Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.058
Library: How Kshatriya race was revived; later danavas and devas took birth on earth.
जनमेजय उवाच॥
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः। सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः ॥१-५८-१॥
यदर्थमिह सम्भूता देवकल्पा महारथाः। भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ॥१-५८-२॥
वैशम्पायन उवाच॥
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम्। तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ॥१-५८-३॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा। जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥१-५८-४॥
तदा निःक्षत्रिये लोके भार्गवेण कृते सति। ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः ॥१-५८-५॥
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः। ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥१-५८-६॥
तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः। ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् ॥ कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ॥१-५८-७॥
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः। जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् ॥ चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः ॥१-५८-८॥
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा। तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ॥ ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ॥१-५८-९॥
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः। ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ॥ आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ॥१-५८-१०॥
अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम्। अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् ॥१-५८-११॥
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम्। ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् ॥१-५८-१२॥
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः। दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् ॥१-५८-१३॥
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः। स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥१-५८-१४॥
न बाल एव म्रियते तदा कश्चिन्नराधिप। न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः ॥१-५८-१५॥
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ। इयं सागरपर्यन्ता समापूर्यत मेदिनी ॥१-५८-१६॥
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः। साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ॥१-५८-१७॥
न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप। न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत ॥१-५८-१८॥
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह। न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् ॥१-५८-१९॥
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः। न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ॥१-५८-२०॥
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः। धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ॥१-५८-२१॥
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप। एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥१-५८-२२॥
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ। फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ॥१-५८-२३॥
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप। आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥१-५८-२४॥
ततः समुदिते लोके मानुषे भरतर्षभ। असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव ॥१-५८-२५॥
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि। ऐश्वर्याद्भ्रंशिताश्चापि सम्बभूवुः क्षिताविह ॥१-५८-२६॥
इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः। जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥१-५८-२७॥
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च। क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ॥१-५८-२८॥
जातैरिह महीपाल जायमानैश्च तैर्मही। न शशाकात्मनात्मानमियं धारयितुं धरा ॥१-५८-२९॥
अथ जाता महीपालाः केचिद्बलसमन्विताः। दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः ॥१-५८-३०॥
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम्। इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥१-५८-३१॥
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन्। अन्यानि चैव भूतानि पीडयामासुरोजसा ॥१-५८-३२॥
त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते। विचेरुः सर्वतो राजन्महीं शतसहस्रशः ॥१-५८-३३॥
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः। अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥१-५८-३४॥
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः। पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे ॥१-५८-३५॥
न हीमां पवनो राजन्न नागा न नगा महीम्। तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥१-५८-३६॥
ततो मही महीपाल भारार्ता भयपीडिता। जगाम शरणं देवं सर्वभूतपितामहम् ॥१-५८-३७॥
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः। ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥१-५८-३८॥
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः। वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा ॥१-५८-३९॥
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी। संनिधौ लोकपालानां सर्वेषामेव भारत ॥१-५८-४०॥
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयम्भुवः। पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ॥१-५८-४१॥
स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत। सुरासुराणां लोकानामशेषेण मनोगतम् ॥१-५८-४२॥
तमुवाच महाराज भूमिं भूमिपतिर्विभुः। प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः ॥१-५८-४३॥
यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे। तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः ॥१-५८-४४॥
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च। आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ॥१-५८-४५॥
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक्। अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् ॥१-५८-४६॥
तथैव च समानीय गन्धर्वाप्सरसां गणान्। उवाच भगवान्सर्वानिदं वचनमुत्तमम् ॥ स्वैरंशैः सम्प्रसूयध्वं यथेष्टं मानुषेष्विति ॥१-५८-४७॥
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः। तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥१-५८-४८॥
अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः। नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥१-५८-४९॥
यः स चक्रगदापाणिः पीतवासासितप्रभः। पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥१-५८-५०॥
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम्। अंशेनावतरस्वेति तथेत्याह च तं हरिः ॥१-५८-५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.