Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.047
Library: Snake sacrifice starts with black dressed, red eyed officiating priests and snakes start dying because of their mother's curse.
सूत उवाच॥
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः। आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ॥ ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ॥१-४७-१॥
पुरोहितमथाहूय ऋत्विजं वसुधाधिपः। अब्रवीद्वाक्यसम्पन्नः सम्पदर्थकरं वचः ॥१-४७-२॥
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्। प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ॥१-४७-३॥
अपि तत्कर्म विदितं भवतां येन पन्नगम्। तक्षकं सम्प्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् ॥१-४७-४॥
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना। तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् ॥१-४७-५॥
ऋत्विज ऊचुः॥
अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम्। सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप ॥१-४७-६॥
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप। इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥१-४७-७॥
सूत उवाच॥
एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम्। हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम ॥१-४७-८॥
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा। आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे ॥१-४७-९॥
ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम। देशं तं मापयामासुर्यज्ञायतनकारणात् ॥ यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ॥१-४७-१०॥
ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम्। प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् ॥१-४७-११॥
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्। राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ॥१-४७-१२॥
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति। निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ॥१-४७-१३॥
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्। स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः ॥१-४७-१४॥
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा। यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ॥ ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥१-४७-१५॥
एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत्। क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति ॥१-४७-१६॥
ततः कर्म प्रववृते सर्पसत्रे विधानतः। पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः ॥१-४७-१७॥
परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः। जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ॥१-४७-१८॥
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते। सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥१-४७-१९॥
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने। विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् ॥१-४७-२०॥
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे। पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥१-४७-२१॥
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा। रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ ॥१-४७-२२॥
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च। अवशानि विनष्टानि पन्नगानां द्विजोत्तम ॥१-४७-२३॥
इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे। मत्ता इव च मातङ्गा महाकाया महाबलाः ॥१-४७-२४॥
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः। घोराश्च परिघप्रख्या दन्दशूका महाबलाः ॥ प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥१-४७-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.