Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.024
Library:Garuda is hungry and starts eating Nishadas.
सूत उवाच॥
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्। गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ॥१-२४-१॥
विनतोवाच॥
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्। सहस्राणामनेकानां तान्भुक्त्वामृतमानय ॥१-२४-२॥
न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन। अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥१-२४-३॥
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः। भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ॥१-२४-४॥
गरुड उवाच॥
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः। तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ॥१-२४-५॥
विनतोवाच॥
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा। दहेदङ्गारवत्पुत्र तं विद्याद्बाह्मणर्षभम् ॥१-२४-६॥
सूत उवाच॥
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः। जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ॥१-२४-७॥
पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक। शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु ॥१-२४-८॥
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा। अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये ॥१-२४-९॥
ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात। ततो निषादान्बलवानुपागम; द्बुभुक्षितः काल इवान्तको महान् ॥१-२४-१०॥
स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत्। समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् ॥१-२४-११॥
ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट्। ततो निषादास्त्वरिताः प्रवव्रजु; र्यतो मुखं तस्य भुजङ्गभोजिनः ॥१-२४-१२॥
तदाननं विवृतमतिप्रमाणव; त्समभ्ययुर्गगनमिवार्दिताः खगाः। सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने ॥१-२४-१३॥
ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः। निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा ॥१-२४-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.