Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.023
Library: Garuda’s desire for freedom, Nagas ask for Amrita.
सूत उवाच॥
सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै। सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् ॥१-२३-१॥
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्। भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ॥१-२३-२॥
प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम्। दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ॥१-२३-३॥
उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि। शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः ॥१-२३-४॥
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः। मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् ॥ नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ॥१-२३-५॥
तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा। अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् ॥१-२३-६॥
वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम्। त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर ॥१-२३-७॥
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा। किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ॥१-२३-८॥
विनतोवाच॥
दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम। पणं वितथमास्थाय सर्पैरुपधिना कृतम् ॥१-२३-९॥
सूत उवाच॥
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः। उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ॥१-२३-१०॥
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम्। दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः ॥१-२३-११॥
श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा। ततो दास्याद्विप्रमोक्षो भविता तव खेचर ॥१-२३-१२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.