01.027
Library: Significance of the birth of Garuda explained.
शौनक उवाच॥
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज। तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ॥१-२७-१॥
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः। अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् ॥१-२७-२॥
कथं च कामचारी स कामवीर्यश्च खेचरः। एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥१-२७-३॥
सूत उवाच॥
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि। शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज ॥१-२७-४॥
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः। साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥१-२७-५॥
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह। मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥१-२७-६॥
शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम्। समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ॥१-२७-७॥
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः। पलाशवृन्तिकामेकां सहितान्वहतः पथि ॥१-२७-८॥
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्। क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके ॥१-२७-९॥
तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः। अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च ॥१-२७-१०॥
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः। आरेभिरे महत्कर्म तदा शक्रभयङ्करम् ॥१-२७-११॥
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्। मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥१-२७-१२॥
कामवीर्यः कामगमो देवराजभयप्रदः। इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ॥१-२७-१३॥
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः। तपसो नः फलेनाद्य दारुणः सम्भवत्विति ॥१-२७-१४॥
तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः। जगाम शरणं तत्र कश्यपं संशितव्रतम् ॥१-२७-१५॥
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः। वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥१-२७-१६॥
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः। तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥१-२७-१७॥
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः। इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥१-२७-१८॥
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः। भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः ॥१-२७-१९॥
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान्। प्रसादः क्रियतां चैव देवराजस्य याचतः ॥१-२७-२०॥
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः। प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ॥१-२७-२१॥
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते। अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥१-२७-२२॥
तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम्। तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ॥१-२७-२३॥
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा। विनता नाम कल्याणी पुत्रकामा यशस्विनी ॥१-२७-२४॥
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः। उपचक्राम भर्तारं तामुवाचाथ कश्यपः ॥१-२७-२५॥
आरम्भः सफलो देवि भवितायं तवेप्सितः। जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥१-२७-२६॥
तपसा वालखिल्यानां मम सङ्कल्पजौ तथा। भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ ॥१-२७-२७॥
उवाच चैनां भगवान्मारीचः पुनरेव ह। धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ॥१-२७-२८॥
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति। लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः ॥१-२७-२९॥
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः। त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः ॥१-२७-३०॥
नैताभ्यां भविता दोषः सकाशात्ते पुरंदर। व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि ॥१-२७-३१॥
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः। न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ॥१-२७-३२॥
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्। विनता चापि सिद्धार्था बभूव मुदिता तदा ॥१-२७-३३॥
जनयामास पुत्रौ द्वावरुणं गरुडं तथा। अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः ॥१-२७-३४॥
पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत। तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ॥१-२७-३५॥