01.033
Library: Focus shifts to snake sacrifice of Janamejaya. Snakes give inadequate suggestions on overcoming the danger.
सूत उवाच॥
मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः। वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ॥१-३३-१॥
ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः। ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः ॥१-३३-२॥
वासुकिरुवाच॥
अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः। तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ॥१-३३-३॥
सर्वेषामेव शापानां प्रतिघातो हि विद्यते। न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः ॥१-३३-४॥
अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः। शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ॥१-३३-५॥
नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः। न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् ॥१-३३-६॥
तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम्। यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् ॥१-३३-७॥
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे। यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ॥१-३३-८॥
यथा स यज्ञो न भवेद्यथा वापि पराभवेत्। जनमेजयस्य सर्पाणां विनाशकरणाय हि ॥१-३३-९॥
सूत उवाच॥
तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः। समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः ॥१-३३-१०॥
एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः। जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति ॥१-३३-११॥
अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः। मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ॥१-३३-१२॥
स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्। तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते ॥१-३३-१३॥
स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः। यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ॥१-३३-१४॥
दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्। हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ॥१-३३-१५॥
अथवा य उपाध्यायः क्रतौ तस्मिन्भविष्यति। सर्पसत्रविधानज्ञो राजकार्यहिते रतः ॥१-३३-१६॥
तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति। तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति ॥१-३३-१७॥
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः। तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ॥१-३३-१८॥
तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजङ्गमाः। अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना ॥१-३३-१९॥
सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा। अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ॥१-३३-२०॥
अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्। वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ॥१-३३-२१॥
स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः। प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ॥१-३३-२२॥
यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः। जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ॥१-३३-२३॥
अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः। स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ॥१-३३-२४॥
अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे। यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति ॥ वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् ॥१-३३-२५॥
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम्। गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ॥१-३३-२६॥
अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः। दशामैनं प्रगृह्याशु कृतमेवं भविष्यति ॥ छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ॥१-३३-२७॥
एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता। यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् ॥१-३३-२८॥
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम्। वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् ॥१-३३-२९॥
नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः। सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ॥१-३३-३०॥
किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम्। अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ॥१-३३-३१॥