01.034
Library: As per Brahma’s word, Jaratkaru will marry Jaratkaru, Vasuki’s sister to beget Astika, who will free snakes from the curse.
सूत उवाच॥
श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च। वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥१-३४-१॥
न स यज्ञो न भविता न स राजा तथाविधः। जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ॥१-३४-२॥
दैवेनोपहतो राजन्यो भवेदिह पूरुषः। स दैवमेवाश्रयते नान्यत्तत्र परायणम् ॥१-३४-३॥
तदिदं दैवमस्माकं भयं पन्नगसत्तमाः। दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥१-३४-४॥
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा। मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ॥१-३४-५॥
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो। पितामहमुपागम्य दुःखार्तानां महाद्युते ॥१-३४-६॥
देवा ऊचुः॥
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह। ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥१-३४-७॥
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह। एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ॥१-३४-८॥
ब्रह्मोवाच॥
बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः। प्रजानां हितकामोऽहं न निवारितवांस्तदा ॥१-३४-९॥
ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः। तेषां विनाशो भविता न तु ये धर्मचारिणः ॥१-३४-१०॥
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्। पन्नगानां निबोधध्वं तस्मिन्काले तथागते ॥१-३४-११॥
यायावरकुले धीमान्भविष्यति महानृषिः। जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ॥१-३४-१२॥
तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः। आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ॥ तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥१-३४-१३॥
देवा ऊचुः॥
स मुनिप्रवरो देव जरत्कारुर्महातपाः। कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥१-३४-१४॥
ब्रह्मोवाच॥
सनामायां सनामा स कन्यायां द्विजसत्तमः। अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ॥१-३४-१५॥
एलापत्र उवाच॥
एवमस्त्विति तं देवाः पितामहमथाब्रुवन्। उक्त्वा चैवं गता देवाः स च देवः पितामहः ॥१-३४-१६॥
सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव। जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ॥१-३४-१७॥
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये। ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ॥१-३४-१८॥