.०)
नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च। त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम् ॥ (कुंभ १.१.२)
नमो धर्माय महते नमः कृष्णाय वेधसे। ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ॥ (कुंभ १.१.३)
ॐ नमो भगवते वासुदेवाय। ॐ नमः पितामहाय। ॐ नमः प्रजापतिभ्यः। ॐ नमः कृष्णद्वैपायनाय। ॐ नमः सर्वविघ्नविनायकेभ्यः ॥ (कुंभ १.१.४)
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥ (बोरि १.१.१)
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान्। विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥ (बोरि १.१.२)
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः। चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥ (बोरि १.१.३)
उवाच तानृषीन्सर्वान्धन्यो वोऽस्म्यद्यदर्शनात् ॥ (कुंभ १.१.७)
वेद वैयासिकीः सर्वाः कथा धर्मार्यैसंहिताः। वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः ॥ (कुंभ १.१.८)
तस्य तद्वचनं श्रुत्वा नैमिशारण्यवासिनः ॥ (कुंभ १.१.९)
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः।अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥ (बोरि १.१.४)
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु।निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥ (बोरि १.१.५)
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च।अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥ (बोरि १.१.६)
कुत आगम्यते सौते क्व चायं विहृतस्त्वया।कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥ (बोरि १.१.७)
एवं पृष्टोऽब्रवीत्सम्यग्यथावल्लौमहर्षणिः। वाक्यं वचनसम्पन्नस्तेषां च चरिताश्रयम् ॥ (नील​ १.१.८)
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम् ॥ (नील​ १.१.९)
सूत उवाच॥
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः।समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥ (बोरि १.१.८)
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः।कथिताश्चापि विधिवद्या वैशम्पायनेन वै ॥ (बोरि १.१.९)
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः।बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥ (बोरि १.१.१०)
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्।गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ॥ (बोरि १.१.११)
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥ (बोरि १.१.११)
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह।आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥ (बोरि १.१.१२)
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः।कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ॥ (बोरि १.१.१३)
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥ (बोरि १.१.१३)
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः।इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥ (बोरि १.१.१४)
ऋषय ऊचुः॥
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा।सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥ (बोरि १.१.१५)
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः।सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥ (बोरि १.१.१६)
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्।संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥ (बोरि १.१.१७)
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान्।यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥ (बोरि १.१.१८)
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः।संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥ (बोरि १.१.१९)
सूत उवाच॥
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्।ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ (बोरि १.१.२०)
असच्च सच्चैव च यद्विश्वं सदसतः परम्।परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ (बोरि १.१.२१)
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्।नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ (बोरि १.१.२२)
महर्षेः पूजितस्येह सर्वलोके महात्मनः।प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ (बोरि १.१.२३)
नमो भगवते तस्मै व्यासायामिततेजसे। यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥ (कुंभ १.१.३२)
सर्वाश्रमाभिशमनं सर्वतीर्थावगाहनम्। न तथा फलद सूते नारायणकथा यथा ॥ (कुंभ १.१.३३)
नास्ति नारायणसमं न भूतं न भविष्यति। एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥ (कुंभ १.१.३४)
आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे।आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥ (बोरि १.१.२४)
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्।विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥ (बोरि १.१.२५)
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः।छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥ (बोरि १.१.२६)
पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये। विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः ॥ (कुंभ १.१.३९)
शुचिः सनियमो व्यासः शान्तात्मातपसि स्थितः भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् ॥ (कुंभ १.१.४०)
प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः ॥ (कुंभ १.१.४१)
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते।बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥ (बोरि १.१.२७)
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते।यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥ (बोरि १.१.२८)
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम्।अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥ (बोरि १.१.२९)
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः।ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥ (बोरि १.१.३०)
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये।ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥ (बोरि १.१.३१)
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः।विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥ (बोरि १.१.३२)
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा।ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥ (बोरि १.१.३३)
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः।आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥ (बोरि १.१.३४)
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात्।यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ॥ (बोरि १.१.३५)
यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम्।पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥ (बोरि १.१.३६)
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये।दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ (बोरि १.१.३७)
एवमेतदनाद्यन्तं भूतसंहारकारकम्।अनादिनिधनं लोके चक्रं सम्परिवर्तते ॥ (बोरि १.१.३८)
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च।त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ॥ (बोरि १.१.३९)
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः।सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥ (बोरि १.१.४०)
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः।देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥ (बोरि १.१.४१)
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः।दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥ (बोरि १.१.४२)
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः।ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥ (बोरि १.१.४३)
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः।तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥ (बोरि १.१.४४)
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः।सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः ॥ (बोरि १.१.४५)
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्।वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥ (बोरि १.१.४६)
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च।लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ॥ (बोरि १.१.४७)
नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः ॥ (कुंभ १.१.६३)
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च।इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥ (बोरि १.१.४८)
संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम् ॥ (कुंभ १.१.६४)
विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत्।इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ (बोरि १.१.४९)
मन्वादि भारतं केचिदास्तीकादि तथापरे।तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥ (बोरि १.१.५०)
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः।व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥ (बोरि १.१.५१)
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्।इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥ (बोरि १.१.५२)
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः।मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥ (बोरि १.१.५३)
तदाख्यानवरिष्ठं स कृत्वा द्वैपायनः प्रभुः ॥ (नील​ १.१.५५)
कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत्। तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च ॥ (नील​ १.१.५६)
तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्। प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया ॥ (नील​ १.१.५७)
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः। आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः ॥ (नील​ १.१.५८)
हिरण्यगर्भमासीनं तस्मिंस्तु परमासने। परिवृत्यासनाभ्याशे वासवेयः स्थितोऽभवत् ॥ (नील​ १.१.५९)
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना। निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः ॥ (नील​ १.१.६०)
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्। कृतं मयेदं भगवान्काव्यं परमपूजितम् ॥ (नील​ १.१.६१)
ब्रह्मन्वेदरहस्यं च यच्चान्यत्स्थापितं मया। साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया ॥ (नील​ १.१.६२)
इतिहासपुराणानामुन्मेषं निर्मितं च यत्। भूतं भव्यं भविष्यच्च त्रिविधं कालसञ्ज्ञितम् ॥ (नील​ १.१.६३)
जरामृत्युभयव्याधिभावाभावविनिश्चयः। विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम् ॥ (नील​ १.१.६४)
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः। तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः ॥ (नील​ १.१.६५)
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह। ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च ॥ (नील​ १.१.६६)
न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा। हेतुनैव समं जन्म दिव्यमानुषसञ्ज्ञितम् ॥ (नील​ १.१.६७)
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्। नदीनां पर्वतानां च वनानां सागरस्य च ॥ (नील​ १.१.६८)
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्। वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः ॥ (नील​ १.१.६९)
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्। परं न लेखकः कश्चिदेतस्य भुवि विद्यते ॥ (नील​ १.१.७०)
ब्रह्मोवाच। तपोविशिष्टदपि वै विशिष्टान्मुनिसञ्चयात्। मन्ये श्रेष्ठतरं त्वां वै रहस्यज्ञानवेदनात् ॥ (नील​ १.१.७१)
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम्। त्वया च काव्यमित्युक्तं तस्मात्काव्यं भविष्यति ॥ (नील​ १.१.७२)
अस्य काव्यस्य कवयो न समर्था विशेषणे। विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः ॥ (नील​ १.१.७३)
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने। सौतिरुवाच। एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् ॥ (नील​ १.१.७४)
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः। स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः ॥ (नील​ १.१.७५)
तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः। पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदाऽनघ ॥
लेखको भारतस्यास्य भव त्वं गणनायक। मयैव प्रोच्यमानस्य मनसा कल्पितस्य च ॥ (नील​ १.१.७७)
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्। लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥ (नील​ १.१.७८)
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्। ओमित्युक्त्वा गणेशोऽपि बभूव किल लेखकः ॥ (नील​ १.१.७९)
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात्। यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम् ॥ (नील​ १.१.८०)
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च। अहं वेद्मि शुको वेत्ति सञ्जयो वेत्ति वा न वा ॥ (नील​ १.१.८१)
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने। भेत्तुं न शक्यतेऽर्थस्य गूढत्वात्प्रश्रितस्य च ॥ (नील​ १.१.८२)
सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन्। तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि ॥ (नील​ १.१.८३)
अज्ञानतिमिरान्धस्य लोकस्य तु विचेष्टतः। ज्ञानाञ्जनशालाकाभिः नेत्रोऽन्मीलनकारकम् ॥ (नील​ १.१.८४)
धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः। तथा भारतसूर्येण नृणां विनिहतं तमः ॥ (नील​ १.१.८५)
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः। नृबुद्धिकौरवाणां च कृतमेतत्प्रकाशनम् ॥ (नील​ १.१.८६)
इतिहासप्रदीपेन मोहावरणघातिना। लोकगर्भगृहं कृत्स्नं यथावत्सम्प्रकाशितम् ॥ (नील​ १.१.८७)
सङ्ग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान्। सम्भवस्कन्धविस्तारः सभारण्यविटङ्कवान् ॥ (नील​ १.१.८८)
अरणीपर्वरुपाढ्यो विराटोद्योगसारवान्। भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् ॥ (नील​ १.१.८९)
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः। स्त्रीपर्वैवीकविश्रामः शान्तिपर्वमहाफलः ॥ (नील​ १.१.९०)
अश्वमेधामृतरसस्वाश्रमस्थानसंशयः। मौसलः श्रुतिसङ्क्षेपः शिष्टद्विजनिषेवितः ॥ (नील​ १.१.९१)
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति। पर्जन्य इव भूतानामक्षयो भारतद्रुमः ॥ (नील​ १.१.९२)
सौतिरुवाच। तस्य वृक्षस्य वक्ष्यामि शश्वत्पुष्पफलोदयम्। स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि ॥ (नील​ १.१.९३)
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥ (बोरि १.१.५४)
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ (बोरि १.१.५५)
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्।अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥ (बोरि १.१.५६)
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥ (बोरि १.१.५७)
स सदस्यैः सहासीनः श्रावयामास भारतम्।कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥ (बोरि १.१.५८)
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्।क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥ (बोरि १.१.५९)
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥ (बोरि १.१.६०)
इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम्। उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ॥ (कुंभ १.१.७७)
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्।उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥ (बोरि १.१.६१)
ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः।अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥ (बोरि १.१.६२)
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥ (बोरि १.१.६३)
षष्टिं शतसहस्राणि चकारान्यां स संहिताम् ॥ (नील​ १.१.१०५)
त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम्। पित्र्ये पञ्चदश प्रोक्तं गन्धर्वेषु चतुर्दश ॥ (नील​ १.१.१०६)
एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् ॥ (नील​ १.१.१०७)
नारदोऽश्रावयद्देवानसितो देवलः पितृन्।गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ (बोरि १.१.६४)
वैशम्पायनविप्रर्षिः श्रावयामास पार्थिवम्। पारिक्षितं महात्मानं नाम्ना तु जनमेजयम् ॥ (कुंभ १.१.१२५)
अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान्। शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः ॥ (कुंभ १.१.१२६)
एकं शतसहस्रं तु मयोक्तं वै निबोधत ॥ (कुंभ १.१.१२७)
दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः। दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ॥ (बोरि १.१.६५)
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः। माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ (नील​ १.१.१११)
पाण्डुर्जित्वा बहून्देशान्बुद्ध्या विक्रमणेन च। अरण्ये मृगयाशीलो न्यवसन्मुनिभिः सह ॥ (नील​ १.१.११२)
मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम्। जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥ (नील​ १.१.११३)
स सदस्यैः सहासीनः श्रावयामास भारतम्। कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥ (बोरि १.१.६६)
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्। क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥ (बोरि १.१.६७)
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्। दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥ (बोरि १.१.६८)
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति। धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥ (बोरि १.१.६९)
ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा। धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया ॥ (कुंभ १.१.१३३)
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च। जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः ॥ (कुंभ १.१.१३४)
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः। मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥ (बोरि १.१.७०)
तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु ॥ (कुंभ १.१.१३५)
माद्र्या तु सह संगम्य ऋषिशापप्रभावतः। मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ ॥ (कुंभ १.१.१३६)
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम्। शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥ (बोरि १.१.७१)
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः। पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥ (बोरि १.१.७२)
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा। शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥ (बोरि १.१.७३)
आहुः केचिन्न तस्यैते तस्यैत इति चापरे। यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥ (बोरि १.१.७४)
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम्। उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥ (बोरि १.१.७५)
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन्। अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥ (बोरि १.१.७६)
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः। आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥ (बोरि १.१.७७)
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः। शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥ (बोरि १.१.७८)
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च। न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥ (बोरि १.१.७९)
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन्। धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ (बोरि १.१.८०)
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च। तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥ (बोरि १.१.८१)
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्।प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥ (बोरि १.१.८२)
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्।आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥ (बोरि १.१.८३)
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान्।आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥ (बोरि १.१.८४)
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः।युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ॥ (बोरि १.१.८५)
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च।घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥ (बोरि १.१.८६)
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः।मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥ (बोरि १.१.८७)
विचित्राणि च वासांसि प्रावारावरणानि च। कम्बलाजिनरत्नानि राङ्कवास्तरणानि च ॥ (नील​ १.१.१३३)
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम्।ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥ (बोरि १.१.८८)
विमानप्रतिमां चापि मयेन सुकृतां सभाम्।पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥ (बोरि १.१.८९)
यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात्।प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥ (बोरि १.१.९०)
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च। कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥ (बोरि १.१.९१)
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः। तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥ (बोरि १.१.९२)
नातिप्रीतमनाः च आसीत् विवादांश् च अन्वमोदत। द्यूतादीन् नयान् घोरान् प्रवृद्धांश् च अपि उपैक्षत ॥ (बोरि १.१.९३)
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम्। विग्रहे तुमुले तस्मिन् अहन् क्षत्रं परस्परम् ॥ (बोरि १.१.९४)
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्। दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेः तथा ॥ (बोरि १.१.९५)
धृतराष्ट्रः चिरं ध्यात्वा सञ्जयं वाक्यम् अब्रवीत् ॥ (बोरि १.१.९५)
शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि। श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥ (बोरि १.१.९६)
न विग्रहे मम मतिः न च प्रीये कुरुक्षये। न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥ (बोरि १.१.९७)
वृद्धं मामभ्यसूयन्ति पुत्रा मन्यु-परायणाः। अहं तु अचक्षुः कार्पण्यात् पुत्र-प्रीत्याः सहामि तत् ॥ (बोरि १.१.९८)
मुह्यन्तं च अनुमुह्यामि दुर्योधनम् अचेतनम् ॥ (बोरि १.१.९८)
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः। तच्च अवहसनं प्राप्य सभारोहणदर्शने ॥ (बोरि १.१.९९)
अमर्षितः स्वयं जेतुं अशक्तः पाण्डवान् रणे। निरुत्साहश्च सम्प्राप्तुं श्रियम् अक्षत्रियः यथा ॥ (बोरि १.१.१००)
गान्धारराजसहितः छद्मद्यूतम् अमन्त्रयत् ॥ (बोरि १.१.१००)
तत्र यद्यत् यथा ज्ञातं मया सञ्जय तत् शृणु। श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ॥ (बोरि १.१.१०१)
ततः ज्ञास्यसि मां सौते प्रज्ञा-चक्षुषम् इति उक्तम् ॥ (बोरि १.१.१०१)
यदा अश्रौषम् धनुः आयम्य चित्रम्; विद्धम् लक्ष्यं पातितम् वै पृथिव्याम्। कृष्णां हृतां पश्यतां सर्वराज्ञाम्; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१०२)
यदा अश्रौषम् द्वारकायां सुभद्रां; प्रसह्य ऊढां माधवीम् अर्जुनेन। इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१०३)
यदा अश्रौषम् देवराजम् प्रवृष्टम्; शरैः दिव्यैः वारितं च अर्जुनेन। अग्निम् तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१०४)
यदाऽश्रौषं जातुषाद्वेश्मनस्तान्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्। युक्तं चैषां विदुरं स्वार्थसिद्धौ तदा नाशंसे विजयाय सञ्जय ॥ (नील​ १.१.१५३)
यदाऽश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन। शूरान्पञ्चालान्पाण्डवेयांश्च युक्तांस्तदा नाशंसे विजयाय सञ्जय ॥ (नील​ १.१.१५४)
यदाऽश्रौषं मागधानां वरिष्ठं जरासन्धं क्षत्रमध्ये ज्वलन्तम्। दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय सञ्जय ॥ (नील​ १.१.१५५)
यदाऽश्रौषं दिग्जये पाण्डुपुत्रैर्वशीकृतान्भूमिपालान्प्रसह्य। महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय सञ्जय ॥ (नील​ १.१.१५६)
यदा अश्रौषम् हृत-राज्यम् युधिष्ठिरम्; पराजितम् सौबलेन अक्षवत्याम्। अन्वागतं भ्रातृभिः अप्रमेयैः; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१०५)
यदा अश्रौषम् द्रौपदीम् अश्रु-कण्ठीम्; सभाम् नीताम् दुःखिताम् एक-वस्त्राम्। रजस्वलाम् नाथवतीम् अनाथवत्; तदा न अशंसे विजयाय सञ्जय ॥ (बोरि १.१.१०६)
यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः। दुःशासनो गतवान्नैव चान्तं तदा नाशंसे विजयाय सञ्जय ॥ (नील​ १.१.१५८)
यदा अश्रौषम् विविधाः तात चेष्टाः; धर्मात्मनां प्रस्थितानां वनाय। ज्येष्ठ-प्रीत्या क्लिश्यतां पाण्डवानां; तदा न अशंसे विजयाय सञ्जय ॥ (बोरि १.१.१०७)
यदा अश्रौषम् स्नातकानां सहस्रैः; अन्वागतं धर्मराजं वनस्थम्। भिक्षा-भुजां ब्राह्मणानां महात्मनाम्; तदा न अशंसे विजयाय सञ्जय ॥ (बोरि १.१.१०८)
यदाऽश्रौषं वनवासेन पार्थान्समागतान्महर्षिभिः पुराणैः। उपास्यमानान्सगणैर्जातसख्यांस्तदा नाशंसे विजयाय संजर्य ॥ (कुंभ १.१.१८४)
यदा अश्रौषम् अर्जुनः देव-देवम्; किरात-रूपम् त्र्यम्बकम् तोष्य युद्धे। अवाप तत् पाशुपतं महास्त्रं; तदा न अशंसे विजयाय सञ्जय ॥ (बोरि १.१.१०९)
यदा अश्रौषम् त्रिदिवस्थम् धनञ्जयम्; शक्रात् साक्षात् दिव्यमस्त्रं यथावत्। अधीयानं शंसितं सत्यसन्धम्; तदा न अशंसे विजयाय सञ्जय ॥ (बोरि १.१.११०)
यदाऽश्रोषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः। देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय सञ्जय ॥ (नील​ १.१.१६४)
यदाऽश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम्। कृतार्थं चाप्यागतं शक्रलोकात्तदा नाशंसे विजयाय सञ्जय ॥ (नील​ १.१.१६५)
यदाऽश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन। बृहदश्वादक्षहृदयं च प्राप्तं तदा नाशंसे विजयाय संजय ॥ (कुंभ १.१.१८८)
यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान्। तस्मिन् देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१११)
यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैः मोक्षणं च अर्जुनेन। स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.११२)
यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत। प्रश्नानुक्तान्विब्रुवन्तं च सम्यक्; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.११३)
यदाऽश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान्। विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय सञ्जय ॥ (नील​ १.१.१६९)
यदाऽश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम्। द्रौपद्यर्थे भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय संजय ॥ (कुंभ १.१.१९३)
यदाश्रौषं मामकानां वरिष्ठान्; धनञ्जयेनैकरथेन भग्नान्। विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.११४)
यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम् उत्तराम् अर्जुनाय। तां च अर्जुनः प्रत्यगृह्णात् सुतार्थे; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.११५)
यदाश्रौषं निर्जितस्य अधनस्य; प्रव्राजितस्य स्वजनात् प्रच्युतस्य। अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.११६)
यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतः नारदस्य। अहं द्रष्टा ब्रह्मलोके सदा इति; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.११७)
यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम्। यस्य इमां गां विक्रमम् एकम् आहु; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.११८)
यदाऽश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम्। शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय सञ्जय ॥ (नील​ १.१.१७५)
यदाश्रौषं कर्ण-दुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य। तं च आत्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.११९)
यदाश्रौषं वासुदेवे प्रयाते; रथस्य एकाम् अग्रतः तिष्ठमानाम्। आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१२०)
यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शान्तनवं च तेषाम्। भारद्वाजं च आऽशिषः अनुब्रुवाणं; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१२१)
यदाश्रौषं कर्ण उवाच भीष्मं; न अहं योत्स्ये युध्यमाने त्वयि इति। हित्वा सेनाम् अपचक्राम चैव; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१२२)
यदाश्रौषं वासुदेव-अर्जुनौ तौ; तथा धनुः गाण्डिवम् अप्रमेयम्। त्रीणि उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१२३)
यदाश्रौषं कश्मलेन अभिपन्ने; रथ-उपस्थे सीदमाने अर्जुने वै। कृष्णं लोकान् दर्शयानं शरीरे; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१२४)
यदाश्रौषं भीष्मम् अमित्रकर्शनं; निघ्नन्तम् आजावयुतं रथानाम्। नैषां कश्चित् वध्यते दृश्य-रूपः; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१२५)
यदाऽश्रौषं चापगेयेन सङ्ख्ये स्वयं मृत्युं विहितं धार्मिकेण। तच्चाकार्षुः पाण्डवेयाः प्रहृष्टास्तदा नाशंसे विजयाय सञ्जय ॥ (नील​ १.१.१८३)
यदाश्रौषं भीष्मम् अत्यन्त-शूरं; हतं पार्थेन आहवेषु अप्रधृष्यम्। शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१२६)
यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः। भीष्मं कृत्वा सोमकान् अल्पशेषान्; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१२७)
यदाश्रौषं शान्तनवे शयाने; पानीयार्थे चोदितेन अर्जुनेन। भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१२८)
यदाश्रौषं शुक्र-सूर्यौ च युक्तौ; कौन्तेयानाम् अनुलोमौ जयाय। नित्यं च अस्मान् श्वापदाः व्याभषन्त; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१२९)
यदा द्रोणः विविधान् अस्त्रमार्गान्; विदर्शयन् समरे चित्रयोधी। न पाण्डवान् श्रेष्ठतमान् निहन्ति; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१३०)
यदाश्रौषं च अस्मदीयान् महारथान्; व्यवस्थितान् अर्जुनस्य अन्तकाय। संशप्तकान् निहतान् अर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१३१)
यदाश्रौषं व्यूहम् अभेद्यम् अन्यैः; भारद्वाजेन आत्त-शस्त्रेण गुप्तम्। भित्त्वा सौभद्रं वीरम् एकं प्रविष्टं; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१३२)
यदा अभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्ट-रूपा बभूवुः। महारथाः पार्थम् अशक्नुवन्त; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१३३)
यदाश्रौषं अभिमन्युं निहत्य; हर्षात् मूढान् क्रोशतः धार्तराष्ट्रान्। क्रोधं मुक्तं सैन्धवे च अर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१३४)
यदाश्रौषं सैन्धव-अर्थे प्रतिज्ञाम्; प्रतिज्ञाताम् तद्वधाय अर्जुनेन। सत्याम् निस्तीर्णाम् शत्रु-मध्ये च तेन; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१३५)
यदाश्रौषं श्रान्त-हये धनञ्जये; मुक्त्वा हयान् पाययित्वा उपवृत्तान्। पुनः युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१३६)
यदाश्रौषं वाहनेषु आश्वसत्सु; रथ-उपस्थे तिष्ठता गाण्डिवेन। सर्वान् योधान् वारितान् अर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१३७)
यदाश्रौषं नागबलैः दुरुत्सहं; द्रोण-आनीकं युयुधानं प्रमथ्य। यातं वार्ष्णेयं यत्र तौ कृष्ण-पार्थौ; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१३८)
यदाश्रौषं कर्णम् आसाद्य मुक्तं; वधात् भीमं कुत्सयित्वा वचोभिः। धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१३९)
यदा द्रोणः कृतवर्मा कृपश्च; कर्णः द्रौणिः मद्रराजश्च शूरः। अमर्षयन् सैन्धवं वध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१४०)
यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन। घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१४१)
यदाश्रौषं कर्ण-घटोत्कचाभ्याम्; युद्धे मुक्तां सूतपुत्रेण शक्तिम्। यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१४२)
यदाश्रौषं द्रोणम् आचार्यम् एकं; धृष्टद्युम्नेन अति-क्रम्य धर्मम्। रथ-उपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१४३)
यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये। समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१४४)
यदा द्रोणे निहते द्रोणपुत्रः; नारायणं दिव्यमस्त्रं विकुर्वन्। नैषां अन्तं गतवान् पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१४५)
यदाऽश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य। निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय सञ्जय ॥ (नील​ १.१.२०४)
यदाश्रौषं कर्णम् अत्यन्त-शूरं; हतं पार्थेन आहवेषु अप्रधृष्यम्। तस्मिन् भ्रातृणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१४६)
यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणम् उग्रम्। युधिष्ठिरं शून्यम् अधर्षयन्तम्; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१४७)
यदाश्रौषं निहतम् मद्रराजं; रणे शूरं धर्मराजेन सूत। सदा सङ्ग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१४८)
यदाश्रौषं कलह-द्यूत-मूलं; माया-बलं सौबलं पाण्डवेन। हतम् सङ्ग्रामे सहदेवेन पापम्; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१४९)
यदाश्रौषं श्रान्तम् एकं शयानं; ह्रदम् गत्वा स्तम्भयित्वा तत् अम्भः। दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१५०)
यदाश्रौषं पाण्डवाँस् तिष्ठमानान्; गङ्गा-ह्रदे वासुदेवेन सार्धम्। अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१५१)
यदाश्रौषं विविधान् तात मार्गान्; गदायुद्धे मण्डलं सञ्चरन्तम्। मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१५२)
यदाश्रौषं द्रोणपुत्रादिभिः तैः; हतान् पाञ्चालान् द्रौपदेयान् च सुप्तान्। कृतं बीभत्सम अयशस्यं च कर्म; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१५३)
यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम्। क्रुद्धेन ऐषीकम् अवधीद् येन गर्भं; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१५४)
यदाश्रौषं ब्रह्मशिरः अर्जुनेन; मुक्तं स्वस्ति इति अस्त्रम् अस्त्रेण शान्तम्। अश्वत्थाम्ना मणि-रत्नं च दत्तम्; तदा नाशंसे विजयाय सञ्जय ॥ (बोरि १.१.१५५)
यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्याया वै पात्यमाने महास्त्रे। द्वैपायनः केशवः द्रोणपुत्रं; परस्परेण अभिशापैः शशाप ॥ (बोरि १.१.१५६)
संजीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय संजय ॥ (कुंभ १.१.२३९)
बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत संतप्ये वै पुत्रपौत्रैश्च हीनः ॥ (कुंभ १.१.२४०)
शोच्याः गान्धारी पुत्रपौत्रैः विहीना; तथा वध्वः पितृभिः भ्रातृभिः च। कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यं असपत्नं पुनः तैः ॥ (बोरि १.१.१५७)
कष्टं युद्धे दश शेषाः श्रुताः मे; त्रयः अस्माकं पाण्डवानां च सप्त। द्वि-ऊना विंशतिः आहत-अक्षौहिणीनां; तस्मिन् संग्रामे विग्रहे क्षत्रियाणाम् ॥ (बोरि १.१.१५८)
तमसा तु अभ्यवस्तीर्णो; मोहः आविशतीव माम्। सञ्ज्ञां न उपलभे सूत; मनः विह्वलतीव मे ॥ (बोरि १.१.१५९)
इति उक्त्वा धृतराष्ट्रः अथ; विलप्य बहु-दुःखितः। मूर्च्छितः पुनः आश्वस्तः; सञ्जयं वाक्यम् अब्रवीत् ॥ (बोरि १.१.१६०)
सञ्जय एवम् गते प्राणान् त्यक्तुम् इच्छामि मा चिरम्। स्तोकम् हि अपि न पश्यामि फलम् जीवित-धारणे ॥ (बोरि १.१.१६१)
तं तथा वादिनं दीनं विलपन्तं महीपतिम्। गावल्गणिः इदं धीमान् महार्थं वाक्यम् अब्रवीत् ॥ (बोरि १.१.१६२)
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः ॥ (नील​ १.१.२२१)
श्रुतवान् असि वै राज्ञो महोत्साहान् महाबलान्। द्वैपायनस्य वदतः नारदस्य च धीमतः ॥ (बोरि १.१.१६३)
महत्सु राजवंशेषु गुणैः समुदितेषु च। जातान् दिव्यास्त्रविदुषः शक्र-प्रतिम-तेजसः ॥ (बोरि १.१.१६४)
धर्मेण पृथिवीं जित्वा यज्ञैः इष्ट्वा आप्त-दक्षिणैः। अस्मिन् लोके यशः प्राप्य ततः काल-वशं गताः ॥ (बोरि १.१.१६५)
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम्। सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथा औशिजम् ॥ (बोरि १.१.१६६)
बाह्लीकं दमनं शैब्यं शर्यातिम अजितं जितम्। विश्वामित्रम् अमित्रघ्नम् अम्बरीषं महाबलम् ॥ (बोरि १.१.१६७)
मरुत्तं मनुम् इक्ष्वाकुं गयं भरतमेव च। रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥ (बोरि १.१.१६८)
कृतवीर्यं महाभागं तथैव जनमेजयम् ॥ (नील​ १.१.२२८)
ययातिं शुभकर्माणं देवैः यः याजितः स्वयम्। चैत्य-यूपाङ्किता भूमिः यस्य इयम् सवनाकरा ॥ (बोरि १.१.१६९)
इति राज्ञां चतुर्विंशत् नारदेन सुरर्षिणा। पुत्रशोक-अभितप्ताय पुरा शैब्याय कीर्तिताः ॥ (बोरि १.१.१७०)
तेभ्यः च अन्ये गताः पूर्वं; राजानः बलवत्-तराः। महारथाः महात्मानः; सर्वैः समुदिताः गुणैः ॥ (बोरि १.१.१७१)
पूरुः कुरुः यदुः शूरः; विष्वगश्वः महा-धृतिः। अनेनाः युवनाश्वः च; ककुत्स्थः विक्रमी रघुः ॥ (बोरि १.१.१७२)
विजिती वीतिहोत्रः च; भवः श्वेतः बृहद्गुरुः। उशीनरः शतरथः; कङ्कः दुलिदुहः द्रुमः ॥ (बोरि १.१.१७३)
दम्भोद्भवः परः वेनः; सगरः सङ्कृतिः निमिः। अजेयः परशुः पुण्ड्रः; शम्भुः देवावृद्धः अनघः ॥ (बोरि १.१.१७४)
देव-आह्वयः सुप्रतिमः सुप्रतीकः बृहद्रथः। महोत्साहः विनीतात्मा सुक्रतुः नैषधः नलः ॥ (बोरि १.१.१७५)
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः। जानुजङ्घः अनरण्यः अर्कः प्रियभृत्यः शुभव्रतः ॥ (बोरि १.१.१७६)
बलबन्धुः निरामर्दः केतुशृङ्गः बृहद्बलः। धृष्टकेतुः बृहत्केतुः दीप्तकेतुः निरामयः ॥ (बोरि १.१.१७७)
अविक्षित् प्रबलः धूर्तः कृतबन्धुः दृढेषुधिः। महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ॥ (बोरि १.१.१७८)
एते च अन्ये च बहवः शतशः अथ सहस्रशः। श्रूयन्ते अयुतशः च अन्ये सङ्ख्याताः च अपि पद्मशः ॥ (बोरि १.१.१७९)
हित्वा सुविपुलान् भोगान् बुद्धिमन्तः महाबलाः। राजानः निधनं प्राप्ताः तव पुत्रैः महत्तमाः ॥ (बोरि १.१.१८०)
येषां दिव्यानि कर्माणि विक्रमः त्यागः एव च। माहात्म्यम् अपि च आस्तिक्यं सत्यता शौचम् आर्जवम् ॥ (बोरि १.१.१८१)
विद्वद्भिः कथ्यते लोके पुराणैः कवि-सत्तमैः। सर्व-ऋद्धि-गुण-सम्पन्नाः ते च अपि निधनं गताः ॥ (बोरि १.१.१८२)
तव पुत्राः दुरात्मानः प्रतप्ताः च एव मन्युना। लुब्धाः दुर्वृत्त-भूयिष्ठाः न तान् शोचितुम् अर्हसि ॥ (बोरि १.१.१८३)
श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञ-सम्मतः। येषां शास्त्र-अनुगा बुद्धिः न ते मुह्यन्ति भारत ॥ (बोरि १.१.१८४)
निग्रह-अनुग्रहौ च अपि विदितौ ते नराधिप। न अत्यन्तम् एव अनुवृत्तिः श्रूयते पुत्र-रक्षणे ॥ (बोरि १.१.१८५)
भवितव्यं तथा तत् च; न अतः शोचितुम् अर्हसि। दैवं प्रज्ञा-विशेषेण; कः निवर्तितुम् अर्हति ॥ (बोरि १.१.१८६)
विधातृ-विहितं मार्गं; न कश्चित् अति वर्तते। काल-मूलम् इदं सर्वं; भाव-अभावौ सुख-असुखे ॥ (बोरि १.१.१८७)
कालः पचति भूतानि; कालः संहरति प्रजाः। निर्दहन्तं प्रजाः कालं; कालः शमयते पुनः ॥ (बोरि १.१.१८८)
कालः विकुरुते भावान्; सर्वान् लोके शुभ-अशुभान्। कालः सङ्क्षिपते सर्वाः; प्रजाः विसृजते पुनः ॥ (बोरि १.१.१८९)
कालः सर्वेषु भूतेषु; चरति अविधृतः समः ॥ (बोरि १.१.१८९)
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ (नील​ १.१.२५०)
अतीत-अनागताः भावाः; ये च वर्तन्ति साम्प्रतम्। तान् काल-निर्मितान् बुद्ध्वा; न सञ्ज्ञां हातुम् अर्हसि ॥ (बोरि १.१.१९०)
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्। आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा ॥ (कुंभ १.१.२७७)
धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत्। दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः ॥ (कुंभ १.१.२७८)
सूत उवाच॥
लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः ॥ (कुंभ १.१.२७९)
अत्र उपनिषदं पुण्याम् कृष्णद्वैपायनः अब्रवीत्। भारत-अध्ययनात् पुण्यात् अपि पादम् अधीयतः ॥ (बोरि १.१.१९१)
श्रद्दधानस्य पूयन्ते सर्वपापानि अशेषतः ॥ (बोरि १.१.१९१)
देवर्षयः हि अत्र पुण्याः ब्रह्म-राजर्षयः तथा। कीर्त्यन्ते शुभकर्माणः तथा यक्ष-महोरगाः ॥ (बोरि १.१.१९२)
भगवान् वासुदेवः च कीर्त्यते अत्र सनातनः। सः हि सत्यम् अमृतम् चैव पवित्रम् पुण्यम् एव च ॥ (बोरि १.१.१९३)
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्। यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥ (बोरि १.१.१९४)
असत् सत् सत्-असत् च एव; यस्मात् देवात् प्रवर्तते। सन्ततिः च प्रवृत्तिः च; जन्म मृत्युः पुनर्भवः ॥ (बोरि १.१.१९५)
अध्यात्मं श्रूयते यत् च पञ्चभूत-गुणात्मकम्। अव्यक्त-आदि परं यत् च सः एव परिगीयते ॥ (बोरि १.१.१९६)
यत् तत् यतिवराः युक्ताः ध्यान-योग-बलान्विताः। प्रतिबिम्बम् इव आदर्शे पश्यन्ति आत्मनि अवस्थितम् ॥ (बोरि १.१.१९७)
श्रद्दधानः सदा उद्युक्तः सत्य-धर्म-परायणः। आसेवन् इमम् अध्यायम् नरः पापात् प्रमुच्यते ॥ (बोरि १.१.१९८)
अनुक्रमणि-अध्यायम् भारतस्य इमम् आदितः। आस्तिकः सततं शृण्वन् न कृच्छ्रेषु अवसीदति ॥ (बोरि १.१.१९९)
उभे सन्ध्ये जपन् किञ्चित्; सद्यः मुच्येत किल्बिषात्। अनुक्रमण्या यावत् स्यात्; अह्ना रात्र्या च सञ्चितम् ॥ (बोरि १.१.२००)
भारतस्य वपुः हि एतत्; सत्यं च अमृतम् एव च। नवनीतं यथा दध्नः; द्विपदां ब्राह्मणः यथा ॥ (बोरि १.१.२०१)
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ॥ (नील​ १.१.२६५)
ह्रदानाम् उदधिः श्रेष्ठः; गौः वरिष्ठा चतुष्पदाम्। यथा एतानि वरिष्ठानि; तथा भारतम् उच्यते ॥ (बोरि १.१.२०२)
यः च एनम् श्रावयेत् श्राद्धे; ब्राह्मणान् पादम् अन्ततः। अक्षय्यम् अन्नपानं तत्; पितृन् तस्य उपतिष्ठति ॥ (बोरि १.१.२०३)
इतिहास-पुराणाभ्यां; वेदम् समुपबृंहयेत्। बिभेति अल्प-श्रुतात् वेदः; माम् अयम् प्रतरिष्यति ॥ (बोरि १.१.२०४)
कार्ष्णम् वेदम् इमम् विद्वान्; श्रावयित्वा अर्थम् अश्नुते। भ्रूण-हत्या-कृतं च अपि; पापं जह्यात् न संशयः ॥ (बोरि १.१.२०५)
यः इमं शुचिः अध्यायं पठेत् पर्वणि पर्वणि। अधीतं भारतं तेन कृत्स्नं स्यात् इति मे मतिः ॥ (बोरि १.१.२०६)
यः च इमं शृणुयात् नित्यम्; आर्षं श्रद्धा-समन्वितः। सः दीर्घम् आयुः कीर्तिं च; स्वर्ग-गतिम् च आप्नुयात् नरः ॥ (बोरि १.१.२०७)
चत्वारः एकतः वेदाः; भारतम् च एकम् एकतः। समागतैः सुरर्षिभिः; तुलाम् आरोपितं पुरा ॥ (बोरि १.१.२०८)
महत्त्वे च गुरुत्वे च; ध्रियमाणं ततः अधिकम् ॥ (बोरि १.१.२०८)
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा ॥ (नील​ १.१.२७२)
तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते ॥ (नील​ १.१.२७३)
महत्त्वात् भारवत्त्वात् च; महाभारतम् उच्यते। निरुक्तम् अस्य यः वेद; सर्व-पापैः प्रमुच्यते ॥ (बोरि १.१.२०९)
तपः न कल्कः अध्ययनं न कल्कः। स्वाभाविकः वेदविधिः न कल्कः। प्रसह्य वित्त-ाहरणं न कल्कः; तानि एव भाव-उपहतानि कल्कः ॥ (बोरि १.१.२१०)