01.062
Library: Origin of Pourava race narrated. Righteous rule of Dushanta!
जनमेजय उवाच॥
त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम्। अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ॥१-६२-१॥
इमं तु भूय इच्छामि कुरूणां वंशमादितः। कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥१-६२-२॥
वैशम्पायन उवाच॥
पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान्। पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥१-६२-३॥
चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः। समुद्रावरणांश्चापि देशान्स समितिञ्जयः ॥१-६२-४॥
आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः। रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ॥१-६२-५॥
न वर्णसङ्करकरो नाकृष्यकरकृज्जनः। न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ॥१-६२-६॥
धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे। तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ॥१-६२-७॥
नासीच्चोरभयं तात न क्षुधाभयमण्वपि। नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ॥१-६२-८॥
स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः। तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ॥१-६२-९॥
कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च। सर्वरत्नसमृद्धा च मही वसुमती तदा ॥१-६२-१०॥
स चाद्भुतमहावीर्यो वज्रसंहननो युवा। उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् ॥१-६२-११॥
धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च। नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः ॥१-६२-१२॥
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः। अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः ॥१-६२-१३॥
संमतः स महीपालः प्रसन्नपुरराष्ट्रवान्। भूयो धर्मपरैर्भावैर्विदितं जनमावसत् ॥१-६२-१४॥