01.049
Library: With the intention of stopping the snake sacrifice, Astika reaches the entrance of the sacrificial ground.
सूत उवाच॥
तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा। वासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥१-४९-१॥
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः। कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम् ॥१-४९-२॥
आस्तीक उवाच॥
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे। तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा ॥१-४९-३॥
सूत उवाच॥
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी। भगिनी नागराजस्य जरत्कारुरविक्लवा ॥१-४९-४॥
भुजगानामशेषाणां माता कद्रूरिति श्रुतिः। तया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥१-४९-५॥
उच्छैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम। विनतानिमित्तं पणिते दासभावाय पुत्रकाः ॥१-४९-६॥
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः। तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ॥१-४९-७॥
तां च शप्तवतीमेवं साक्षाल्लोकपितामहः। एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ॥१-४९-८॥
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा। अमृते मथिते तात देवाञ्शरणमीयिवान् ॥१-४९-९॥
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्। भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् ॥१-४९-१०॥
ते तं प्रसादयामासुर्देवाः सर्वे पितामहम्। राज्ञा वासुकिना सार्धं स शापो न भवेदिति ॥१-४९-११॥
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात्। अभिशापः स मात्रास्य भगवन्न भवेदिति ॥१-४९-१२॥
ब्रह्मोवाच॥
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति। तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति ॥१-४९-१३॥
जरत्कारुरुवाच॥
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः। प्रादान्माममरप्रख्य तव पित्रे महात्मने ॥१-४९-१४॥
प्रागेवानागते काले तत्र त्वं मय्यजायथाः ॥१-४९-१४॥
अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि। भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् ॥१-४९-१५॥
अमोघं नः कृतं तत्स्याद्यदहं तव धीमते। पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥१-४९-१६॥
सूत उवाच॥
एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा। अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव ॥१-४९-१७॥
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम। तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ॥१-४९-१८॥
भव स्वस्थमना नाग न हि ते विद्यते भयम्। प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति ॥१-४९-१९॥
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ॥१-४९-१९॥
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्। वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ॥१-४९-२०॥
यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम ॥१-४९-२०॥
स सम्भावय नागेन्द्र मयि सर्वं महामते। न ते मयि मनो जातु मिथ्या भवितुमर्हति ॥१-४९-२१॥
वासुकिरुवाच॥
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते। दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः ॥१-४९-२२॥
आस्तीक उवाच॥
न सन्तापस्त्वया कार्यः कथञ्चित्पन्नगोत्तम। दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥१-४९-२३॥
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्। नाशयिष्यामि मात्र त्वं भयं कार्षीः कथञ्चन ॥१-४९-२४॥
सूत उवाच॥
ततः स वासुकेर्घोरमपनीय मनोज्वरम्। आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥१-४९-२५॥
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः। मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥१-४९-२६॥
स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम्। वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥१-४९-२७॥
स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः। अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः ॥१-४९-२८॥