01.045
Library: Enquired by Janamejaya, Parikshit’s life story narrated again!
शौनक उवाच॥
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः। पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ॥१-४५-१॥
सूत उवाच॥
शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा। आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः ॥१-४५-२॥
जनमेजय उवाच॥
जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम। आसीद्यथा च निधनं गतः काले महायशाः ॥१-४५-३॥
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः। कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् ॥१-४५-४॥
सूत उवाच॥
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना। सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् ॥१-४५-५॥
धर्मात्मा च महात्मा च प्रजापालः पिता तव। आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् ॥१-४५-६॥
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत। धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ॥१-४५-७॥
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः। द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कञ्चन ॥ समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ॥१-४५-८॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु। स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः ॥१-४५-९॥
विधवानाथकृपणान्विकलांश्च बभार सः। सुदर्शः सर्वभूतानामासीत्सोम इवापरः ॥१-४५-१०॥
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः। धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः ॥१-४५-११॥
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय। लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ॥१-४५-१२॥
परिक्षीणेषु कुरुषु उत्तरायामजायत। परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ॥१-४५-१३॥
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः। जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः ॥१-४५-१४॥
षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः। प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् ॥१-४५-१५॥
ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् ॥१-४५-१५॥
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान्। इदं वर्षसहस्राय राज्यं कुरुकुलागतम् ॥ बाल एवाभिजातोऽसि सर्वभूतानुपालकः ॥१-४५-१६॥
जनमेजय उवाच॥
नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च। विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम् ॥१-४५-१७॥
कथं निधनमापन्नः पिता मम तथाविधः। आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ॥१-४५-१८॥
सूत उवाच॥
एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम्। ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः ॥१-४५-१९॥
बभूव मृगयाशीलस्तव राजन्पिता सदा। यथा पाण्डुर्महाभागो धनुर्धरवरो युधि ॥ अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ॥१-४५-२०॥
स कदाचिद्वनचरो मृगं विव्याध पत्रिणा। विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ॥१-४५-२१॥
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान्। न चाससाद गहने मृगं नष्टं पिता तव ॥१-४५-२२॥
परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः। क्षुधितः स महारण्ये ददर्श मुनिमन्तिके ॥१-४५-२३॥
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम्। न च किञ्चिदुवाचैनं स मुनिः पृच्छतोऽपि सन् ॥१-४५-२४॥
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम्। मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ ॥१-४५-२५॥
न बुबोध हि तं राजा मौनव्रतधरं मुनिम्। स तं मन्युसमाविष्टो धर्षयामास ते पिता ॥१-४५-२६॥
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात्। तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ॥१-४५-२७॥
न चोवाच स मेधावी तमथो साध्वसाधु वा। तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् ॥१-४५-२८॥