Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.048
Library: Names of the officiating priests; Takshaka takes shelter with Indra; Vasuki pleads with his sister Jaratkaru to send Āstika.
शौनक उवाच॥
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः। जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ॥१-४८-१॥
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे। विषादजननेऽत्यर्थं पन्नगानां महाभये ॥१-४८-२॥
सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति। सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज ॥१-४८-३॥
सूत उवाच॥
हन्त ते कथयिष्यामि नामानीह मनीषिणाम्। ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ॥१-४८-४॥
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः। च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः ॥१-४८-५॥
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः। ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः ॥१-४८-६॥
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्। उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः ॥१-४८-७॥
असितो देवलश्चैव नारदः पर्वतस्तथा। आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा ॥१-४८-८॥
वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान्। कहोडो देवशर्मा च मौद्गल्यः शमसौभरः ॥१-४८-९॥
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः। सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह ॥१-४८-१०॥
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ। अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ॥१-४८-११॥
वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः। ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥१-४८-१२॥
पततां चैव नागानां धिष्ठितानां तथाम्बरे। अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ॥१-४८-१३॥
तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम्। गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ॥१-४८-१४॥
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः। अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ॥१-४८-१५॥
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक। भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथञ्चन ॥१-४८-१६॥
प्रसादितो मया पूर्वं तवार्थाय पितामहः। तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः ॥१-४८-१७॥
एवमाश्वासितस्तेन ततः स भुजगोत्तमः। उवास भवने तत्र शक्रस्य मुदितः सुखी ॥१-४८-१८॥
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः। अल्पशेषपरीवारो वासुकिः पर्यतप्यत ॥१-४८-१९॥
कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम्। स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ॥१-४८-२०॥
दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च। सीदामीव च संमोहाद्घूर्णतीव च मे मनः ॥१-४८-२१॥
दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च। पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ॥१-४८-२२॥
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया। व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् ॥१-४८-२३॥
अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः। जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् ॥१-४८-२४॥
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे। प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ॥१-४८-२५॥
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम्। ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ॥१-४८-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.