01.011
Library:Dundubha is freed from Kagama’s curse and becomes old Shatapata
डुण्डुभ उवाच॥
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः । भृशं संशितवाक्तात तपोबलसमन्वितः ॥१-११-१॥
स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् । अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै ॥१-११-२॥
लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः । निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ॥१-११-३॥
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया । तथावीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि ॥१-११-४॥
तस्याहं तपसो वीर्यं जानमानस्तपोधन । भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् ॥१-११-५॥
प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः । सखेति हसतेदं ते नर्मार्थं वै कृतं मया ॥१-११-६॥
क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् । सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ॥१-११-७॥
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः । नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन ॥१-११-८॥
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत । श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन ॥१-११-९॥
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः । तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ॥१-११-१०॥
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः । स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् ॥१-११-११॥
अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः । तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ॥१-११-१२॥
ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः । वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः ॥१-११-१३॥
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् । ब्राह्मणस्य परो धर्मो वेदानां धरणादपि ॥१-११-१४॥
क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव । दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ॥१-११-१५॥
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो । जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा ॥१-११-१६॥
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि । तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ॥ आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ॥१-११-१७॥