Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.012
Library:Shatapata disappears
रुरुरुवाच॥
कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः । सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ॥१-१२-१॥
किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे । आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ॥१-१२-२॥
ऋषिरुवाच॥
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् । ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ॥१-१२-३॥
सूत उवाच॥
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः । तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥१-१२-४॥
लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा । पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥१-१२-५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.