Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.063
Library: Dushyanta’s hunting expedition described, that results in large-scale destruction of animals.
वैशम्पायन उवाच॥
स कदाचिन्महाबाहुः प्रभूतबलवाहनः। वनं जगाम गहनं हयनागशतैर्वृतः ॥१-६३-१॥
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः। प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥१-६३-२॥
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः। रथनेमिस्वनैश्चापि सनागवरबृंहितैः ॥१-६३-३॥
हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः। आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ॥१-६३-४॥
प्रासादवरशृङ्गस्थाः परया नृपशोभया। ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ॥१-६३-५॥
शक्रोपमममित्रघ्नं परवारणवारणम्। पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे ॥१-६३-६॥
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः। यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ॥१-६३-७॥
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम्। तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ॥१-६३-८॥
तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः। निर्ययौ परया प्रीत्या वनं मृगजिघांसया ॥१-६३-९॥
सुदूरमनुजग्मुस्तं पौरजानपदास्तदा। न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥१-६३-१०॥
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः। महीमापूरयामास घोषेण त्रिदिवं तथा ॥१-६३-११॥
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम्। बिल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ॥१-६३-१२॥
विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम्। निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ॥ मृगसङ्घैर्वृतं घोरैरन्यैश्चापि वनेचरैः ॥१-६३-१३॥
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः। लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् ॥१-६३-१४॥
बाणगोचरसम्प्राप्तांस्तत्र व्याघ्रगणान्बहून्। पातयामास दुःषन्तो निर्बिभेद च सायकैः ॥१-६३-१५॥
दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः। अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत ॥१-६३-१६॥
कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः। गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ॥१-६३-१७॥
तोमरैरसिभिश्चापि गदामुसलकर्पणैः। चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ॥१-६३-१८॥
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः। लोड्यमानं महारण्यं तत्यजुश्च महामृगाः ॥१-६३-१९॥
तत्र विद्रुतसङ्घानि हतयूथपतीनि च। मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ॥१-६३-२०॥
शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः। व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ॥१-६३-२१॥
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि। केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ॥१-६३-२२॥
केचिदग्निमथोत्पाद्य समिध्य च वनेचराः। भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ॥१-६३-२३॥
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः। सङ्कोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः ॥१-६३-२४॥
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु। वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ॥१-६३-२५॥
तद्वनं बलमेघेन शरधारेण संवृतम्। व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् ॥१-६३-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.