01.010
Library:Ruru does not kill Dundubha suspecting him to be a sage.
रुरुरुवाच॥
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह । तत्र मे समयो घोर आत्मनोरग वै कृतः ॥१-१०-१॥
हन्यां सदैव भुजगं यं यं पश्येयमित्युत । ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ॥१-१०-२॥
डुण्डुभ उवाच॥
अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् । डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥१-१०-३॥
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् । डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥१-१०-४॥
सूत उवाच॥
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा । नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ॥१-१०-५॥
उवाच चैनं भगवान्रुरुः संशमयन्निव । कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥१-१०-६॥
डुण्डुभ उवाच॥
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् । सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥१-१०-७॥
रुरुरुवाच॥
किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम । कियन्तं चैव कालं ते वपुरेतद्भविष्यति ॥१-१०-८॥