01.026
Library: Gods take positions to protect amrita from Garuda.
सूत उवाच॥
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा। अभज्यत तरोः शाखा भग्नां चैनामधारयत् ॥१-२६-१॥
तां भग्नां स महाशाखां स्मयन्समवलोकयन्। अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥१-२६-२॥
स तद्विनाशसन्त्रासादनुपत्य खगाधिपः। शाखामास्येन जग्राह तेषामेवान्ववेक्षया ॥ शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ॥१-२६-३॥
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः। दयार्थं वालखिल्यानां न च स्थानमविन्दत ॥१-२६-४॥
स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम्। ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ॥१-२६-५॥
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम्। तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ॥१-२६-६॥
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्। अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् ॥१-२६-७॥
मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम्। अप्रधृष्यमजेयं च देवदानवराक्षसैः ॥१-२६-८॥
भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम्। लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ॥१-२६-९॥
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा। विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् ॥१-२६-१०॥
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्। मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः ॥१-२६-११॥
प्रसादयामास स तान्कश्यपः पुत्रकारणात्। वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ॥१-२६-१२॥
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः। चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥१-२६-१३॥
एवमुक्ता भगवता मुनयस्ते समभ्ययुः। मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ॥१-२६-१४॥
ततस्तेष्वपयातेषु पितरं विनतात्मजः। शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥१-२६-१५॥
भगवन्क्व विमुञ्चामि तरुशाखामिमामहम्। वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ॥१-२६-१६॥
ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम्। अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥१-२६-१७॥
तं पर्वतमहाकुक्षिमाविश्य मनसा खगः। जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥१-२६-१८॥
न तां वध्रः परिणहेच्छतचर्मा महानणुः। शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥१-२६-१९॥
ततः स शतसाहस्रं योजनान्तरमागतः। कालेन नातिमहता गरुडः पततां वरः ॥१-२६-२०॥
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः। अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ॥१-२६-२१॥
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्। मुमोच पुष्पवर्षं च समागलितपादपः ॥१-२६-२२॥
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः। मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥१-२६-२३॥
शाखिनो बहवश्चापि शाखयाभिहतास्तया। काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥१-२६-२४॥
ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः। व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥१-२६-२५॥
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः। भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥१-२६-२६॥
ततः पर्वतकूटाग्रादुत्पपात मनोजवः। प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ॥१-२६-२७॥
इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम्। सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता ॥१-२६-२८॥
तथा वसूनां रुद्राणामादित्यानां च सर्वशः। साध्यानां मरुतां चैव ये चान्ये देवतागणाः ॥ स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥१-२६-२९॥
अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च। ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ॥१-२६-३०॥
निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम्। देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ॥१-२६-३१॥
मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि। उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ॥ रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ॥१-२६-३२॥
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः। उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥१-२६-३३॥
किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः। न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥१-२६-३४॥
बृहस्पतिरुवाच॥
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो। तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ॥१-२६-३५॥
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः। हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ॥१-२६-३६॥
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः। सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् ॥१-२६-३७॥
सूत उवाच॥
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः। महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥१-२६-३८॥
युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात्। अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ॥१-२६-३९॥
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः। परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ॥१-२६-४०॥
धारयन्तो महार्हाणि कवचानि मनस्विनः। काञ्चनानि विचित्राणि वैडूर्यविकृतानि च ॥१-२६-४१॥
विविधानि च शस्त्राणि घोररूपाण्यनेकशः। शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ॥१-२६-४२॥
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः। चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ॥१-२६-४३॥
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्। स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥१-२६-४४॥
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः। भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥१-२६-४५॥
अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य। असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः ॥१-२६-४६॥
इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम्। विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ ॥१-२६-४७॥