Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.059
Library: Ancient lineage of Devas and Asuras.
वैशम्पायन उवाच॥
अथ नारायणेनेन्द्रश्चकार सह संविदम्। अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ॥१-५९-१॥
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः। निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ॥१-५९-२॥
तेऽमरारिविनाशाय सर्वलोकहिताय च। अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः ॥१-५९-३॥
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च। जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥१-५९-४॥
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा। पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः ॥१-५९-५॥
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा। न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ॥१-५९-६॥
जनमेजय उवाच॥
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा। मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ॥१-५९-७॥
श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः। प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि ॥१-५९-८॥
वैशम्पायन उवाच॥
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे। सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ॥१-५९-९॥
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः। मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥१-५९-१०॥
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः। प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥१-५९-११॥
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः। क्रोधा प्रावा अरिष्टा च विनता कपिला तथा ॥१-५९-१२॥
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत। एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ॥१-५९-१३॥
अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः। ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ॥१-५९-१४॥
धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च। भगो विवस्वान्पूषा च सविता दशमस्तथा ॥१-५९-१५॥
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते। जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ॥१-५९-१६॥
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः। नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः ॥१-५९-१७॥
प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम्। अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ॥१-५९-१८॥
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत। विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ॥१-५९-१९॥
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान्। बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ॥१-५९-२०॥
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत। तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ॥१-५९-२१॥
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः। असिलोमा च केशी च दुर्जयश्चैव दानवः ॥१-५९-२२॥
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्। तथा गगनमूर्धा च वेगवान्केतुमांश्च यः ॥१-५९-२३॥
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा। अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः ॥१-५९-२४॥
इसृपा एकचक्रश्च विरूपाक्षो हराहरौ। निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ॥१-५९-२५॥
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा। इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ॥ अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ॥१-५९-२६॥
इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः। दनुपुत्रा महाराज दश दानवपुङ्गवाः ॥१-५९-२७॥
एकाक्षो मृतपा वीरः प्रलम्बनरकावपि। वातापिः शत्रुतपनः शठश्चैव महासुरः ॥१-५९-२८॥
गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः। असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ॥१-५९-२९॥
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्। सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् ॥१-५९-३०॥
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम्। गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः ॥१-५९-३१॥
अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः। विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ॥१-५९-३२॥
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः। भुवि ख्याता महावीर्या दानवेषु परन्तपाः ॥१-५९-३३॥
विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः। क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः ॥१-५९-३४॥
असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत्। ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ॥१-५९-३५॥
त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ। तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः ॥१-५९-३६॥
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम्। असुराणां सुराणां च पुराणे संश्रुतो मया ॥१-५९-३७॥
एतेषां यदपत्यं तु न शक्यं तदशेषतः। प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् ॥१-५९-३८॥
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ। आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः ॥१-५९-३९॥
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः। कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः ॥१-५९-४०॥
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा। गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥१-५९-४१॥
पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः। भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ॥१-५९-४२॥
तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः। कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ॥ इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥१-५९-४३॥
अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत। अनवद्यामनुवशामनूनामरुणां प्रियाम् ॥ अनूपां सुभगां भासीमिति प्रावा व्यजायत ॥१-५९-४४॥
सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः। ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ॥१-५९-४५॥
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा। इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ॥१-५९-४६॥
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम्। प्रावासूत महाभागा देवी देवर्षितः पुरा ॥१-५९-४७॥
अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा। अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ॥१-५९-४८॥
असिता च सुबाहुश्च सुव्रता सुभुजा तथा। सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू ॥ तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ॥१-५९-४९॥
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा। अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ॥१-५९-५०॥
इति ते सर्वभूतानां सम्भवः कथितो मया। यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा ॥१-५९-५१॥
भुजगानां सुपर्णानां रुद्राणां मरुतां तथा। गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ॥१-५९-५२॥
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः। श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ॥१-५९-५३॥
इमं तु वंशं नियमेन यः पठे; न्महात्मनां ब्राह्मणदेवसंनिधौ। अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् ॥१-५९-५४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.