01.035
Library: Vasuki keeps a special vigil on sister Jaratkaru to ensure Brahma’s words come true.
सूत उवाच॥
एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम। सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् ॥१-३५-१॥
ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत। जरत्कारुं स्वसारं वै परं हर्षमवाप च ॥१-३५-२॥
ततो नातिमहान्कालः समतीत इवाभवत्। अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् ॥१-३५-३॥
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः। समाप्यैव च तत्कर्म पितामहमुपागमन् ॥१-३५-४॥
देवा वासुकिना सार्धं पितामहमथाब्रुवन्। भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ॥१-३५-५॥
तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि। जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः ॥१-३५-६॥
हितो ह्ययं सदास्माकं प्रियकारी च नागराट्। कुरु प्रसादं देवेश शमयास्य मनोज्वरम् ॥१-३५-७॥
ब्रह्मोवाच॥
मयैवैतद्वितीर्णं वै वचनं मनसामराः। एलापत्रेण नागेन यदस्याभिहितं पुरा ॥१-३५-८॥
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा। विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ॥१-३५-९॥
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः। तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ॥१-३५-१०॥
यदेलापत्रेण वचस्तदोक्तं भुजगेन ह। पन्नगानां हितं देवास्तत्तथा न तदन्यथा ॥१-३५-११॥
सूत उवाच॥
एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा। सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ॥१-३५-१२॥
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः। शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति ॥१-३५-१३॥